2023-02-15 04:04:02 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[पर्युदोस-
तथा हि-यद्यत्र प्रधान सम्बन्धलोभान्नञः प्रत्ययसम्बन्धः स्वीक्रियते तथा
सत्यनेन वाक्येनानूयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्यम्-अनूया जेषु
येयजामहं न कुयादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति,
प्राप्तिसापेक्षत्वात् प्रतिषेधस्य ।
"वौषडि" ति वषट्कारमुच्चारयेत् । अत्र च 'श्राश्रावये' त्यक्षरचतुष्टयंयुक्तम् । 'प्रस्तु
श्रौषट्' इत्यपि तथैव । 'यजे' ति 'वौषट्' इति च द्वयक्षरम् । 'ये यजामहे' इत्यक्षरप-
श्चकम् । इमानि च सप्तदशाक्षराणि सर्वेष्वपि यजति चोदनाचोदितेषु पठनीयानि । यज.
तिचोदनाचोदितत्वं च यजधातुघटितपदघटक प्रत्यय विहितत्वम् । श्रश्रावयेत्यादीना-
मर्थो विश्वतो वेदार्थप्रकाशे सायणाचार्यः- श्राश्रावयेति । हे आग्नीध्र यक्ष्यमाणदेवतां
प्रति 'तुभ्यमिदं दीयत' इत्याभिमुख्येन श्रावयेत्यर्थः । अस्तु श्रौषडिति । एवमध्वर्यु-
णोक्ते साग्नीध्र: 'अस्तु' इत्यङ्गीकृत्य "श्रौषट्" इति शब्देन श्रावयति । हे देवाः
युष्मद्विषयमिदं हविर्दानं शृणुतेत्यर्थः । यजेति। हे होतः यज याज्यां पठेत्यर्थः । ये
यजामह इति । ये वयं होतारोऽध्वर्युणा यजेति प्रेषिताः ते वयं यजामहे याज्यां पठाम
इत्यर्थः । वषट्कारशब्देन 'वौषडि'त्येवंरूपो मन्त्रो, विवक्षितः । हविर्दीयत इति तस्य
शब्दस्यार्थ इति । अतश्चानारभ्याधीतवाक्ये यागसामान्योद्देशेन येयजामहो विधीयते ।
'नानूयाजेन्वि'ति वाक्येन अनूयाजव्यतिरिक्तेषु यागेषु येयजामहः कर्तव्यतया बोध्यते ।
एवञ्चानारम्यवाक्यमानूयाजवाक्ययोरेकवाक्यतामङ्गीकृत्य अनुयाजव्यतिरिक्तेषु यागेषु
येयजामहः कर्तव्य इति विधिरित्यर्थः ।
।
नन्वत्र कथं विकल्पप्रसक्तिः ? येन प्रतिषेध आश्रीयते, तदुपपादयति-तथा होति ।
ये यजामहं न कुर्यादिति । 'ये यजामहे' इति पदद्वयं नोच्चारयेदित्यर्थः । एवञ्चा-
नूयाजेषु 'देवं बर्हिर्वसुवने वसुधेयस्य वेतू ३ वौषट्' इत्येव ब्रूयादिति फलितम् ।
प्राप्तिसापेक्षत्वादिति । प्रतिषेधो हि यत्किञ्चित्प्रतियोगिका भावबोधनम् । तच्चाभाव.
ज्ञानमन्तरा न सम्भवति, सर्वत्रामावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वात् । तच्च प्रति-
योगिज्ञानं यदधिकरणे निषेधः तदधिकरणेऽपेक्ष्यते । अन्यथा यत्र कुत्रापि प्रसिद्धस्यात्र
निषेधे निषेधानां प्रसक्तपुरुषनिवृत्ति प्रयोजनकत्वाभावेन वैयर्थ्यात्तेः । न च हृदे वह्निः
प्रसिध्यभावेऽपि अन्यत्र प्रसिद्धिमादायैव हदे वह्निर्नास्तीति प्रयोगवत् अन्यत्र यागेषु
प्रसिद्धयेय नामइमादायैव तदभावोऽत्र बोध्यतामिति वाच्यम् । सर्वत्र निखिलकारक वि
शिष्टाख्यातार्थ एव प्रतियोगितासम्बन्धेन नञर्थान्वयस्यौत्सर्गिकत्वेन तदभावस्यैव तत्र
प्रतीतेः अनूयाजाधिकरण कयेयजामहानुकूलकृतेरेव तत्र प्रतियोगितया तत्प्रसिद्धि विना
तदभाव विषयकशाब्दबोधस्यैवाजननात् तत्सिध्यर्थं अनुयाजेषु येयजामह प्रसिद्धेरावश्यक-
त्वात् । हृदे वह्निर्नास्तीत्यत्र तु बाधात् अगत्या वन्ह्यादेरेव प्रतियोगित्वमङ्गीकृत्य तत्प्र-
तियोगिका भावस्यैवानुयोगिनि हृदादौ बोधनम् । अतश्च प्रतिषेधस्थलेऽनुयोगिवृत्ति प्राप्ति-
रवश्यमङ्गीकार्यैवेति भावः ।
STU