2023-02-15 04:03:59 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ] J सारविवेचिनीव्याख्या संवलितः
१८५
मच विधेः प्रवर्तकत्वनिर्वाहार्थ समीहितसाधनत्वकल्पनात् प्रेरणान-
भिधाने च विधेः प्रवर्तकस्वाभावाद्धात्वर्थस्य व समोहितसाधनत्वकल्पकमेव
नास्तीति वाच्यम्; प्रवर्तनाभिधानेनै (१)व तन्मतेऽपि विधेः प्रवर्तकस्वात्
विध्यभिहितस्य च प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात्समीहित-
साधनस्वाक्षेपकत्वात् ।
न चेष्टसाधनत्वस्य विध्यर्थत्वे सन्ध्योपसनं ते इष्ट साधनं तत् त्वं कुर्विति
सहप्रयोगानुपपत्तिरिति वाच्यम् इष्टसाधनत्वस्य विशेषरूपेण विधिनानभि-
धानात् । प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य च विशेषशब्देन
दृष्टः सहप्रयोगः– पाञ्चालराजो द्रुपद -इत्यादौ । तस्मात् समीहितसाधनतव
प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति
शाब्दी भावना ।
उक्तवार्तिकस्याप्ययमेवाभिप्रायः । अभिधीयते या साऽभिधा समीहित-
साधनता सैव प्रवर्तनात्वेनाभिहिता पुरुषप्रवृत्ति भावयतीति भावना तां
लिङादय आहुरिति । यथाद्दुः-
पुसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ।
भाग्यत्वांशं परित्यज्य करणत्वांशे निपततीति प्रतिपादितं भावार्थाधिकरणे । यदि प्रेरणा
विष्यर्थो न स्यात् तदा अन्यथानुपपद्यमानस्य कस्याप्यभावात् घात्वर्थगतेष्टसाधनताचे.
पप्रमाणस्यैवाभावेन सर्वमिदं दत्तजलाजलि स्यादित्याशङ्कामनूथ परिहरति-न चेति ।
प्रेरणाविध्यर्थत्ववादिमतेऽपि न प्रेरणा त्वेन विधिगम्यत्वमङ्गीक्रियते, किन्तु प्रवर्तनासा-
मान्येनैव । सामान्यस्य विशेषमन्तरा पर्यवसानाभावात् विशेषजिज्ञासायां परं प्रेरणारूपो
विशेषोऽवधार्यते । अतथ प्रथमतः प्रेरणानभिघानेऽपि यथा तन्मते इष्ट साघनत्वाक्षेपकत्वं
तथैवास्मन्मतेऽपीति न विरोध इत्यर्थः ।
पूर्वोक्तां सहप्रयोगानुपपत्तिं वारयति-न चेति। विशेषरूपेणेति । इष्टसाघनत्वस्य
विध्यर्थत्वेऽपि न समीहितसाधनत्वरूपेण तदववोध्यते । किन्तु प्रवर्तनास्वेनैव, इष्टसाध-
नपदेन तु विशेषरूपेणेति सामान्यविशेषवाचकपदयोरुपपन्नस्सहप्रयोग इति भावः । तदेव
संदृष्टान्तमभिघत्ते-सामान्यशब्दस्येत्यादि । उक्त मर्थमुपसंहरति-तस्मादिति। सैव
समीहितसाधन तैव । तेन रूपेण प्रवर्तनात्वेन रूपेण । अस्मिन्नेवायें वार्तिकमपि योज-
यति-उक्तेति । अभिधीयत इत्यनेन कर्मव्युत्पत्तिः प्रदर्शिता । अस्मिन् पचे अभिघा
च सा भावना चेति कर्मधारय समासो बोध्यः । तत्र भावनात्वं निरूपयति-पुरुषेति ।
प्रत्र मण्डन मिश्रस्यापि सम्मतिमाह-
यथाहुरिति । पुंसामिति । इष्टाभ्युपायत्वात्
इष्टसाधनत्वात् ल्यब्लोपे पञ्चमी । इष्टसाघनत्वं विहायेत्यर्थः । क्रियासु यागादिषु प्रव
र्तको नैवास्ति । इष्टसाधनतैव प्रवर्तिकेति यावत् । प्रेक्षावतां हि यावत् स्वाभिलषित-
फलसाघनता न ज्ञायते तावत् दुःखात्मके कर्मणि प्रवृत्तिनो॑देतीति भावः तु नामे-
Bhandarkar Oriental
Research Institute
१. नैतन्म० ।
TOP IN IPIN 1S
S
२४ मी० न्या०