2023-02-15 04:04:02 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविबेचिनोव्याख्यासंवलितः
१६७
6
अत एव "नान्तरिक्षे न दिवी" त्यस्य न प्रतिषेधत्वम्, अन्तरिक्षे चयना-
प्राप्तेः । अत एव "ब्राह्मणो न हन्तव्य" इत्यस्य नित्यवद्धनन निवर्तकत्वमुपप-
द्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते; कदाचिच्च (१) रागाद्यभावे न
प्रवर्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात् तदा (२) रागादि तिरो-
धाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन
पुंसा न ततो निवर्तितव्यम् ।
प्राप्तिसापेक्षत्वे तु स्वयमप्रवृत्तं प्रति प्रसत्याभावेन निषेधशास्त्राप्रवृत्तेः
रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता
प्रवृत्तस्य ततो निवृत्तिः ।
एवञ्च यत्र तादृशी प्राप्तिर्नास्ति तत्र श्रुतस्यापि न नञः प्रतिषेधकत्वमित्याह-
श्रत पवेति । प्रतिषेधस्य प्राप्तिसापेक्षत्वा देवेत्यर्थः । नान्तरिक्ष इति । अन्तरिक्ष
ऽग्निचयनं न कुर्यात्, धुलोके चाग्निचयनं न कुर्यादिति तदर्थः । चयनं नामाहवनीय-
स्याग्नेः स्थापनार्थमिष्टकाभिः स्थण्डिल विशेषसम्पादनम् । अत्र च 'नान्तरिक्षे' इत्यादि
न चयन निषेधार्थम् । किन्तु 'हिरण्यं निधाय चेतव्य' मित्यस्य विधेश्शेषभुतम् ।
यथान्तरिते दिवि वा चयनं न प्रसिद्धं, एवं हिरण्यरहितायां केवलायामपि पृथिव्याम् ।
ती हिरण्यं भूमौ निघाय तदुपर्येव चयनं कर्तव्यमित्यौचित्येन हिरण्यनिधानस्तुतिः ।
कुतो न चयननिषेधः १ अत श्राह-चयनाप्राप्तेरिति । तस्य भूमावेव कर्तुं शक्यतया
अन्तरिक्षयुलोकयोः कर्तुमशक्यत्वेन तत्र प्राप्तेरेवाभावादित्यर्थः । अत एव निषेधस्य
प्राप्तविषये प्रवृत्तिस्वाभाव्यादेव । नित्यवदिति । नित्यतयेत्यर्थः । तदेवोपपादयति-
सर्वो हीति । इननादावित्यादिपदेन निषिद्धकर्माणि गृह्यन्ते । तिरोधाय प्रतिरुध्य ।
शास्त्रे तिनिषेधवाक्याभिप्रायम् । नेति । प्रवृत्त्यभावस्थलमादाय चरितार्थस्य शास्त्रस्य
रागप्राप्त प्रवृत्तिबाधे प्रमाणभावात् । अतश्च नित्यवद्धनननिवर्तकत्वं नोपपद्येतेति भावः ।
भवत्पक्षे वा कथं नित्यतया हनननिवृत्तिः ? अत आह-प्राप्तीति । स्वयमिति ।
शास्त्रं विनेत्यर्थः । श्रप्रवृत्तं ( पुरुषं ) प्रति निषेधशास्त्राप्रवृत्तरित्यन्वयः । तत्र हेतुः
प्रसक्त्यभावेनेति । ननु अस्तु रागादिना प्रवृत्तपुरुषविषय एव निषेधशास्त्राणां
प्रवृत्तिः, तथापिं कथं तस्य नित्यतया हननादिनिवर्तकत्वम् । तादृशस्थले रागादिकमुप
जीव्यैव खलु निषेधशास्त्रं प्रवर्तत इति वक्तव्यम् । ततश्च स्वतो दुर्बलस्याप्युपजी व्यत्वेन
प्राबल्यमश्नुवतो रागादेः निषेधशास्त्रतो निवृत्तिरात्यन्तिकी न सम्भवस्येवेति विकल्प एव
युक्त इत्यत आह - भ्रान्तोति । हननादिविषयक बलव द निष्ठाननुबन्धिखविशिष्टेष्टसाधन-
स्वभ्रमादित्यर्थः। प्रवृत्तौ हि तद्विषयीभूते व्यापारे बलवदनिधननुबन्धित्व विशिष्टेष्टसाधन-
ताज्ञानं कारणम् । तच्च निषेधशास्त्रानालोचनदशायां कलजभक्षणादौ भ्रमादुदेति ।
तदानीं च शास्त्रप्रवृत्तौ तेन पूर्वोत्पन्नज्ञाने भ्रमत्वमापायते । अतश्चोपजीव्यस्थापि
भ्रमात्मकस्योत्तरोत्पन्नेन प्रमाणज्ञानेन युक्त प्रात्यन्तिको बाघ इति भावः । यद्यपि
इष्टसाधनत्वांशे न भ्रान्तिः, तात्कालिक तृतिरूपेष्टसाधनस्वस्य कलञ्जभक्षणादी सत्वात्,
१. रागाद्यभावेन निवर्त्तते ।
1917
२. 'रागाविरोधाय' इति तु पाठो न साधीयान् ।
Orienta
stit
ARSE