This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्या संवलितः
 
यत्त इष्टसाधनत्वं (१) विध्यर्थं इति, तन्न । तथा सति इष्टसाधनमितिशब्दस्य
विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसा-
धनम्, तस्मात्तत् त्वं कुर्विति सह प्रयोगात्, पर्यायाणां च सह प्रयोगाभा-
वात् । मतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्राय-
विशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । PIS
बोधकळिखाद्यर्थः । अयं लिङच्चारयिता । इष्टसाघनत्वस्य लिङर्थत्वं प्रसङ्गात् पूर्व निर-
स्तमपि प्रकरणशुद्धयर्थं पुनस्तदन्द्य निरस्यति — यत्त्विति । विधिशब्दः विधिबोधको
लिङादिः । इष्टापत्तौ दोषमाह - सन्ध्योपासनमिति । सहप्रयोगादिति । सहप्रयो-
गदर्शनादित्यर्थः । इष्टसाधन मिति पदेन सह "कुरु" इति लोटः प्रयोगो दृश्यते । पर्या-
यत्वे च स न घटत इति भावः । अत नेष्टसाधनत्वस्य लिङर्थत्वं युज्यते । प्रवर्तनाप्रेर•
गाविध्यादिपर्यायस्यैव व्यापार विशेषस्य तदित्यभ्युपगन्तव्यमित्याह - अतश्चेति । स च
व्यापारविशेषश्च । सर्वत्र लोके प्रवर्तयितुराचार्यादे' 'हमेनं प्रवर्तयामि' इत्यनुभवात्
'आचार्य प्रेरितोऽहंगामानयामि' इति व्यवहारबलाच प्रवर्तनायाः प्रवर्तयितृपुरुषनिष्ठत्वम्,
गवानयनादौ कृते 'मदाज्ञामयं कृतवान्' इत्याज्ञप्तुर्व्यवहाराच्च तस्याभिप्राय विशेषत्वं चाव.
गम्यत इति भावः । शब्दनिष्ठ एवेति । लिब्ादिरूपो यो विधायकश्शब्दः तद्वृत्ति-
रित्यर्थः । इत्युक्तमिति । ग्रन्थारम्भ इति शेषः ।
 
SPIR
 
( ३ ) इष्टसाधनत्वमेव लिङथं इति ततोऽर्वाचीना वैयाकरणाः ।
 
( ४ ) नैयायिकेषु – इष्टसाधनत्वं बलवदनिष्टा जनकत्वं कृतिसाध्यत्वं चेति 'त्रितयमपि लिधं
 
P
 
इति नैयायिकाः । तत्र विशेषणविशेष्यभावापन्नेषु त्रिष्वप्येकैव शक्तिरिति प्राचीनाः ।
तत्र पृथक्-पृथगेव शक्तित्रयमिति नवीनाः।
 
( ५ ) कृतिसाध्यस्वमेव लिडर्थ इति रतकोशकृतः ।
 
(६) लिङघटितवाक्योच्चारयितुरहमेनं प्रवर्तयामीत्यभिप्रायविशेषो लोके वेदे च लिडधं । इत्यु-
दयनाचार्याः ।
 
(७) वेदान्तिषु – वेदे भगवदाज्ञैव लिङथं इति श्रीभाष्यकाराः, तदनुयायिनस्सेश्वरमीमांसा
 
कदादयश्च ।
 
(८) इष्टसाधनत्वमेव लिङर्थ इति सुरेश्वराचार्याः, तदनुसारिणश्चित्सुखाचार्यादयश्च ।
 
( ९ ) इष्टसाधनत्वं कृतिसाध्यत्वमित्युभयं लिङर्थ इति भामत्यां वाचस्पतिमिश्राः ।
 
( १० ) मीमांसकेषु –इष्टसाधनत्वमेव तत्त्वेन रूपेण लिङर्थ इति मण्डनमिश्राः ।
 
( ११ ) भाट्टेषु-तत्तद्धात्वर्थगतं कार्यस्वं लिडर्थ इति भाट्टेष्वप्येक मतम् ।
 
(१२) लिङादिशब्दगतस्यार्थप्रकाशनसामर्थ्यस्याऽभिधाख्यव्यापारस्य लिङर्थत्व मिस्यध्ये कदेशि-
६७६
 
-
 
मतम् ।
 
( १३) इष्टसाधनस्वमेव प्रवर्तनात्वेन रूपेण लिङथं इति पार्थसारथिमिश्रप्रभृतयः ।
 
(१४) इष्टसाधनत्वाद्यतिरिक्तः प्रवर्तनाख्योऽलौकिकः कश्चिद्धर्मविशेषो लिङादिवाच्य इति भट्ट-
सोमेश्वरः खण्डदेवप्रभृतयश्च ।
 
प्राभाकरेषु –अपूर्वापरपर्यायः कार्यात्मा नियोगो लिङथं इति प्राभाकराः । तत्र लोके
कार्यस्वेन क्रियायाः, वेदे च नियोगस्य लिङर्थत्वमिति विवेकः ॥
 
FOUNDED
 
1917
 
एतेषां स्फुटतया विवरणं पूज्यपादैः श्रीगुरुवर्यैरेव स्वकृते विधितत्त्वसङ्ग्रहाख्ये लघु
 
बा
 
कृतम् । तत् तत एवावगन्तव्यम् ॥
 
१. लिङथंः ।
 
Bhandarkar Oriental
 
Research Institute