2023-02-15 04:03:58 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्यासंवलितः
यद्यपि भोजनादौ स्वप्रतः समीहितसाधनताज्ञानपूर्वकत्वावधारणात्
प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम्, तथाप्यन्यप्रेरितप्रवृत्तौ
प्रवर्तनाचान जन्यत्वस्योक्तमातृप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरष्यन्यप्रेरित
प्रवृत्तित्वात्तत्कारणत्वेन प्रवर्तनाज्ञानास्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानम
न्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्यमित्यवधारयति । तत्र चावापोद्वापाभ्यां
प्रवर्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना। सच
प्रैषादिरूपो विविध इति प्रत्येकं व्यभिचारित्वाद्विधिशब्दवाच्यत्वानुपपत्तेः
प्रवर्तना (१) सामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधि-
श्रवणे प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्तनात्वेन एकरूपेण प्रतीतिर्न विशेष.
रूपेण, तथैव शक्तिग्रहात् । विशेषरूपेण तु प्रतीतिर्लक्षणयैव ।
एवं च वैदिकलिङादिश्रवणेऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र
कोऽसौ व्यापारः ? इत्यपेक्षायां ग्रैषादिरूपस्य वक्त्रभिप्रायस्थापौरुषेये वेदे-
अनुपपत्तेः शब्दनिष्ठ एव प्रेरणापरपर्यायः कश्चिद्व्यापार इति कल्प्यते । अतश्च
शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना । सैव च प्रवर्तना-
त्वेन रूपेण विध्यर्थ इति । अयमेव चार्थ:-
१८१
साघनताज्ञानाभावे प्रवृत्त्यदर्शनात् । अतश्च स्वतस्सिद्धप्रवृत्तिस्थले प्रेरणाजन्यत्वव्य-
भिचारात् समीहितसाधनताज्ञानजन्यत्वस्य चोभयत्राव्यभिचारात् प्रवृत्तिस्वावच्छिन्नस्य
समीहितसाधनताज्ञानजन्यत्वमेव समुचितमङ्गीकर्तुम् न तु कस्याश्चित् प्रवृत्तेः समीहित.
साधनताशांनजन्यत्वं, कस्याश्चिच प्रर्वतनाज्ञानजन्यस्वमिति वैरूप्याङ्गीकारो युक्त इत्या-
शङ्कां निराकरिष्यन् प्रथमतस्तामनुवदति- यद्यपीत्यादिना युक्तमित्यन्तेन । सत्यं द्विवि-
घास्ति लोके प्रवृत्तिः, सत्यं च समीहितसाधनतादि बुद्ध्वा पुरुषः प्रवर्तते तथापि यत्रा.
न्यप्रेरणया प्रवृत्तिः तत्र आचार्य प्रेरितोऽहं गामानयामि, न स्वेच्छयेति व्यवहारदर्शनात्
,
उक्तमातृप्रवृत्तौ
प्रेरणोत्तरप्रवृत्तित्वावच्छिन्नस्य प्रेरणाज्ञानजन्यत्वमेव वक्तुमुचितम्
तथैव दर्शनात् इति समाधत्ते-तथापीति । एवं प्रवृत्तिकारणत्वेन प्रवर्तनाज्ञानेऽध्य-
वसिते तत्कारणजिज्ञासायां तत्कारणाध्यवसानप्रकारमुपपादयति-तच्चेत्यादिना अवधा.
रयतोत्यन्तेन । तत्रापि प्रवर्तना विशेषेषु प्रैषसम्प्रश्नादिषु न शक्तिः, प्रैषस्थले सम्प्रश्ना-
द्यभावात् सम्प्रश्नस्थले प्रैषायभावाच्च तेषां परस्परं व्यभिचारेण सर्वानुगतप्रवर्तनास्वमेव
शक्यतावच्छेद कमित्यवघारयतीत्याह-स चेति । लक्षण वेति । सामाग्यवाचकस्य
शब्दस्य विशेषबोधकत्वरूपाजहत्स्वार्थलक्षण येत्यर्थः ।
एवंप्रकारेण लोके लिबादेश्शक्ताववघारितायां तेनैव न्यायेन वेदेऽपि शक्तिग्रहस्स्व -
ध्यवसान इत्याह-एवञ्चेति । प्रवर्तनासामान्य मेवेति । यथा लोके लिङादिश्रवणे
प्रवर्तनासामान्यस्य प्रतीतिः तथैव वेदेऽपीति नैतावत्पर्यन्तं लोकवेदयोर्भेद इति भावः ।
अनन्तरञ्च यथैव विशेषजिज्ञासायां तत्तत्प्रकरणाद्यनुगृहीतस्य लिङादेविशेषल चकत्वमध्य
वसीयते लोके, एवमेव वेदेऽपि विशेषजिज्ञासायां प्रैषादीनां तत्राभावात् शब्दनिष्ठधर्म-
विशेषलक्षकत्वमध्यवसीयते इत्याइ-तत्रेति । प्रवर्तनात्वेनेति । प्रवृत्त्यनुकूलव्यापार-
१. प्रवर्तनायास्सा ।