2023-02-15 04:03:58 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ शाब्दीभावना-
'अभिधाभावनामाहुरन्यामेव
लिङादयः'
अन्ये तु
इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्या अभिधाशब्देन वि
विशब्द उच्यते । तद्यापारात्मिका भावना लिङादिवाच्येति – (१) केचिदाहुः ।
सत्यं प्रवर्तनासामान्यं विध्यर्थः, तथैव शक्तिप्रहात् । प्रवृत्य-
नुकूलो व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रषादेरसंभवात् कश्चित् पुरुषप्र
वृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेय प्रवर्तना सामान्यस्य
विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापार विशेषः ? इत्यपेक्षायां
घात्वर्थगतं समीहितसाघनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् ।
१६२
-
त्वेनेत्यर्थः । अत्र च न प्रवृत्यनुकूलत्वं शक्यतावच्छेदक कोटिप्रविष्टम्, गौरवात्, अन्य.
लभ्यत्वाच, प्रवृत्तेहि श्राख्यातेनैव लाभात्, अनुकूलत्वस्य च प्रयोजकत्वापर पर्यायस्य
संसर्गबलेन लाभात् । अतो लाघवात् लोकवेदसाधारणं व्यापारत्वमेव शक्यतावच्छेद-
कम् । विशेषलाभस्तु तत्र तत्र समभिव्याहारा दिनेत्यवगन्तव्यम् । नन्निदं 'अभिधा-
भावनामाहु' रित्यनेन वार्तिकेन विसंवदति, तेनाभिवासम्बन्धिन्या एव भावनायाः लिङ्-
वाच्यत्वप्रतिपादनात्, अतः कथं वार्तिकविरोधी पक्षोऽयमाद्रियतामित्यत आह-अयमे-
वेति । अविरोधितामेवोपपादयति-श्रभिधीयत इति । अनेनेति ब्रवता कर्तृव्युत्पत्ति:
करणव्युत्पत्तिर्वा प्रदर्शिता । एवञ्च अभिधायकत्वात् अभिधा विध्यादिशब्दः । तन्निष्ठा
तद्वयापारात्मिका भावना अभिवाभावना तां लिङादयः बोधयन्तीत्यर्थः फलितः । श्रस्मिन्
मते अभिधाया भावना इति षष्ठीतत्पुरुषो विवक्षितः । केचिदिति । न्यायसुधाकृत्प्रभृ
तय इत्यर्थः ।
तत्रैव पार्थसारथिमिश्रिमतमुपवर्णयितुमारभते-अन्ये त्विति । आहुरित्यस्य प्रव
दन्ति प्रवर्तनामित्यनन्तरं श्रुतेनेतिना सम्बन्धः । सत्यमिति । प्रवर्तनासामान्यस्य
विध्यर्थत्वमस्माकमपीष्टमेवेति भावः । तथैवेति । एवञ्चानेकार्थत्वं कल्पितं न भवति ।
अन्यथा प्रेषणमध्येषणमभ्यनुज्ञान मिष्टसा घनत्वं चेति बहवोऽर्थाः लिडादेः कल्पयितव्याः ।
तथात्वे तेषां परस्परं व्यभिचारस्याने कशक्ति कल्पनाप्रयुक्तगौरवस्य चास्माकमपि तुल्यत्वा-
दिति भावः । अपर्यवसानादिति । 'निर्विशेषं न सामान्य' मिति न्यायेन सामान्यस्य
विशेषे पर्यवसानमन्तरा अनिवृत्ताकाङ्क्षत्वात्, सामान्यस्य प्रवृत्तिविशेष जनकत्वाच्चेति
भावः । एतावदुभयोरपि पक्षे तुल्यम्, तत्र विशेष जिज्ञासायां तस्याः प्रेरणारूपत्वे तस्या
अपि वैदिकवाक्यप्रतिपाद्यत्वा सम्भवरूपदोषतादवस्थ्यात् तां परिहाय घात्वर्थगतं यदिष्ट-
साधनत्वं तस्यैव परं व्यापारविशेषत्वं कल्प्यते इत्याह - तत्रेत्यादिना । ननु कथं तस्य
प्रवर्तनात्वम् १ अत आह-तस्यापोति । प्रवर्तनास्वं च प्रवृत्त्यनुकूलत्वम्, तच्चात्रापि
समीहितसाघनत्वेऽस्तीति भावः । ननु आचार्यादिरनिच्छन्तमपि शिष्यादिकं बलात् प्र-
वर्तयतीत्यनुभवसिद्धत्वात् तत्र समीहितसाधनताज्ञानमन्तरापि शिष्यादेः प्रवृत्तिदर्शनात्
कथं प्रवृत्तित्वावच्छिन्नं प्रति समीहितसाघनतायाः कारणत्वमित्याशङ्कायामाह- सर्वो
१. केचिदाचार्याः ।
ISPIERE