This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१७७
 
निषिद्धयमानस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुब.
न्धित्वम् ।
 
एवं सर्वस्यापि वेदस्य पुरुषार्थानुबन्धित्वम् ।
 
अकृतमनुसरामः । तदेवं यथा विध्यादीनामध्ययन विध्युपात्तानां नानर्थ-
क्यम्, एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च
प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् ।
 
(श्रर्थवाद निरूपणम्)
 
ते चार्थवादा द्विविधाः- विधिशेषा निषेधशेषाश्च । तत्र "वायव्यं श्वेत-
मालभेत्ते"त्यादिविधिशेषाणां "वायुवँ क्षेपिष्टा देवेते" त्यादीनामर्थवादानां
विधेयार्थस्तावकतयार्थनत्वम् । "बर्हिषि रजतं न देय"मित्यादिनिषेधशेषाणां
 
तस्य यथाचोदनं सिद्धत्वात्, पुरुषस्तु परं प्रत्यवैतीत्याह-रांगत इति । उक्तं हि
वार्तिके-"यो नाम ऋतुमध्यस्थः कलञ्जादीनि भक्षयेत् ।
 
न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः" ॥
इति, "यदा दर्शपूर्णमासस्थोऽपि तदतिक्रमं करोति तदा बाह्यातिक्रमव
दस्य स्वयं प्रत्यवायमात्रं स्यात् न कर्मफलासम्बन्धः । न हि शुद्धपुरुषधर्मैः
ऋतवः प्रत्यवयन्ति" इति च । अत्र च मूले निषिध्यमानस्यानर्थहेतु त्वमित्यनन्तरं
न तु ऋतोर्वैगुण्यमिति पूरणीयम् ।
 
उपक्रान्तां निषेधविषयिणीं कथामुपसंहरति-तदिति । एवमिति । विधीनामंशत्रय-
विशिष्टभावनाविधायकत्वेन, अर्थवादानां विधेयप्राशस्त्य समर्पकत्वेन मन्त्राणां प्रयोगसम-
वेतार्थस्मारकत्वेन, नांमधेयानां विधेयार्थ परिच्छेदकतया, निषेधानां अनिष्टजन की भूतात्
कंर्मणो निवर्तकश्वेनेत्येवंप्रकारेणेत्यर्थः । पुरुषार्थानुबन्धित्वमिति । पुरुषार्थः फलं स्व-
र्गादि, अनिष्टपरिहारो वा, तत्सम्बन्धित्वमित्यर्थः ।
 
प्रकृतमिति । एतावता विधिमन्त्रनामधेयनिषेधानां प्रयोजनवदर्थपर्यंवसायित्वं निरू
पितम् । अर्थवादानां तु तदवशिष्टम्, तन्निरूपणमेव प्रकृतम्, तदेव निरूपयाम इत्यर्थः ।
तदेव स्पष्टयति- तदेवमिति । विध्यादीनां विधिमन्त्रनामधेयनिषेधानाम् । तदु.
पात्तत्वेन अध्ययन विध्युपात्तत्वेन । मास्त्वानर्थक्यम्, नावता लक्षणायां किं प्रमाणम् ?
स्वार्थप्रतिपादनेनैव तेषां कृतार्थत्वात, अत आह- स्वार्थेति । स्वशक्यार्थप्रतिपादन
इत्यर्थः । प्रयोजनाभावादिति । ततः प्रवृत्तिनिवृत्योरनुदयादिति भावः ।
 
(अर्थवाद निरूपणम्)
 
अर्थवादान् विभजते - ते चेति । के विधिशेषाः ? के वा निषेधशेषाः ? तानुपपाद-
यति-तत्रेति । वायव्यमिति । अत्रालभतिघातुर्लक्षणया यागपरः, द्वितीयां च तृतीयायें ।
वायुदेवताकेन श्वेतगुणकपशुद्रव्येण यागेन भूतिमैश्वर्य भावयेदिति वाक्यार्थः। वायुर्वा
इति । वैशब्दः प्रसिद्धौ, वायुः क्षेपिष्ठा क्षिप्रगामिनी देवता खलु । यजमानः स्वेन हविषा
वायुसमीपं गच्छति चेत् वायुमाराघयति चेदिति यावत् । स वायुः एनं यजमानं भूर्ति
प्रापयत्येवेत्यर्थः । अर्थवत्वमिति । प्रयोजनवत्वमित्यर्थः । निषेधशेषार्थवादमुदाहरति-
बर्हिषोति । बर्हिश्शब्देन तद्विशिष्टो यागो लक्ष्यते । बर्हिषि यागे रजतं दक्षिणात्वेन न
२३ मो० न्या०