2023-02-15 04:03:59 by ambuda-bot
This page has not been fully proofread.
B
[ आर्थीभावना-
मौमांसान्यायप्रकाशः
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ इति ।
तत्सिद्धं यजेतेत्यत्र लिङ्खांशेन शाब्दी भावनोंच्यत इति ॥
श्राख्यातत्वांशेनार्थी भावनोच्यते ।
M
( अर्थीभावनानिरूपणम् )
ननु-केयमार्थी भावना ? । कर्तृव्यापार इति चेत-न; यागादेरपि तद्या.
पारत्वेन भावनात्वापत्तेः । नचेष्टापत्तिः, तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभा.
वादिति चेत् -
अत्राहु:- (१) सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग.
ष्टसाघनता लिप्रतिपाद्या, प्रवर्तनात्वं तु कथं तस्याः ? इत्यत श्राह-प्रवृत्तिहेतुमिति ।
यः प्रवृत्तिहेतुर्धर्मः तमेव प्रवर्तनामाचक्षते प्रवर्तनाविदः इत्यर्थः । शाब्दीभावनानिरू
पण मुपसंहरति — तत्सिद्धमिति ।
एवं शब्दभावनां निरूप्य तत्प्रसङ्गात् तद्भाव्यभूतामार्थीभावनां निरूपयितुमारभते-
श्रख्यातत्वेति ।
( आर्थीभावनानिरूपणम् )
ननु भावनाया यदि घात्वर्थात् भेदस्सिध्येत्, युज्येत तदा तस्याः प्रत्ययवाच्य-
त्वम्,
तत्रैव न प्रमाणं पश्यामः पचतीत्यादौ यावन्तो व्यापाराः प्रतीयन्ते स्थाल्यधि.
यणोदका सेचन तण्डुलावा पफूत्कारावसावणादयः ते सर्वेऽपि धातुत एव प्रतीयन्त
इति तेषां धातुवाच्यतैव युक्ता, न प्रत्ययवाच्यता, तदतिरिक्तस्य कस्यचिदप्रतीयमानत्वात्
कस्याख्यातांशप्रतिपाद्यता अर्थभावनात्वं वोच्यते ? इति वैयाकरणश्शङ्कते-नन्विति ।
कर्तृव्यापार इति । सर्वत्र हि पचति, पार्कं करोति, यजति, यागं करोति, इति विवरणं
दृश्यते । तत्र घञन्तपाकादिपदैः प्रकृत्यर्थस्य कृञधातुना च प्रत्ययार्थस्य विवरणमित्यव-
गम्यते । तेन च करोतिसमानार्थकत्वमाख्यातस्येत्यवगम्यते । करोति सकर्मक इत्या-
ख्यातेनापि तथैव भाव्यम् । तच्च कर्मोत्सायमेव भवति । एवञ्च उत्पद्यमानस्य वस्तुन उत्प
त्यनुकूल उत्पादककर्तृव्यापारः श्राख्यातार्थ इति फलितम् । भावनाशब्दोऽपि तमेवाभि•
धत्ते । भूषातोर्ण्यन्तात् करणार्थकल्युटूप्रत्यये कृते भावनाशब्दनिष्पत्तेः । पाकशब्दार्थभ
विक्लित्तिः । यागपदार्थश्च द्रव्य देवतयोस्सम्बन्धः । अतश्च तण्डुल रूप कर्मगत विक्लित्तिरूपव्यापार:
पंचिधात्वर्थः, तत्प्रयोजको देवदत्तादिरूपकर्तृव्यापारः प्रत्ययवाच्यः इति स एव विक्लित्य-
नुकूल कर्तृव्यापारत्वात् भावना भवत्वित्याशयः । न विक्लित्यादिः केवलो धात्वर्थी भवितुम-
ईंति । तथात्वे कृष्णलेषु विक्लित्यसम्भवेन तत्र तत्सम्पादकश्रपण विधानानुपपत्तेः । किन्तु
पचेरधिश्रयणाद्यवस्रावणान्तो व्यापारोऽर्थः, यजेश्च मानसस्त्यागः, सङ्कल्पो वा, तस्यैव
यागादिपदार्थत्वात् ; तस्य च कर्तृव्यापारस्वात् तस्यैव भावनात्वमापद्येतेत्याह-याग दे-
रिति । तस्य यागस्य । प्रकृत्यर्थत्वेनेति । एवञ्च प्रत्ययार्थस्य भावनात्वं वक्तुमुपक्रान्तो
भवान् इदानीं प्रकृत्यर्थस्यैव भावनात्वमभ्युपगच्छन् अस्मत्पते पतितः, स्वोक्तविरोधी च
सञ्जात इत्याशयः ।
एवमापादितां शङ्कां प्रथमतो न्यायसुधाकृन्मतमनुसृत्य समाघत्ते- अत्राहुरिति ।
आहुरित्यनन्तरं न्यायसुधाकृत इति शेषः । न यागो भावनेति । नास्माभिर्मानस.
१. इदं च न्यायसुधाकृतो भट्टसोमेश्वरस्य मतम् । अग्रे च 'अन्ये त्वाहु' रित्या दिना निरूप्यमाणं
Bhandarkar Oriental.
or off 85