This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
वदनाकर (१) गादिव दर्शपूर्णमासयोः । स चोपकारोऽदृष्टरूप इति द्विरदृष्ट-
कल्पनाप्रसङ्गः। श्रुतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयणे च तदापत्तेर्न
ताश्रयणम् ।
 
किन्तु नञः अनूयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते,
नञनूयाजशब्दाभ्यामनूयाजव्यतिरिक्तलक्षणात्-श्रनूयाजव्यतिरिक्तेषु येयजा-
महं करोतीति । अत्र च वाक्ये येयजामहः कर्तव्यतया न विधीयते, 'यजतिषु
येयजामहं करोती' स्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेय-
जामहानुवादन तस्यानूयाजव्यतिरिक्तविषयता विधीयते यत् यजतिषु येय-
जामहं करोति तद्नूय/जव्यतिरिक्तेष्विति । एषञ्च सामान्यशास्त्रस्य विशेषशा
खा(२)पेक्षिणः 'नानूयाजे' ध्वित्यनेनानूयाजव्यतिरिक्त विषय समर्पणादनूयाज.
 
चोपकारजनकत्व नियमादिति भावः । तदकरणादित्यनन्तरं कश्चनोपकारी भवतीति शेषः ।
तत्र दृष्टान्तमाह - अनृतेति । यथा दर्शपूर्णमासप्रकरणगतेन 'नानृतं वदेत्'
इति वाक्येन दर्शपूर्णमासापूर्वीद्देशे नानृ तवदन वर्जनविधानात् तादृशवर्जनेन दर्शपूर्णमा-
सयोरुपकारस्सम्पाद्यत इत्यवगम्यते, एवमनूयाजोद्देशेन येयजामहाकरण विधानात् तेन
तत्रोपकारस्सम्पाद्यत इत्यवगम्यत इत्यर्थः । एवञ्च क्रतुवैगुण्यपरिहारद्वारा क्रत्वपूर्व जनकत्वं
कत्वर्थनिषेधानामित्युक्तं भवति । उक्तं हि वार्तिककृता-"प्रकरणसामर्थ्याद्धि
पुरुषगतमपूर्वसाधनत्वं लक्षयित्वा अनृतं प्रतिषिद्धम् । अतस्तदतिक्रमे दर्श
पूर्णमासापूर्वमेव वैगुण्यान्न स्यात्" इति । अदृष्टकल्पनाप्रसङ्ग इति । अनुयाज-
करणात् तदकरणाद्वा दृष्टस्य फलस्य कस्याप्यसम्भवात् उभयत्राप्यदृष्टस्यैव कल्पनावश्यं-
भावेनादृष्टय कल्पना प्रसङ्ग इत्यर्थः । अतश्चेति । शास्त्रस्य पक्षेऽप्रामाण्यापच्या श्रदृष्टद्वय
कल्पनापच्या चेत्यर्थः । तदापत्तेः विकल्पापत्तेः । तदाश्रयणं प्रतिषेधाश्रयणम् ।
 
-
 
तर्हि किमत्राश्रीयते ? श्रुत आह
- किन्विति । नञोऽनूयाजसम्बन्धे कथं पर्यु-
दासः १ अत आह - नञिति । पर्युदास प्रकारमेवाह-मनूयाजेति । ननु अत्रापि येय-
जामहकर्तव्यताया एव बोधनात् को विशेषस्सा मान्यवाक्यादित्यत आह - अत्रेति ।
नञ्घटितवाक्य इत्यर्थः। कतर्व्यताबोधक विधिप्रत्ययअवणात् कुतो न कर्तव्यताबोधनम् १
श्रत ग्राह- यजतिष्विति । सत्यपि विधिप्रत्ययश्रवणे विहितस्य पुनर्विधानायोगात् सो-
ऽन्यपरतया नेय इति भावः । तर्हि किमनेन क्रियते ? तदाह — किन्विति । व्यति
रिक्तविषयतेति । एवञ्चास्य वाक्यस्य येयजामहप्रवृत्तौ विषयसमर्पण मात्रं व्यापार
इति भावः । तदेव स्पष्टयति - यदिति । कथमेतावता विकल्पपरिहारः १ तं निरूपयति-
एवञ्चेति । विशेषशास्त्रापेक्षिण इति । सामान्यविशेषशास्त्रयोरेकवाक्यतया विशेष-
शास्त्रगृहीतविषय व्यतिरिक्तविषय एव सामान्यशास्त्रप्रवृत्तेः तदर्थं तस्य विशेषशास्त्रसापे-
क्षस्वादित्यर्थः । नानूयाजेष्विति। विशेषशास्त्रेणेतिशेषः । विशेषापेक्षिण इति क्वचि
त् पाठः । स यदा स्वीक्रियते तदाऽयमर्थः-सामान्यस्य विशेषेऽपर्यवसन्नस्य प्रवृत्यजनक-
१. दिवत् । • २. विशेषापेक्षिणः
 
?
 
1917
 
Research Institute