This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
यस्मिन् व्यापारे कृते यागात् स्वर्गों भवतीति । स च व्यापारः क्वचिदुधमन-
निपातनादिः, कविञ्चाभ्यन्वाघानादिब्राह्मणतर्पणान्तः कथंभावाकाङ्क्षायां
विशेषरूपेण पश्चादवगम्यते ।
 
अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाण्यातादेव । रथो ग्रामं गच्छती-
त्यत्रापि माख्यातेन ग्राम प्राप्त्यनुकूलो व्यापार एव प्रतीयते । रथस्तथागमनेन
व्याप्रियते यस्मिन् व्यापारे कृते गमनाग्राम प्राप्तिर्भवतीति प्रतीतेः । नत्वत्र
गमनमात्रमाख्यातार्थः तस्य धातुनोकत्वात् । तत्र कोऽसौ व्यापार इत्यपेक्षा.
यां पूर्वोसरावान्तरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण
प्रदेशेन विभज्योत्तरेण संयुज्य रथो प्रामं गच्छुतीति प्रयोगात्। उद्यभ्य
निपात्य कुठारेण च्छिनीतिवत् । एवं देवदत्तः प्रयतत इत्यत्रापि देवदत्त-
स्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकूलो व्यापार एवाख्याता.
न्यात्मना प्रतीयत इति पिण्डीभूतोऽर्थः । स इति । सामान्यरूपेण य श्राख्यातात्
प्रतीतः स इत्यर्थः । 'व्यापार' इति 'अवगम्यत' इत्यनेनान्वेति । क्वचित् लोके कुठा-
रेण च्छिनत्तीत्यादौ । कचित् वेदे 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यादौ ।
अग्न्यन्वाधान ब्राह्मण तर्पणपदार्थों पूर्व प्रकरण निरूपणावसरे व्याख्यातौ । पश्चादिति ।
'अग्नीनन्वादधाति 'ब्राह्मणांस्तर्पयितवै' इत्यादिभिस्तत्तत्प्रातिस्वि कैविधिभिरित्यर्थः (१)
 
अन्योत्पादेति । यत्नाख्यातार्थवादिनोऽपि अन्योत्पादानुकूलत्वेनैव तत् वदन्ति ।
तथापि तन्मते यत्नस्याख्यातार्थत्वेन यागादेः तजन्यस्वात् फलजनकीभूतयागादिजनकत्व-
मन्योत्पादानुकूलत्वम् । अस्मिथ मते फलजनकीभूतयागाचुपकारकत्वं तदिति विवेकः ।
अत्र चशब्द एवकारश्च भिन्नक्रमौ । श्राख्यातात्तु सामान्यत एवेत्यर्थः । एवं व्यापारसा-
मान्यस्याख्यातार्थत्वेऽम्युपगते 'रथो गच्छती'त्याद्यचेतन कर्तृक स्थलेऽप्यौपचारिकत्वं विनैव
निर्वाहो भवतीत्याह-रथ इति । अत्र ग्रामप्राप्तिः फलम् । तज्जनको व्यापारो गमनाख्यो
धात्वर्थः । तादृशप्रामप्रातिरूपफलोत्पत्तौ व्यापृतस्य यः प्रकारविशेषः पूर्वदेश विभागादि-
रूपः स एव सामान्यरूपेणाख्यातार्थ इति विवेकः । कुठारेण छिनत्ति, यजेतेत्यादौ
चेतनकर्तृकस्थले यथा प्रतीतिः तथैव रथो गच्छतीस्यचेतन कर्तृकस्थलेऽपीस्याह-रथस्त.
थेति । पञ्चादिति । प्रमाणान्तरेणेत्यर्थः । कि तत् प्रमाणान्तरम् ? अत ग्राह-पूर्व-
ऐति । एवञ्चास्मन्मते प्रयत्नवा चियतधातूत्तराख्यातस्यापि स एवार्थ इति लाघवम् ।
भवन्मते तु धारवर्यानुकूलयत्नस्य तत्राप्रसिद्धे; तत्प्रयोगस्यौपचारिकत्व मेवाङ्गीकरणीय मिति
गौरव मित्याशयैनाह— एवमिति । प्रयत्नो भवतीत्यनेनात्र घात्वर्थस्यैव प्रयत्नरूपस्य
भाव्यत्वमिति सूचितम् ।
 
१. भत्रेदं वक्तव्यम् – यजेत, इत्यादौ देवतोद्देश्यद्रव्यत्यागरूपो व्यापारो चास्वर्थः, तदनुकूलः भन्वा
धानादिब्राह्मणतपंणान्तो व्यापारकलाप भाख्यातार्थः, स चाख्यातेनानुकूल व्यापारत्वेन सामान्येनोच्यते,
विशेषरूपेण तु तैस्तैः प्रातिस्विकविधिभिरुच्यत इति पार्थसारथिमिश्रमतं इति सुविदित मीमांस-
कानाम् । सति चैवं महामहोपाध्यायश्रीमदभ्यङ्करशास्त्रिमहोदयैः "भन्वाषानादिव्यपारो देवतोहेश्य.
कहविःप्रक्षेपानुकूलत्वेन विशेषरूपेण चातुवाण्यः" इति यदुक्तम्, न तत्र तेषामाशयमवगन्तुमीश्महे ।
 
Bhandarkar
 
नाका