This page has not been fully proofread.

मौमांसान्यायप्रकाशः
 
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति ।
 
DN
 
तत्सिद्धं यजेतेत्यत्र लिङ्वांशेन शाब्दी भावनोच्यत इति ॥ गिरी
श्राख्यातत्वांशेनार्थी भावनोच्यते ।
( अर्थीभावनानिरूपणम् )
 
नदी
 
ननु-केयमार्थी भावना ? । कर्तृव्यापार इति चेत-न; यागादेरपि तद्या.
पारत्वेन भावनात्वापत्तेः । नचेष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा.
वादिति चेत्-pay
 
अत्राहु:- (१) सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग.
टसाघनता लिप्रतिपाद्या, प्रवर्तनात्वं तु कथं तस्याः ? इत्यत ग्राह-प्रवृत्तिहेतुमिति ।
यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दीभावनानिरू
पण मुपसंहरति— तत्सिद्धमिति ।
 
एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभते-
श्रख्यातत्वेति । 210 ( आर्थीभावनानिरूपणम् )
 
ननु भावनाया यदि घात्वर्थात् भेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्य-
त्वम्, तत्रैव न प्रमाणं पश्यामः, पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यधिध
यणोदका सेचनतण्डुलावा पफूत्कारावसावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त
इति तेषां धातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात्
कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते-नन्विति ।
कर्तृव्यापार इति । सर्वत्र हि पचति, पाकं करोति, यजति, यागं करोति, इति विवरणं
दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञधातुना च प्रत्ययार्थस्य विवरणमित्यव
गम्यते । तेन च करोति समानार्थकत्वमाख्यातस्येत्यवगम्यते । करोति सकर्मक इत्या-
ख्यातेनापि तथैव भाग्यम् । तच्च कर्मोसायमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प
श्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि•
धत्ते । भूघातोर्ण्यन्तात् करणार्थकल्युट् प्रत्यये कृते भावनाशब्दनिष्पत्तेः । पाकशब्दार्थश्र
विक्लित्तिः । यागपदार्थश्च द्रव्यदेवतयोस्सम्बन्धः । अतश्च तण्डुल रूप कर्मंगत विक्लित्तिरूपव्यापारः
पचिघात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विक्लित्य-
नुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः। न विलित्यादिः केवलो धात्वर्थो भवितुम-
र्हति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु
पचेरधिश्रयणाद्यवस्रावणान्तो व्यापारोऽर्थः, यजेश्च मानसत्यागः, सङ्कल्पो वा, तस्यैव
यागादिपदार्थत्वात्; तस्य च कर्तृव्यापारस्वात् तस्यैव भावनात्वमापद्येतेत्याह-याग दे-
रिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुपकान्तो
भवान् इदानीं प्रकृत्यर्थस्यैव भावनात्वमभ्युपगच्छन् म पतितः, स्वोक्तविरोधी च
 
१६६
 
-
 
[ आर्थीभावना-
सञ्जात इत्याशयः ।
 
एवमापादितां शङ्कां प्रथमतो न्यायसुषाकृन्मतमनुसृत्य समाधत्ते- प्रत्राहुरिति ।
आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस.
१. इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रित्या दिना निरूप्यमाणं
 
Bhar
Rese
 
-
 
FOUNDED