This page has not been fully proofread.

( ३ )
 
(१०) सोमखरस्य–
 
एतस्यैव हविर्धानस्यात्रेयोपस्तम्भन मुपरवपांसुभिश्चतुरक्षं खरं करोति
सोमपात्रेभ्यः माप्तम् । पुरस्तात् सञ्चरं शिनष्टि ॥ ११-१३-८, ६ ॥
 
(११) सोमखरस्थपात्राणाम्-
खरे पात्राणि प्रयुनक्ति । दक्षिर्णेऽस उपशुपात्रम् । उत्तरमन्तर्यामस्य ।
ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् । तमपरेण
प्रत्यञ्चि द्विदैवत्यपात्राणि । तान्यन्तरेण प्रबाहुक शुक्रामस्थनोः पात्रे । ते
श्रपरेण प्रबाहुगृतुपात्रे । दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । उत्तरस्या-
मुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् । स्थाल्यावन्तरेण त्रीण्यु.
दञ्चयतिग्राह्यपात्राणि आग्नेयमैन्द्रं सौर्यमिति । उत्तरेंऽसे दधिग्रहपात्रम् ।
एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रञ्च तस्या
उत्तरम् । उत्तरस्य हविर्घानस्याम्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् । मध्ये
परिष्लवाम् । यथावकाशं दश चमसान् । दक्षिणस्य हविर्धानस्याघस्तात्
पश्चादक्षं द्रोणकलशं सदशापवित्रम् । उत्तरस्य हविर्धानस्योपरिष्टान्नीडे
श्राघवनीयम् । प्रधुरे पूतभृतम् । एतस्यैव हविर्थानस्याधस्तात् पश्चादक्षं
श्रीनेकधनान् घटान् ॥ १२-१, १२-२-१-१३ ॥
 
(१२) यूपावटस्य
 
अग्रेणाहवनीयं यूपावटं परिलिखत्यर्धमन्तवैद्यध बहिर्वेदि । ७-६-६ ॥
(१३) नाभेः-
अथास्या मध्ये प्रादेशमात्र गोपदमात्रीमश्वशफमात्र वोत्तरनाभिं चतु-
स्त्रक्तिं कृत्वा ॥ ७-५-१॥
 
एतेषां सुत्राणामर्थो मन्थविस्तरभिया न विवृतः । स च दीपिकादितो.
 
ऽवगन्तव्यः ॥
 
(१४) सौमिकमहावेदिनिर्माणप्रकार:-
मीयते सौमिकी वेदिः प्रक्रमै दिशाकुलैः ।
श्रादौ त्रिषु नवद्वयेकचन्द्रद्विशरभूद्विषु ॥ १ ॥
एकैकं द्विशरैकेषु शङ्कवो दश पञ्च च ।
षट्त्रिंशिका मानरज्जुः तस्याः द्वयष्टेषु लक्षणम् ॥ २ ॥
विमाने पाशयोर्मध्यं प्रक्रमा द्वादश स्मृताः ।
श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरतुर्ययोः ॥ ३ ॥
तरकोणाः पञ्चमोनेषु भास्करेषु दशस्वपि ।
 
UNDED
 
॥ तेजस्विनावधीतमस्तु ॥
 
तृतीये द्वघन्तराधिष्ण्यास्तेषां प्रादेशतो भ्रमः ॥ ४ ॥
रुद्रेषु सप्तदशसु शङ्कपादोनितेष्विह ।
आग्नीधं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ ॥ ५ ॥
 
Bhandarkar Oriental.
Research Institute
 
-
 
POONA