This page has not been fully proofread.

१६४
 
मोर्मासान्यायप्रकाशः
 
[ पर्युदास-
ननु -'तदन्यतद्विरुद्धतदभावेषु नञि' ति सत्यपि स्मरणे नञः स्वसंसृष्टा-
भाव एव शक्तिः, लाघवात् । न तु तद्न्यतद्विरुद्धयोः । तयोरभावघटितत्वेन
गौरवात् । अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नओ धातुयोगे धात्वर्था
भावबोधकत्वमेव, न तु तदन्यतद्विरुद्धार्थबोधकत्वमिति चेत् -
 
सत्यम्, नञोऽभाव एव शक्तिः, स्मरणं तु प्रतीत्यभिप्रायम्, न शक्त्य-
भिप्रायम्, नामधात्वर्थयोगीत्यपि प्रतीत्यभिप्रायम्, तथापि 'नेक्षेते' त्यत्र
प्रत्ययस्य नञऽसम्बन्धात् तेन तावत् कश्चिदर्थो विधेयः । तत्र न तावद्धा-
त्वर्थो विधातुं शक्यते, नञा तदभावबोधनात् । नापि तद्भावो विधातुं
शक्यते, श्रभावस्याविधेयत्वात् । अतश्च नञीक्षतिभ्यां विधानयोग्यः कश्चने-
क्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते । स चेक्षणविरोधो लक्ष्यमाणः पदार्थो
 
मनु "श्रमानोनाः प्रतिषेधे" इति स्मृतिबलात् लाघवाच नञोऽभाव एव शक्ति
रेङ्गीकार्या । श्रत एव नसूत्रे महाभाष्ये "निवृत्तपदार्थक" इत्यभाषार्थकत्वमेव नञ
उक्तम् । निवृत्तमिति भावे तः । निवृत्तिरित्यर्थः । निवृत्तिरभावः स पदार्थो यस्येति
बहुव्रीहिः । अभावार्थक इति यावत् । न च 'तदन्यतविरुद्धतदभावेषु नञ्' इति
स्मृत्या नञोऽन्योन्याभावादावपि शक्तिरस्तीति वाच्यम् । तस्याः स्मृतेः लक्षणायां ताप.
यंग्राहकत्वेनाप्युपपत्तो भनेकशक्तिकल्पने मानाभावात् ।
 
तत्सादृश्यमभावश्च तद्न्यत्वं तदल्पता
 
श्रप्राशस्त्यं विरोधश्च नञर्थाषट् प्रकीर्तिताः ॥
 
है,
 
इतीदमपि वचनं एष्वर्थेषु नञो लक्षणायां तात्पर्यप्राहकमेव । स्पष्टं चैतत् भूषणादौ ।
अतभ नशो धातुना योगे तदभावस्यैव बोधनात् तद्विरुद्धार्थस्यैवाप्रतीतौ कुतरसङ्कल्पल-
चणेत्याशङ्कते-नम्विति । संसृष्टाभाव इति । संसर्गाभाव इत्यर्थः । अनेकार्थस्य
चेति । चकारोऽनुक्तसमुच्चयार्थः । भेदस्य नष्वाच्यत्वाङ्गीकारेऽपि घटो न पट इत्यादौ
नञर्थभेदस्यामेदातिरिक्तसम्बन्धेन पटेऽन्वय(सम्भवात् तद्भेदवति लक्षणाया आवश्यक.
त्वात् । प्रतश्च संसर्गाभाव एव शक्तिरङ्गीकार्येति भावः ।
 
नञोऽभावशकतां स्वीकरोति-सत्यमिति । स्मरणमप्यन्यथोपपादयति-स्मरण.
मित्वति । तदन्येति व्याकरणस्मृतिरित्यर्थः । प्रतीत्यभिप्रायमिति । नञः श्रवणादेता.
वन्तोऽर्थाः प्रतीयन्त इति नबमोषामर्थानां प्रतिपादकः इत्येतावत्यंशे स्मृतेस्तात्पर्यम् ।
प्रतिपादनश्च शक्त्या लक्षणया वेति तु लाववादिस ह कृतन्या यै कवेद्यमित्यभिप्रायः । प्रती-
त्यभिप्रायमिति । अत एव न्यायरत्नाकरे एतच्छलोकव्याख्यानावसरे सम्भवति चा-
भाववचनस्यापि (नञः ) अन्यमात्रे विरुद्धे च प्रवृत्तिरिति अभाव एव नमः शक्तिः,
इतरत्र च लक्षणयापि प्रवृत्तिरित्याशयोऽवबोधित इति भावः । कथं तर्हि 'नेते' त्यत्र
सङ्कल्पबोधकत्वम् ? तदाह -तथापीति । तेन प्रत्ययेन । अविधेयत्वादिति । उपादे-
यस्वरूपकृतिसाण्यस्वस्य तत्राभावादिति भावः । नञीक्षतिभ्यामिति । नष्पदेन ईक्ष-
तिषावना चेत्युभाभ्यां मिलिताभ्यामित्यर्थः । ननु लक्ष्यतामीक्षणविरोधी कश्चित् पदा
थं, तथापीक्षणविरोधिन बहूनां पदार्थानां सत्वात् कथं सङ्कल्पस्यैव लक्ष्यमाणतेत्याश-
FOUNDED
 
वधीत