This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलितः
 
१८५
 
नच विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणान-
भिधाने च विधेः प्रवर्तकस्वाभावाद्धात्वर्थस्य समीहितसाधनत्व कल्पकमेव
 
नास्तीति वाच्यम् ; प्रवर्तनाभिधानेनै (१) व तन्मतेऽपि विधेः प्रवर्तकत्वात्
विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहित-
साधनस्वाक्षेपकत्वात् ।
 
म चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्ट साधनं तत् त्वं कुर्विति
सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभि-
धानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन
दृष्टः सहप्रयोगः– पाञ्चालराजो द्रुपद-इत्यादौ । तस्मात् समीहितसाधनतव
प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति
शाब्दी भावना ।
 
2010
 
उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहित-
साधनता सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्ति भावयतीति भावना तां
लिङादय आहुरिति । यथाद्दुः-
पुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ।
 
भाग्यत्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा
विष्यर्थो न स्यात् तदा अन्यथानुपपद्यमानस्य कस्याप्यभावात् धात्वर्थगतेष्टसाधनताचे-
पप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाञ्जलि स्यादित्याशङ्कामनूथ परिहरति-न चेति ।
प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरण। त्वेन विधिगम्यत्वमङ्गीक्रियते, किन्तु प्रवर्तनासा-
मान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेष जिज्ञासायां परं प्रेरणारूपो
विशेषोऽवघार्यते । अतथ प्रथमतः प्रेरणानभिधानेऽपि यथा तन्मते इष्टसाधनत्वाक्षेपकत्वं
तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः
 

 
पूर्वोक्तां सहप्रयोगानुपपत्तिं वारयति-न चेति । विशेषरूपेणेति । इष्टसाघनत्वस्य
विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदववोध्यते। किन्तु प्रवर्तनास्वेनैव, इष्टसाध-
नपदेन तु विशेषरूपेणेति सामान्यविशेषवाचकपदयोरुपपन्नस्सहप्रयोग इति भावः । तदेव
संदृष्टान्तमभिधत्ते-सामान्यशब्दस्येत्यादि । उक्तमर्थमुपसंहरति-तस्मादिति । सैव
समीहितसाधन तैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवार्थे वार्तिकमपि योज-
यति-उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पते अभिघा
च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति ।
मंत्र मण्डनमिश्रस्यापि सम्मतिमाह-यथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात्
इष्टसाधनत्वात् ल्यब्लोपे पञ्चमी । इष्टसाघनत्वं विहायैस्यर्थः । क्रियासु यागादिषु प्रव
र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषित-
फलसाघनता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिनोंदेतीति भावः । श्रस्तु नामे -
३१. नेतन्म० ।
 
Bhandarkar Oriental
Research Institute
 
TOP IN DER JE BM
 
२४ मी० न्या०