This page has not been fully proofread.

१९०
 
मीमांसान्यायप्रकाशः शा [यार्थी भावना-
र्थो न तु प्रयत्नः । तस्य धातुनोक्तत्वात् व्यापारविशेषापेक्षायां चेच्छादिः
पश्चादवगम्यते, उद्यमननिपातनवत् ।
 
तथा च सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापार सामान्य मेवाख्यातार्थः,
न तु प्रयत्नमात्रम् । रथो गच्छति, देवदत्तः प्रयतत इत्यादिषु तदभावात् ।
न चात्रौपचारिकत्वं वक्तुं युक्तम्, मुख्ये संभवति तस्यान्याय्यत्वात् ।
करोत्यर्थोऽप्यन्योत्पादानुकूलो व्यापार एव न प्रयत्नमात्रम् करोतेश्चेतना-
चेतन कर्तृकाख्यातसामानाधिकरण्यादिति । तत्सिद्धमन्योत्पादानुकूलो व्यापा
रविशेष आर्थी भावनेति ।
 
सैव चाख्यातांशेनोच्यते-भावयेदिति । तस्याश्च भाग्याकाङ्क्षायां स्व.
गदि भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते ।
इतिकर्तव्यताकाङ्क्षायां प्रयाजादय इतिकर्तव्यतात्वेन संबध्यन्ते । एवञ्च
यजेतेत्यादिना स्वर्गद्युद्देशेन यागादेविधानात् सिद्धं यागादेर्धर्मत्वं प्रयोजन-
मुद्दिश्य वेदेन विहितत्वात् ।
 
( उपसंहारः)
 
। सोऽयं धर्मो यदुद्देशेन विहितः तदुद्देशेन क्रियमाणस्तद्धेतुः । श्रीगो-
(३) ननु – कोऽत्र विशेषः पूर्वस्मात् पक्षात् ? अत आह-तथा चेति । सर्वत्रेति ।
[श्रचेतन कर्तृकस्थले चेतनकर्तृकस्थले चेत्यर्थः । अनुगतत्वादिति । अन्योत्पादानुकूलत्व-
स्येति शेषः । तदभावात् प्रयत्नाभावात् । नन्वेवमप्यन्योत्पादानुकूलव्यापारस्याख्या-
तार्थत्वे पचति, पाकं करोतीति यत्नार्थककृञ्वातुना विवरणानुपपत्तिरित्यत आह-करो-
त्यर्थोऽपीति । कुत एतत् ? अत आह-करोतेरिति । चेतनकर्तृका ख्यातस्थले
देवदत्तः पचतीत्यादौ देवदत्तः पाकं करोतीति विवरणवत् स्थाली पचतीत्यादावचेतन.
कर्तृका ख्यातस्थलेऽपि स्थाली पाकं करोतीति विवरणस्य दृष्टत्वादिस्यर्थः । अतश्चोभयानु-
गतव्यापारस्यैवार्थी भावनात्वं भवितुमर्हति, न तु चेतनमात्रनिष्ठस्य प्रयत्नस्येत्युपसंहरति-
तत्सिद्धमिति । णिजन्तभूधातुना विवरणादपि तस्या अन्योत्पादानुकूलत्वमेव युक्त-
मित्यभिप्रायः । 207662
 
- एवं मतद्वयेनापि भावनां निरूप्य तत्सम्बन्धित्वात् पूर्व प्रकरणनिरूपणावसरे निरूपि.
तमपि पुनरत्रांशत्रयं तस्यास्संक्षेपतः कथयति-तस्याश्चेति । प्रयाजादय इत्यादिन
यस्य प्रधानस्य प्रकरणे यान्यज्ञानि पठितानि तानि प्रायाणि । प्रन्यारम्भे प्रतिज्ञातं या.
गादेर्मत्वमेतावता प्रबन्धेन निरूप्य दर्शितमित्याशयेन पुनस्तत् स्मारयन् ग्रन्थमुप-
संहरति
— एवञ्चेति ।
 
15
 
(उपसंहारः )
 
sund
 
ननु यागादे स्वर्गादिरूपतत्तत्फलोद्देशेन विहितत्वे तत्तत्फलेषु वीतरागाणां मु.
मुक्षूणां प्रवृत्तिनं स्यात् । इष्टापत्तौ केवलं कामिजनमात्रमुद्दिश्य प्रवृत्तं शास्त्रमतिसङ्कुचितं
स्यादिति तस्य महाविषयत्वहानिरित्यत ग्राह- सोऽयमिति । तद्धेतुः तत्फलहेतुः ।
निःश्रेयसहेतुरिति । निःश्रेयसं मोक्षः तद्धेतुः चित्तशुद्धिसम्पादनद्वारा परम्परया