This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
विन्दार्पणबुध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पण बुद्धया तदनुष्ठाने
 
तर निर
b
यत्करोषि यदनासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
 
प्रमाणाभावः ।
 
इति स्मृतेः । अस्याश्चातिष्टकादिस्मृतिवत् प्रामाण्यादित्यन्यन्त्र विस्तरः ॥
क्वाहं मन्दमतिः क्वेयं प्रक्रिया भाट्टसंम्मता ।
तस्माद्भक्तेर्विलासोऽयं गोविन्दगुरुपादयोः
 
तरकारणमित्यर्थः । ननु सर्वत्र फलवाक्येषु "ज्योतिष्टोमेन स्वर्गकामो यजेत"
"अग्निहोत्रं जुहुयात् स्वर्गकामः" "वाजपेयेन स्वाराज्यकामो यजेत' इत्या.
दिषु स्वर्गादिरूपफलोद्देशेनैव कर्मणां विनियोगदर्शनात् ईश्वरार्पणबुभ्यानुष्ठाने प्रमा
णाभावः इत्याशङ्कय परिहरति-न चेति । यत्करोषीति । यथा च तत्तद्वाक्येषु तत्तत्फ-
लार्थं विहितानामपि कर्मणां "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन
दानेन तपसानाशकेन" इति श्रुत्या संयोगपृथक्त्वन्यायेन विविदिषोद्देशेन सर्वयज्ञानां
विधानं तद्वदनयापि स्मृत्या श्रीभगवदुतया तेनैव न्यायेन ईश्वरार्पण बुध्यानुष्ठान विधा-
नमिति भावः । यद्यपीयं स्मृतिरीश्वरार्पणबुध्याऽनुष्ठान एव प्रमाणम्, न तु तथानुष्ठितस्य
निश्श्रेयस फल कत्वेऽपि । यावच्च तत्र प्रमाणं न प्रदर्श्यते तावत् अनुष्ठाने प्रवृत्तिरेव नोदे.
तीति तदेव प्रथमतः प्रदर्शनीयम्, तथापि तत्रैव गीतायामेतच्छलोकानन्तर पढ़ितेन
 
"शुभाशुभफलैरेवं मोदय से कर्मबन्धनैः ।
 
सन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥"
 
इति श्लोकेन पूर्वोक्त कर्मण: भगवद्रूपतावासिफल कत्वमुपवणितं सिद्धं कृत्वैवमुक्तं
प्रन्थकृतेत्यवगन्तव्यम् । भगवद्गीतावचनस्थास्येतिहास रूपभारतान्तर्गतस्य कुतः तादृशं
स्वार्थे प्रामाण्यमित्यता-स्या इति । गौताया या भारतान्तर्गतत्वेऽपि तदन्त-
गंताख्यानानामेवार्थवादत्वस्य तद्द्वतविधिभागानां तु धर्मे प्रामाण्यस्य वार्तिक का रैरेवार्थ-
वादपादे स्थापितत्वात् विशेषतो भगवतो वासुदेवस्य मुखादेवास्या निर्गतत्वात् विधि-
रूपत्वाच्चास्याः प्रामाण्ये न कोऽपि संशय इत्याशयेनाइ-इत्यन्यत्र विस्तर इति ।
इति शब्दः प्रकरणवाची । कर्मणां तत्तत्फलार्थ विहितानामपि ईश्वरार्पणबुध्याप्यनुष्ठान-
मित्यादिकं प्रकृते सत्प्रहेण यदुक्तं तत्सर्व मया वेदान्तसारव्याख्याने नित्यादीनां कर्मणां
प्रयोजनकथनावसरे विस्तरेण प्रतिपादितं तत एवावगन्तव्यम् । विस्तरभयात्तु नेह प्रप-
ञ्चितमित्यर्थः ।
 
एवं प्रन्थं परिसमाप्य तदन्ते नम्रतां प्रदर्शयति-क्वाहमिति । भाट्टसम्मतेति ।
कौमारिलं मतमाश्रित्य प्रवृत्ता ये पार्थसारथिमिश्रप्रभृतयः तेषामभिमतेत्यर्थः । विशेषण-
मेतदुपाददता स्वप्रन्थोऽपि तदेव मतमवलम्ब्य प्रवृत्तो न प्राभाकरं मतमवलम्ब्येति
सुचितम् । तर्हि किमर्थमेतादृश्यामस्यन्त दुरवगाहायां प्रक्रियायां प्रवृत्तिः ? श्रत आइ-
भक्तेरिति । गोविन्दो भगवान् वासुदेवः स च गुरुश्च तो तयोः पादयोरित्यर्थः । स्वीय
 
STITUT
 
तमस्त ॥
 
Bhandarkar Oriental