2023-02-15 04:04:06 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्यासंवलितः
१८३
सर्वोऽपि हि समीहितसांघनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितोऽपि यदीष्टसाथ-
नतां न जानाति तदा नैव प्रवर्तते ।
स्वतन्त्रप्रेरणावादेऽपि तदाक्षिप्तसमीहितसाघनताज्ञानं स्वीक्रियत एव ।
अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्चावश्यकत्वात् समीहितसाधन.
sपि होति । स्वतन्त्रप्रवृत्तिस्थले समीहितसाघनताज्ञानादेव प्रवर्तते इति निर्विवादम् ।
अन्यदीय प्रेरणानन्तरप्रवृत्तिस्थलेऽपि समीहितसाधनतो ज्ञात्वैव प्रवर्तते । यद्यपि तत्र
स्वारसिकेच्छा न स्यात् तथापि आचार्यादिः स्वप्रवर्तनाबलात् तस्य समीहितसाधनता-
ज्ञानमुत्पाद्यैव प्रवर्तयतीत्यनुभवसिद्धम् । एवञ्च तत्रापोष्टसाघनताज्ञानादेव प्रवर्तत इति
प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनताज्ञानस्य कारणत्वमुचितमेवेति भावः । उक्तं
च मण्डनमिश्रैः- "प्रवृत्तिसमर्थो हि कश्चित् भावातिशयो व्यापाराभिधानः
प्रवर्तना। सा च क्रियाणां अपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र
प्रवर्तते कश्चित् । याण्याज्ञादिभ्यः प्रवृतिः सापि कथञ्चित् श्रपेक्षितनिबन्धन-
स्वमुपाश्रित्यैव" इति । "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः" इति च ।
प्रवृत्ति समर्थः प्रवत्तिजननसमर्थः । अपेक्षितोपायता इष्टसाधनता ।
मनु सर्वत्र लिखगदिशब्दश्रवणानन्तरमेव प्रवृत्तिदर्शनात् तस्याश्च कर्तव्यताप्रतिपति-
पूर्वकत्वावगमात् प्रेरणाख्यस्यैव कस्यचित् व्यापारस्य समीहितसाघनतातिरिक्तस्य कर्त-
•व्यताबुद्ध्युस्पादनद्वारा प्रवृत्तिहेतुस्वाभ्युपगमात् न तस्यास्स मीहितसाघनतारूपत्वाभ्युपगमे
प्रमाणमस्ति इत्यत आह - स्वन्त्रप्रेरणावादेऽपीति । पूर्वमुक्तो यः पक्षः प्रेरणायाः
लिङर्थस्वाभ्युपगमरूपः तत्रापीत्यर्थः । तदाक्षिप्तेति । प्रेरणाख्यव्यापारस्य लिबर्थत्वम-
भ्युपगम्य तस्यैव प्रवृत्तिजनकत्वमभ्युपगच्छता भवतापि तत्र समीहितसाघनताशानं स्वी
क्रियत एव, परन्तु सा स्वस्याः प्रवर्तकत्वसिद्धयर्थं स्वविषययागादेस्समीहितसाधनत्वमा.
क्षिपतीत्युच्यते भवता । सर्वथा तु इष्टसाधनता ज्ञानमावश्यकमेव भवतोऽपीत्याशयः ।
मम्मते इष्टसाधनतानाक्षेपे को दोषः ? इत्याक्षिपन्तं पूर्वपक्षिणं प्रत्याह-अभ्यथेति ।
उकं च "हेतुमति च" इति सूत्रे महाभाष्ये "सर्व इमे स्वभूत्यर्थं प्रवर्तस्ते" इति ।
"कः प्रयोज्यस्य प्रेरणयार्थो यदभिप्रायेषु सजते" इति तत्सूत्रस्थभाष्येण णिज.
थंप्रेरणाया अपि स्वातन्त्र्येणा प्रवर्तकत्वबोधानाच्च । एवञ्च मतद्वयेऽपि तस्या आवश्यक-
त्वात् तस्या एव विध्यर्थत्वकल्पनं युक्तमित्याह-अतश्चेति ।
नन्वेवं समीहितसाघनत्वस्यैव लिङर्थत्वमभ्युपगम्य तज्ज्ञानस्यैव सर्वत्र प्रवृत्तिहेतु.
त्वाभ्युपगमे 'श्रचार्य प्रेरितोऽहं गामानयामि, न स्वतः' इति व्यवहारोच्छेदापत्तिः, न च
तत्र प्रवृत्तिकारणीभूतेष्टसाधन ताज्ञान जन कलिङच्चारयितृत्वेनैवाचार्यादेः प्रवर्तकत्वव्यवहार
इति वाच्यम् । तथात्वे राजप्रेरितपदातेः तादृशलिङच्चारयितृत्वेन प्रवर्तकत्वायत्तेः । न
चेष्टशपत्तिः । तथात्वे 'राजप्रेरितोऽहं गामानयामि, न पदतिप्रेरितः' इति पदातेः प्रवर्तक-
त्वाभावव्यवहारानुपपत्तेः । अतः पूर्वोक्तव्यवहारसाधुत्वार्थ तत्र प्रेरणादेरेव विध्यर्थत्वम-
वश्यमभ्युपगन्तव्यमिति चेत्-न; तत्रापि तत्सम्पादनपरितोषितः श्राचार्यादिः मत्समी-
हितं साधयेत्, श्रहितं वा न विदध्यात् इति बुद्ध्यैव शिष्यादेः प्रवृत्तिदर्शनात्, अन्यथा
Bhandarkar Oriental
-