This page has not been fully proofread.

१६८
 
मीमांसान्यायप्रकाशः
 
[ श्रार्थीभावना-
यत्नाभावादिति वाच्यम् । वोढश्वगतं प्रयत्नं रथे आरोग्य प्रयोगोपपतेः ।
 
यन्मतेऽष्यन्योत्पादनानुकूलं व्यापारसामान्यं भावना तन्मतेऽपि रथे
गमनातिरिक्तव्यापारानुपलब्धेः रथो गच्छुतीति प्रयोगस्यौपचारिकत्वमेवेति ।
अतश्च प्रयत्न एवार्थीभावना । यथाहुः -
 
प्रयत्नव्यतिरिक्तार्थी (१) भावना तु न शक्यते ।
वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति ॥
श्रन्ये त्वाहुः - भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना । यस्मिन्
व्यापारे कृते करणं फलोत्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् ।
स एव चाख्यातार्थः । कुठारेण छिनत्तोत्याख्यातश्रवणे हि भवत्येताद्वशी
मति: - कुठारेण तथा व्याप्रियेत यस्मिन् व्यापारे कृते कुठारेण छेदनं
भवतीति । एवं 'यजेत स्वर्गकाम' इत्यस्यायमर्थः-यागेन तथा व्याप्रियेत
 
-
 
नुपपत्तिमाशङ्कय परिहरति-न चेति । वोढश्वेति । रथवाहकाः रथे नियुक्ता येऽश्वाः
तद्गतमित्यर्थः । रोप्येति । शक्यतावच्छेदकलाघवानुसारेण तादृशा रोपाङ्गीकरणमपि
 
नातीव दोषायेति भावः । उक्तं हि न्यायसुधायाम्-
"स्त्रीत्वाभावेऽपि खट्वादौ टाबादिप्रत्ययो यथा ।
प्रयुज्यते तथाख्यातं यत्नाभावेऽप्य चेतने ।
वोढूश्वादिगतं यत्नं रथादावुपचर्य वा ।
उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्तितः" इति ।
 
परमतेऽप्ययं दोषस्तुन्य एवेत्याह- यन्मत इति । तन्मते हि धात्वर्थानुकूलो
व्यापारः श्राख्यातार्थः कचित् वक्तव्यः । न च 'रथो गच्छति' इत्यत्रोत्तरदेश संयोगानुकू
लव्यापारातिरिक्तः कश्चित् व्यापारः प्रसिद्धोऽस्ति रथे, यत्राख्यातं प्रयुज्येत । अतः
तम्मतेऽप्यौपचारिकत्वं तुल्यमेवेति भावः । अस्मिन्नर्थे न्यायसुधोकामेव कारिकां प्रमाण-
यति-प्रयत्नेति । स्पष्टोऽर्थः ।
 
एवं न्यायसुधाकृन्मतमुपवर्ण्य पार्थसारथिमिश्रमतमुपवर्णयति
- अन्ये त्विति ।
भवितुः भवनकर्तुः उत्पत्तुः श्रोदनादेः स्वर्गादेर्वा भवनानुकूलः उत्पत्यनुकूलः, भाव-
कस्य प्रयोजंकस्य देवदत्तादेः यो व्यापारः स एव भावनापदवाच्य इत्यर्थः । स्पष्टप्रति-
पत्यर्थमाह - यस्मिन्निति । स एवेति । धात्वर्थादिरूपकरणस्य फलोत्पादने यस्सह-
कारी भवति स एवाख्यातार्थ इति फलितम् । कथमिदं प्रतीयते तादृश एव व्यापारः
आख्यातार्थ इति ? अतः तदुपपादयितुं प्रथ तावत् लोके तस्प्रतीतिमुपपादयति-कुठा-
रेणेति । व्याप्रियेतेति । एवञ्च तादृशस्य व्यापारस्य सामान्यरूपेणैवाख्यातात् प्रतीतिः ।
न तु विशेषरूपैण । तत्तु प्रमाणान्तरसंवेद्यमेवेत्याशयः । यथा लोके तथैव वेदेऽपीत्याह-
एवमिति । यागादेः करणत्वं श्रुतम् । न केवलेन तेनान्यामुपकृतेन फलं सम्पादयितुं
शक्यमिति बागादिरेव स्वस्य फलजनने सहकारिणमपेक्षते । स एव चाख्यातात् सामा•
१. 'मा' ।
 
FOUNDED
 
Bhandarkar Oriental
Research Institute