This page has not been fully proofread.

१७६
 
मीमांसान्यायप्रकाशः
 
[ प्रतिषेध-
नानर्थहेतुत्वम्, उभयोरपि विधिप्रतिषेधयोंः क्रत्वर्थत्वात् । यत्र तु न
विकल्पः, प्राप्तिश्च रागतः, प्रतिषेधश्च पुरुषार्थः, तत्र निषिध्यमानस्यानर्थ-
हेतुत्वम्, यथा-कलञ्जभक्षणस्य ।
 
'दीक्षितो न ददाति, न जुहोती त्यादिषु तु दानहोमादीनां शास्त्रप्राप्ता.
वपि पुरुषार्थत्वेन प्राप्तत्वात् ऋश्वर्थत्वेन च प्रतिषेधात् तुल्यार्थत्वाभावेन
विकल्पाप्रसक्तावपि न तेषामनर्थहेतुत्वम्, रागतः प्राप्त्यभावात् । रागतः
प्राप्तस्यापि ऋत्वर्थत्वेन प्रतिषेधे तदनुष्ठानात् ऋतोर्वैगुण्यम्, नानर्थोत्पत्तिः,
यथा-इवस्त्र्युपगमनादिप्रतिषेधे । रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे
तत्रेत्यर्थः । अन्यथा निषेधस्य सामान्य विषयत्वे विधेश्य विशेषविषयत्वे तत्र विकल्पो न
स्यात्, यथा 'न हिंस्यात् सर्वा भूतानि' 'अग्नीषोमीयं पशुमालभेते त्यत्र न
विकल्प इति भावः । विधेसामान्य विषयस्वे निषेधस्य विशेषविषयत्वे तु विशेषस्थलेऽपि
निषेघसिध्यर्थ प्राप्तेरावश्यकतया विको भवत्येव, यथा "न तो पशो करोति' इत्यपि
हृदयम् । यत्र तु तुल्यार्थतायामपि तुल्यबलत्वं नास्ति तत्र निषेण्यस्यानिष्टजनकतास्त्येवे-
स्याह - यत्र विति । पुरुषार्थ इति । पुरुषनिष्ठप्रत्यवायपरिहारोद्देश्यकप्रवृत्तिमत्वं
निषेधानां पुरुषार्थत्वम् । अनर्थहेतुत्वमिति । नरकादिरूपानिष्टजनकत्वमित्यर्थः । एवं
प्रतिषेधस्वीकारेऽपि यत्र विकल्पाप्रसक्तिः तत्रापि प्रतिषेधाश्रयणम्, यथोक्तं पार्थसारथिः
मिश्रैः-यदा च प्रतिषेधपक्षेऽप्यविकल्पः, तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृ
क्षया च प्रतिषेधत्वमेव न्याय्यमिति ।
 
एवं रागतः प्राप्तानां पुरुषार्थतया निषेधे तेषामनर्थ हेतुतामुक्त्वा इदानीं पुरुषार्थ तया
प्राप्तानां क्रत्वर्थतया निषेधे न तत्रानर्थहेतुतेत्याह-दोक्षित इति । सौमिकीं दीक्षां
प्राप्तो यजमानः यावद्दीक्षाविमोकं पुरुषार्थदानानि (१) क्रतुमध्यपतितानि न कुर्यात्,
एवं पुरुषार्थहो मान मिहोत्रादीन् न कुर्यादिश्यर्थः । पुरुषार्थत्वेनेति । स्वयंप्रार्थितवृत्यु -
द्देश्यतानिरूपित विधेयताकत्वं पुरुषार्थत्वम्, स्वयंप्राथितभिन्नवृत्त्युद्देश्यतानिरूपितविधेय.
ताकत्वं च क्रत्वर्थमिति तयोर्लक्षणम् । अत्र चोद्देश्यताविधेयते स्वरूपसम्बन्धरूपविषय-
ताविशेषरूपे । न तु साध्यात्वानुष्ठेयत्वरूपे । एवञ्चेदं लक्षणं विधिनिषेधस्थल योरुभयत्रापि
सङ्घतं भवतीति बोध्यम् । तुल्यार्थत्वाभावेन एकार्थस्वाभावेन । तेषां दानहोमादीनाम् ।
कुतो नानर्थ हेतुत्वम् ? श्रत श्राह-रागेति । अनिष्टजनकीभूते व्यापारे रागेण तदभा-
ववत्ताभ्रमसम्पादनद्वारा प्रवृत्तिजननेऽपि शास्त्रेण तथा कर्तुमशक्यत्वादिति भावः ।
स्वस्त्रीति । स्वत्र्युपगमनं च पुरुषमात्रस्य रागतः प्राप्तम् । दर्शपूर्णमासप्रकरणे च 'न
स्त्रियमुपेयात्' इति तस्य निषेधः क्रियते । एवञ्च रागतः प्राप्तस्य तस्य क्रत्वर्थतया
निषेधात् ऋतुमध्ये तदनुष्ठाने क्रतोवँ गुण्यं, न तु पुरुषः प्रत्यवेयादिति भावः । एवं रागतः
प्राप्तस्य पुरुषार्थतया निषेधे क्रतुमध्ये तादृशनिषेध्यानुष्ठानेऽपि न क्रतोस्तेन वैगुण्यम्,
 

 
१. यत्वत्र महामहोपाध्यायाभ्यङ्करवासुदेवशास्त्रिमहोदयैः न्यायप्रकाशव्याख्यायां प्रभाख्याय
प्रसङ्गात् यज्ञाङ्गं दक्षिणादानं तु दीक्षासमाप्त्यनन्तरं क्रियते इस्युक्तम् । तदनवधानात् । सुत्यादिने
माध्यन्दिनसवन एव दक्षिणादानविधानात् अवभृथान्तरमेव च दीक्षासमाप्तेः ग्रन्थेष तत्वाच्च ।
 
नमस्तु