This page has not been fully proofread.

[पर्युदास-
२७४
वा १ माघे अनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन' वाक्येनो-
पसंहारो न स्यात्, भाग्नेये सङ्कोचाभावात् । द्वितोये चतुर्धाकरणस्य पुरो
डाशमात्रे प्राप्तस्याग्नेये सङ्कोचवदनूयाजाननूयाजसाधारण्येन प्राप्तस्याननू-
याजेषु सङ्कोचादुपसंहारः स्यादेव ।
 
एतावांस्तु विशेष:-श्राग्नेयादिवाक्येषु श्राग्नेयादयो विशेषाः स्वपदोप-
स्थापिताः प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्ववि
शिष्ट एव ।
 
यच्च तदन्यमात्रसङ्कोच नार्थत्वात्पर्युदासस्येति । तन्न, 'नेक्षेते'त्यत्र
सत्यपि पर्युदासे सङ्कोचाभावात् । नात्र सामान्ये प्राप्तं तदन्यमात्रे सङ्को
च्यते, संकल्पमात्रविधानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं 'नानूयाजेष्वि'.
त्यत्र विकल्पप्रसक्त्या पयुंदासाश्रयणमिति ।
 
मीमांसान्यायप्रकाशः
 
यत्र तु स माश्रयितुं न शक्यते तत्र तत्प्रसक्तावपि निषेध एवाश्रीयते,
यथा-' नातिरात्रे षोडशिनं गृह्णाती" त्यत्र । (१) नत्र हि "अतिरात्रे षोडशिनं
ग्नेयमात्र परामर्शकः ? उत सर्वोदाहरणगतान् सर्वानपि विशेषान् परामृशति ? इति संशयप-
दार्थः । श्राद्य इति । तन्मात्र इति तच्छुब्देनाग्नेय व्यक्तिमात्रमादाय तत्र लक्षणसमन्वय.
करणपक्ष इत्यर्थः। साप्तदश्यस्येतिदर्शपूर्णमासीयसामिधेनीगतसंख्या विशेषस्य पूर्वविचा.
रितस्य परामर्शः । मित्रविन्दापदार्थोऽपि पूर्वमुक्तः । द्वितीय इति । सामान्यतः प्राप्तस्य
विशेषे सङ्कोचनरूपे द्वितीयस्मिन् पक्ष इत्यर्थः । स्यादेवेति । सामान्यप्राप्तस्य विशेषे सङ्को.
चनरूपस्योपसंहारलक्षणस्य तत्र सत्वादिति भावः ।
 
यद्येव 'आग्नेयं चतुर्धा करोती'ति 'नानूयाजे' ग्वित्यनेन तुल्यमेव, तत्राह-
एतावानिति । एवं 'नानूयाजेष्वि'त्यत्रोपसंहारास्तितां प्रसाध्य परोक्तं पर्युदासलक्षणं
खण्डयति — यच्चेति । प्रकृतमुपसंहरति - तत्सिद्धमिति ।
 
ननु एतावता लक्षणापादकतया निषेधापेक्षया गुरुभूतोऽपि पर्युदासः विकल्पप्रसक्त्यै-
वाश्रित इत्युक्तं भवति । यत्र तु निषेधाश्रमणे विकल्पः प्रसज्यते, ।पर्युदासस्तु नाश्रयितुं
शक्यते, तत्र का गतिरित्याशङ्कायामाह - यन्त्र त्विति । सः पर्युदासः । तत्प्रसक्ता
वपि विकलप्रसक्तावपि । नातिरात्र इति ॥ अतिरात्रसंस्था के ज्योतिष्टोमे षोडशिसंज्ञकं
ग्रहं गृह्णीयादित्यर्थः । अत्रेयं परिस्थितिः—ज्योतिष्टोमो नाम सोमयागः । तस्य चत
स्रस्संस्थाः – श्रग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । संस्था नाम ऋतुप्रयोगवृ
त्तिस्तोत्रोपरमः । स्तोत्रं नाम प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानमुद्गातृगणेन क्रियमा-
णमित्युक्तम् । एवञ्च येन स्तोत्रेण ऋतुप्रयोगस्समाप्यते तेनैव स्तोत्रेण सा संस्था व्यप-
दिश्यते । ज्योतिष्टोमे चाग्निष्टोमसंस्था केऽग्निष्टोमस्तोत्रमन्त्यम् । तदुपरि न स्तोत्रमस्ति ।
उक्थ्ये चाग्निष्टोमस्तोत्रानन्तरमुक्थ्यस्तोत्रम् । तदेव च तत्रान्त्यम् । षोडशिनि चोक्थ्या-
नन्तरं षोडशिस्तोत्रम् । तदेव च तत्रान्त्यम् । अतिरात्रे च षोडशिस्तोत्रानन्तरं त्रयो
रात्रि पर्यायाः स्तोत्रविशेषाः, आश्विनस्तोत्रं च । रात्रिमतीत्य समाप्यत इति तस्य
 
नाथ
 
१. नातिरात्रे ।
 
Research Institute 2
 
EXPOR
 
-
 
1917