2023-02-15 04:03:57 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ शाब्दीभावना-
ननु-लोके वा शब्दनिष्ठे प्रेरणापरपर्याये व्यापारे शब्दप्रयोगाभावेन
शक्तिप्रहाभावात् कथं तस्य विधिशब्दात् (१) प्रतिपत्तिरिति चेत् -
सत्यमेतत् । तथापि बालस्तावत् स्तन्यदानादौ स्वकृतरोदनादिजनित-
मातृप्रवृत्तेः स्वाभिप्रायरूपप्रवर्तनाज्ञ(नजन्यत्वावधारणात् सविधिकप्रयोजक-
वाक्यश्रवणसमनन्तरभाविनीं प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य
प्रवर्तनाज्ञानमनुमिमीते ।
ननु – शक्तिग्रहस्य व्यवहारसाध्यत्वेन लौकिक लिङादेः पुरुषनिष्ठव्यापारवाचकत्वेनैव
लोके प्रयोगात् तत्रैव शक्तिग्रहेण शब्दनिष्ठव्यापारवाचकतया श्रप्रयुक्तस्य तस्य तत्र
शक्तिग्रहासम्भवात् उपायान्तरस्य च शक्तिप्राहकस्याभावात् कथं वैदिकलिङादितः प्रेर.
णापरपर्यायस्य शब्दनिष्ठव्यापारस्य प्रतीतिरिति शङ्कते-नन्विति ।
१८०
सत्यमिति । सत्यमित्यर्धाङ्गीकारे । लोके पुरुषनिष्ठव्यापार एव लिङ्गादीनां प्रयोग
इति यदुक्तं तदङ्गीक्रियत इत्यर्थः । नैतात्रता लौकिके व्यापारे शक्तिग्रहो न सम्भव-
तौति युक्तमित्याह तथापीति । तत्र शक्तिप्रदप्रकारं कथयिष्यन् तस्य लौकिक शक्ति
महपूर्वकत्वात् प्रथमं तावत् लोके शक्तिप्रहप्रकारमुपपादयति- बालस्तावदिति । यदा
स्तनन्धयस्य बुभुक्षा सञ्जायते तदा स रोदिति । तच्छ्रुत्वा समनन्तरमेव च तन्माता तद-
भिप्रायरूपां प्रवर्तनां स्तन्यदानादिविषयिणीं ततो ज्ञात्वा स्तन्यदानादौ प्रवर्तते । एवं
स्वरोदनसमनन्तरभाविनीं स्वमातृप्रवृत्ति बहुशः पश्यन् बालः तत्र कारणं जिज्ञासमानः
कारणान्तरानुपलब्ध्या अन्वयव्यतिरेकाभ्याञ्च स्वरोदनश्रवणानन्तरभाविस्वाभिप्रायरूप-
प्रवर्तनाज्ञानमेव तत्र कारणं कल्पयति । यदा च किञ्चिदिव प्रबुद्धो भवति, तदा गामा-
नयेत्या दिस विधिकवाक्यमाचार्यादिरूपप्रयोजक वृद्धप्रयुक्तं श्रुत्वा तत्समनन्तरभाविनीं शि.
घ्यादिरूप प्रयोज्यवृद्धप्रवृत्ति गवानयनादिविषयिणीञ्चोपलभ्य तत्र च कारणं जिज्ञासमानः
कारणान्तरानुपलब्ध्या लिङादिघटितवाक्यश्रवणजनितं प्रयोक्तृपुरुषाशयज्ञानमेव स्वमा-
तृप्रवृत्तिदृष्टान्तेन कारणमध्यवस्यति । तत्रापि प्रयोक्त्रा बहूनां शब्दानां प्रयोगात् कस्य
तेषु प्रवर्तनाबोधकत्वमिति जिज्ञासमानः लिङादिशब्दश्रवणानन्तरमेव प्रवृत्तेर्जायमान-
स्वात् श्रन्वयव्यतिरेकाभ्यां लिङादिविधिशब्द एव तादृशप्रवर्तनाया वाचक इत्यवधार-
यति । तादृश्याश्च प्रवर्तनाया इच्छारूपायाः पुरुषाशयासंस्पृष्टे वेदे असम्भवात् तद्वि-
लक्षणं प्रेरणा विध्याञ्चपरपर्यायं कञ्चन धर्मविशेषं लिनिष्ठत्वेन कल्पयति । अनेनैव
पथा वैदिकलिङादिष्वपि शक्तिग्रहसम्भवात् न शक्तिग्रहाभावरूपो दोषः इति प्रकरणार्थः ।
तत्कारणत्वेन प्रयोज्यवृद्धप्रवृत्तिकारणत्वेन । तस्य प्रयोज्यवृद्धस्य । प्रवर्तनाज्ञानं
प्रयोजकवृद्धनिष्ठस्य अयमत्र प्रवर्ततामित्याद्याकारकाशयविशेषस्य ज्ञानम् । अनुमिमीत
इति । इयं प्रयोज्यवृद्धप्रवृत्तिः प्रवर्तनाज्ञानजन्या, लिङादिश्रवणानन्तरभाविश्वात्, मदी-
यरोदनानन्तरमाविमन्मातृप्रवृत्तिवत् इत्यनुमितेराकारो बोध्यः ।
>
FOUNDED
ननु प्रवृत्तित्वावच्छिन्नं न प्रेरणा ज्ञानजन्यम् । भोजनादौ स्वत एवेष्टमाघनत्वादि
बुद्ध्वा प्रवृत्तिदर्शनात् तत्र प्रेरणाशानजन्यत्वाभावात्, प्रेरणोत्तरप्रवृत्तिस्थलेऽपि च इष्ट-
enta
१. प्रतीतिरि० ।