This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
१७३
 
श्रन्ये तु-उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो
व्यापारविशेषो विधेः । पर्युदासस्तु -
 
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।
इत्यभियुक्तोक्त्या प्रत्ययातिरिक्तेन धातुना नाम्ना वा नञः सम्बन्धः ।
अतश्चानयोस्तावत् स्वरूपतः स्पष्ट एव मेदः ।
 
32
 
एवं सत्यप्यभेद आशाङ्कघेत, यदि यत्र पर्युदासस्तत्रावश्यमुपसंहारः
स्यात् । न चैतदस्ति । 'नेक्षेतोद्यन्त'मित्यादौ सत्यपि तस्मिन्नुपसंहारा-
भावात् । नहिं तत्राग्नेयचतुर्द्धाकरणमिव सामान्ये प्राप्तं किञ्चिद्विशेषे सङ्को.
च्यते । पापक्षयोद्देशेनानीक्षणसंकल्पमात्र विधानात् ।
 
प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्यानूयाजव्यतिरिक्तेषु
सङ्कोचनात् यदि विधेरुपसंहारविधित्वं संभवति, नैतावता किञ्चिद्विरुध्यते ।
विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भवति
विरोधः । न चात्र विधिर्नास्ति, नञोऽनूयाजपदसम्बन्धेन विधेर्विधायकत्व-
स्याव्याघातात् । मन्त्र हि पर्युदासोऽनूयाजव्यतिरिक्तविषयसमर्पकः माग्नेय-
पदवत् । उपसंहारकस्तु विधिरेव ।
 
न च अन्न तन्मात्रसङ्कोचा भावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच
इति को ऽर्थः ? आग्नेयमात्रे सङ्कोचो वा ? सामान्य प्राप्तस्य विशेषमात्रे सङ्कोचो
स्वस्मिन् स्वेतरस्मिंश्च प्राप्तं विषयं स्वेतरस्मात् व्यावर्त्य स्वमात्रेऽवस्थापनमुपसंहारः ।
तथैव प्राप्तं विषयं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनं पर्युदास इत्यर्थः । एवञ्च
प्रकृते 'नानूयाजेष्वि'त्यनेन येयजामहं स्वस्मात् व्यावर्त्य स्वेतरस्मिन् व्यवस्थापनात्
पर्युदास एव नोपसंहार इति भावः । केचिदिति । न्यायसुधाकृत इत्यर्थः ।
 
-
 
अत्रैव पार्थसारथिमिश्रमतमाह - अन्ये त्विति । प्रत्ययातिरिकेनेति । विधा-
यकप्रत्ययो यो लिङादिस्तद्भिन्नेनेत्यर्थः । स च क्वचित् धातुः, यथा 'नेक्षेते' त्यादी ।
क्वचित् नामापि, यथा प्रकृते, तेन यः सम्बन्धः अन्वयः प्रतियोगिता सम्बन्धावच्छिन्न
इस इत्यर्थः । एवञ्च विधिव्यापार उपसंहारः, धात्वादिसम्बद्धनञव्यापारः पर्युदास इति
तयोः स्पष्ट एव मेदः इत्याह-अतश्चेति ।
 
-
 
ननु सत्यपि बोधकमेदे फले विशेषाभावात् किमर्थं तयोर्भेद श्राश्रीयते इत्यत
- एवमिति । यदि उपसंहारः पर्युदाससमनियतः स्यात् तदानीं तयोरपृथक्भावे-
नामेद आशङ्कक्येतापीत्यर्थः । तस्मिन् पर्युदासे । सङ्कल्पमात्रेति । मात्रपदेनोपसंहा-
रव्यावृत्तिः । यद्येवं तर्हि प्रकृते कथमुभयोस्सामानाधिकरण्यम् ? अत आह-प्रकृतेति ।
विरुध्यत इति । विधिकार्यस्योपसंहारस्य तेनैव करणात् नामसमभिव्याहृतनञ् कार्यस्य
च पर्युदासेन करणात् न फलैक्यादिरूपो विरोध इति भावः । विरोधाभाव मेवोपपादयति-
विध्यभाव इति । श्राग्नेय पद्वदिति । यथा चाग्नेयपदं स्वार्थरूपं विशेषं समर्पयति,
एवं 'नानूयाजेष्वि'तिपदं स्वातिरिक्तरूपं विशेषं समर्पयतीत्यर्थः ।
 
FOUNDED
1917
 
तन्मात्रसङ्कोचनमेवोपसंहारं मन्वानश्शङ्कते- न चेति । अत्र नानूयाजेध्वित्यत्र ।
तमिमं पक्षं विकल्प्य दूषयति - तन्मात्रेति । तन्मात्रेत्यत्र तच्छन्दः प्रकृतोदाहरणस्था-