2023-02-15 04:03:57 by ambuda-bot
This page has not been fully proofread.
१७८
मीमांसान्यायप्रकाशः
[ शाब्दीभावना-
'सोऽरोदी दित्यादी नामर्थवादानां तु निषेध्यनिन्दकतयेति । (१) अतश्च
लक्षणया प्राशस्त्यमर्थवादबध्यते, तच्च प्राशस्त्यज्ञानं शब्दभावनायामिति
कर्तव्यतात्वेन संबध्यते ।
(२) परमप्रकृतम्-तत्सिद्धं वक्ष्यमाणार्थभावनाभाव्यिका लिङार्दिज्ञान-
करणिका प्राशस्त्यज्ञ (नेतिकर्तव्यताका शाब्दी भावना लिङ्त्वांशेनोच्यत इति ।
(शाब्दीभावनानिरूपणम् )
ननु-केयं शाब्दी भावना ? उच्यते - पुरुषप्रवृत्यनुकूलो व्यापारविशेषः ।
स एव (३) विध्यर्थः । लिङादिश्रवणे श्रयं मां प्रवर्तयतीति नियमेन प्रतीतेः ।
देयमित्यर्थः । ऋचत्र बर्हिषों'ति निषेधवाक्यम्, 'सोऽरोदी' दिव्यर्थवादवाक्यमिति विवे-
क्तव्यम् । सः श्रग्निः श्ररोदीत् रुदितवानित्यर्थः । सन्दर्भशुद्व्यथ कथेयमत्र लिख्यते
तैत्तिरीयसंहितोक्ता-पुरा कदाचित् देवासुराणां युद्धं प्रावर्तत । तत्र युद्धार्थं गच्छन्तो
देवाः स्वीयमनघं रमणीयं च वस्तुजातमग्निसमीपेऽस्थापयन् यदि कदाचिदस्मानसुराः
पराजयेयुः तदिदमस्माकं लोकयात्रार्थं भविष्यतीति । दृष्ट्वा च तदतिसुन्दरममूल्यं च
वस्तुजातं लोभाकृष्टचित्तोऽग्निः तत् गृहीत्वा पलायत । ते च देवासुरान् जित्वा प्रति-
निवृत्ताः यदा पलायितमग्निमवागच्छन् तदा तमन्विष्य तत् सर्वमपि धनं बलादाच्छि.
न्दन् । तादृशधन वियोगजं दुःखमसहमानोऽग्निररुदत् । रुदतस्तस्य नेत्राभ्यामपतन्नश्रुबि•
न्दवः । त एव घनीभूता रजतत्वमापन्नाः । निषेध्यनिन्दकत येत्यनन्तरम् अर्थवश्वमित्य-
नुषञ्जनीयम् । एतादृशे स्वार्थे कस्यापि प्रयोजनस्याभावात् निषेध्यस्य रजतदानस्य निन्दा-
यामेव तात्पर्यमस्यार्थवादस्य वक्तव्यम्-यत् रजतदानं तदस्यन्तं निन्दितमिति । तेन च
प्रयोजनवर सिध्यतीत्यर्थः । अतश्चेति चकारेण अप्राशस्त्यं, तश्चेति चकारेण श्रप्रा.
शस्त्यज्ञानं च परिगृहोते । एवं च प्रशंसार्थवादः प्राशस्त्यम् निन्दार्थवादर प्राशस्त्यं
चावबोध्येते इति फलितम् । सम्बध्यत इति । श्रन्त्र प्राशस्त्याप्राशस्त्ययोः शब्दप्रतिपा-
द्यत्वेऽपि तद्ज्ञानस्य तत्त्वाभावेनाशाब्दत्वात् न शाब्दबोघेऽन्वयः । किन्तु वस्तुत एवेति.
कर्तव्यतास्वमिति नव्याः ।
प्रन्थारम्भे कृतं परमप्रकृतं शाब्दीभावनाया अंशत्रय निरूपणमुपसंहर्तुं तत् ज्ञापयति-
परमेति । तदेवोपसंहरति - तत्सिद्धमिति ।
( शाब्दीभावनानिरूपणम् )
एवं प्रतिज्ञातं परिसमाप्य तावतैव प्रन्थमिमं समापयितुकामोऽपि भावनास्वरूप निरू-
पणमवशिष्टं मन्वानः तदनिरूपणे च ग्रन्थस्य न्यूनतामाशङ्कमानः तन्निरूपणमारभमाणः
पूर्वोपस्थितां प्रधानभूतांच शाब्दीभावनां प्रथमतो निरूपयितुं शब्दभावनास्वरूपं पृच्छति-
नन्विति । एवं पृष्टे न्यायसुधाकृन्मतेन समाधत्ते - उच्यत इति । विध्यर्थः विधि-
1917
१. "अतश्च लक्षणया प्राशस्त्यमप्राशस्त्यं च स्वसन्निधिपठित विधिनिषेधापेक्षितत्वात् स्वार्थप्रतिपा.
दने प्रयोजनमलभमा नैरर्थवादबध्यते" इति कचिरपाठः । परं सन ग्रन्थकूदभिमत इति भाति ।
२. एतच्च क्वचित् मुद्रितपुस्तके नास्ति । ३. विविधं लिङथंभूतं विधिस्वरूपं शास्त्रकारैरेवं निरूपितम् -
(१) वैयाकरखेषु-विधिनिमन्त्रणामन्त्रणाषीष्ट संप्रश्नप्रार्थनारूपाः षडर्था लिङः इति भगवान्पाणिनिः ।
(२) विध्यादिषु चतुर्ष्वनुगतं प्रवर्तनात्वम्, संप्रश्नप्रार्थने च लिबर्थ इति वाक्यपदीयकाराः।