This page has not been fully proofread.

१८४
 
मोमांसान्यायप्रकाशः
 
[ विध्यर्थ-
तैव प्रवर्तनात्वेन रूपेण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबो-
धकत्वं लोकसिद्धं सिद्धं भवति ।
 
किञ्च शब्दे एको व्यापार: स्पन्दाद्यतिरिक्तः कल्पनीयः । तस्य च स्व.
प्रवृत्तौ पराधीनप्रवृत्तौ वा कारणत्वेनावलृप्तस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य
प्रवृत्यंनुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लृप्तस्य स्वनिष्ठव्या-
पारबोधकत्वम्, विधेश्च प्रवर्तकत्व निर्वाहाथं धात्वर्थस्य समीहित साघनत्वमिति
(१) कल्पनाद्वरमावश्यकस्यैव समीहितसाघनत्वस्य स्त्रप्रवृत्तिहेतुत्वेन क्लु.
तस्य प्रवर्तनास्वेन रूपेण विध्यर्थत्वकल्पनं लाघवात्, अन्यनिष्ठत्वाच्च ।
 
लिब्शतभवणेऽपि प्रवृत्तेरदर्शनात् । विधिशब्दस्येति । लोके तावत् शब्दानामन्य.
निष्ठव्यापारबोधकत्वमेव व्यवहारसिद्धम् । 'देवदत्तः पचेत्' इत्यादौ लिङादिना प्रवर्तकपुरु•
षनिष्ठव्यापारस्यैव बोधनदर्शनात् लोकसिद्धमेव च परीक्षकैरनुसरणीयम् । अतब यदि
समौहितसाघनतायाः लिङर्थत्वमङ्गीक्रियते तदानीं तस्याः यागादिनिष्ठत्वात् अन्यनिष्ठ-
व्यापारबोधकता लिङस्सिध्येत् । प्रेरणाख्यव्यापारवाचित्वाभ्युपगमे तु तस्याः स्वनिष्ठत्वेन
शब्दस्य स्वनिष्ठव्यापारवाचकत्वं लोकविरुद्धमभ्युपगतं स्यादिति भावः ।
 
नम्वेवमपि प्रसिद्ध व्यापारकल्पनातो वरं क्लृप्तस्यैवाभिघाख्यस्य व्यापारस्य प्रव
र्तनात्वकसनमित्यत आह - किञ्चेति । स्पन्दाद्यतिरिक्त इति । मीमांसकमते
शब्दस्य विभुत्वेन तत्र स्पन्दादेर्निवेशासम्भवादिति भावः । उक्तं हि पार्थसारथि.
मिश्रैः-स्पन्दसमवायस्तु न सम्भवति । नच सावस्मामिश्शब्दस्येष्यते"-
इति । "न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ती" ति च । म्यान
यसुधायामप्युक्तम्-"न शब्दे स्पन्दयत्नौ हि विभुत्वाचेतनत्वतः-इति । तस्य
शब्दनिष्ठत्वेन कल्पितस्य स्पन्दाद्यतिरिक्तस्य व्यापारस्य । स्वप्रवृत्तौ श्रन्यानधी नव-
तन्त्रप्रवृत्ती । पुरुषान्तरेण प्रवर्तितस्सन् स्वयमेवेष्टसाधनतादि ज्ञात्वा यत्र प्रवर्तते, तत्रेति
यावत् । पराधोनप्रवृत्तौ परकीय प्रेरणानन्तरभाविप्रवृत्तौ । भनेन उभयत्रापि प्रवृत्ति-
कारणत्वेन क्लृप्तत्वं समीहितसाघनतायास्सूचितम् । लाघवादिति । भवन्मते कल्पित-
स्यापि धर्मस्य प्रवृत्यनुकूलत्वं, शब्दस्य स्वनिष्ठव्यापारबोधकत्वं, धात्वर्थस्य च समोहित-
साधनस्त्वमिति त्रितयं कल्पनीयम् । श्रस्मन्मते तु समीहितसाधनतायाः प्रवृत्तिकारणत्वं
शब्दस्यान्यनिष्ठव्यापारबोधकत्वमित्युभयं सिद्धम् तस्या विध्यर्थत्वं परमेकं कल्पनीय
मिति लाघवमित्यर्थः । क्लृप्तस्येत्यनेन भवन्मत एव क्लृप्तपरित्यागः अक्लृप्त कल्पनञ्च,
नास्मन्मत इति सूचितम् । आवश्यकस्येति । भवतापीदमङ्गीक्रियत एव प्रवृत्तिसम्पा-
दनार्थमितीदमुभयोरप्यावश्यकमिति भावः ।
 
ननु यागादेः समीहितसाधनता न स्वरूपतस्सिद्धा । किन्तर्हि ? विधिविषयत्वान्य-
थानुपपत्त्या कल्पिता । विधिर्हि प्रवर्तनात्मकः स्वस्य प्रवर्तकत्व सिद्धयर्थं स्वविषयीभूतया
गादेरिष्टसाघनत्वमाक्षिपति । अत एव च भावनाया इभाव्यकत्वनियमष्पष्ठे स्वर्गकामा-
विकरणोक्तस्सङ्गच्छते । अत एव च धात्वर्थस्समानपदोपात्तोऽपि इष्टरूपत्वाभावात्
१. कल्पनागौरवाद्व० ।
 
Oriental