This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
किश्च 'नेक्षेते' त्यस्योपक्रमेण प्रतोयमाना एकवाक्यता च न स्यात्,
अर्थान्तरोक्तः । श्रतश्चास्मिन् वाक्ये कश्चित् कर्तव्य एवार्थो वक्तव्यः । तदुक्तौ
च न नञः प्रत्ययेन सम्बन्धो घटते । तत्सम्बन्धे कर्तव्यार्थोक्तरनुपपत्तेः ।
प्रत्ययाच उत्सारितो(१) नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिः
षेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधकत्वात् । प्रतिषेधकत्वस्य
विधायकत्व प्रतिपक्षत्वात् ।
 
नामधातु (२) योगे तु न नञः प्रतिषेध करवम् । तयोर विधायकत्वात् । यदाह
(३) नामधात्वर्थयोगी तु नैव नञ् प्रतिषेधकः ।
वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति ।
 
अतश्च 'नेते' त्यत्र नञो धातुयोगात् नञोक्षतिभ्यामीक्षणविरोधी कश्च-
नार्थः प्रतिपाद्यते ।
 
तदानीमेवापेक्षितविधानं भवतीत्यर्थ: । अन्यथा अनपेक्षितविधानरूपो दोष श्राग्तेदिति
भावः । तद्नभिधाने कर्तव्यार्थानभिधाने । तत्प्रसङ्गात् प्रामाण्यप्रसङ्गात् ।
 
मनु यत्र व्रतशब्दः श्रूयते तस्मिन्नेव वाक्ये कर्तव्यताविधिरङ्गीक्रियताम् । किमर्थमु-
परितनेषु सर्वेष्वपि वाक्येषु लक्षणापादकः पर्युदास श्राश्रीयते इत्यत श्राह-किश्चेति ।
मयमाशयः स्नातकानुष्ठेयपदार्थनिरूपण प्रकरणे 'तस्य व्रत' मित्यादि सामान्यतः एव
व्रतशब्दः यते । तस्य च विशेषापेक्षायां अग्रिमवाक्यै सवै रेवा विशेषात् विशेषस्समर्प्यत
इति वक्तव्यम् । अयमर्थ: स्मृत्यन्तरेषु एतत्प्रकरणगतै तत्समानार्थकवाक्यैः स्पष्टमवगम्य-
ते । तेषु हि 'व्रतानीमानि धारयेत्' 'इमानि व्रताग्यनुकर्षत्' इत्यादिना उपरिष्टात्
प्रतिपाद्यमाना एव पदार्थाः व्रतशब्देनाभिघीयन्ते । कर्तव्य विशेषश्च कर्तव्य एव भवती-
त्यगत्या उत्तरवाक्यानां पूर्ववाक्यापेक्षितविशेषसमर्पकत्वावश्यम्भावेन तदेकवाक्यताया
अप्यवश्याभ्युपगमनीयत्वात् । यदि तु 'तस्य व्रत' मित्यत्रैवानुष्ठेयपदार्थविधानमा श्री येत,
तदा स्वरसतः प्रतीयमाना एकवाक्यता भज्येतेति । अत्र च न पदैकवाक्यता । वाक्यानां
स्वार्थबोधे समासत्वात् । श्रतो दर्शपूर्णमास वाक्यप्रयाजादिवाक्यानामिव वाक्यैकवाक्यता
वेदितव्या । अतश्चेति । भानसिध्यर्थं प्रतीयमानैकवाक्यता निर्वाहार्थं चेत्य
 
र्थः । अस्मिन् वाक्ये नेक्षेतेति वाक्ये । तदुक्तो कर्तव्यार्थीको । तत्सम्बन्धे विधि-
प्रत्ययेन सह सम्बन्धे । अनुपपत्तेरिति । नञः स्वसम्बन्धिप्रतिपक्षबोधकत्वस्य पूर्वमेव
निरूपितत्वादिति भावः । तत्सम्बन्धे धातुसम्बन्धे । विधायकसम्बन्धेनैवेति ।
'विधायकैरसंयुक्तो नैव न प्रतिषेधकः" इति वार्तिकोत्तत्वादिति भावः । किमिदं
प्रतिज्ञामात्रसाध्यम् ! उत युक्तिसहम् ? तदर्थमाह-प्रतिषेधकत्वस्येति । तयोः नाम्नः
घातोश्च । श्रविधायकत्वादिति । विधायकसंयुक्तस्यैव नञः तत्प्रतिपक्षबोधकत्वादिति
भावः । नामेति । नाम्ना नामार्थेन घात्वर्थेन च संयुज्यमानो नव् न प्रतिषेधमभिवते ।
यतः ब्राह्मणपदेन संयुक्तः तदन्यमात्रमब्राह्मणं धर्मपदेन च संयुक्तस्तद्विरोधिनमधर्म च
वदतीत्यर्थः । एतावता प्रकृते किमायातम् ? अत श्राह-अतश्चेति ।er femal
 
नाव
 
Research Institute
 
१. अवतारितो इति क. । २. धात्वर्थयो । ३. नामधात्वर्थयोयोंगे ।
 
----