This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ पर्युदास-
(१) प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नअ !!
इति च तयोर्लक्षणम् । तत्र "नेक्षेतोद्यन्तमादित्य" मित्यादौ पर्युदासा-
श्रयणम्, 'तस्य व्रत' मित्युपक्रमात् ।
 
१६२
 
( उपक्रमबलात्पर्युदासाङ्गीकारः )
 
तथा हि-व्रतशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य कर्तव्या
र्थानां वक्तव्यत्वेनोपक्रमात् किं तत् कर्तव्यमित्यपेक्षायां अग्रे 'नेक्षेतोद्यन्त'
मित्यादौ कर्तव्य एवार्थो वक्तव्यः, श्राकाङङ्क्षिताभिधानात् । अर्थान्तरोकौ
च पूर्ववाक्यस्य साकाङ्क्षत्वेनाप्रामाण्यं (२) स्यात् । न हि कर्तव्यार्थस्य
वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाङ्क्षत्वं सम्भ-
वति । न च साकाङ्क्षस्य प्रामाण्यम्, गोरश्वः पुरुषः इत्यादावपि तत्प्रसङ्गात् ।
 
एवं तयोर्लक्षणमुक्त्वा पर्युदासाश्रयणस्य प्राथमिकं स्थलमुदाहरति-तत्रेति । नेते.
तेति । मनौ चतुर्थाध्याये-
ASS
 
अतोऽन्यतमया वृत्या जीवंस्तु स्नातको द्विजः।
स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥
इत्यत्र स्नातकोहेशेनाग्रे वक्ष्यमाणाः तदनुष्ठेयपदार्था व्रतशब्दोक्ताः । श्रच 'नेक्षे
तोद्यन्तमादित्य' मित्यादयोऽभिहिताः । तत्र सर्वत्रापि पर्युदासाश्रयणमेव । प्रतिषेधा-
श्रयणे तस्य कर्तव्यत्वाभावात् कर्तव्यवाचकव्रतशब्दोपक्रमो विरुध्येतेति भावः । अत्र
चादिपदेन "नास्तं यन्तं कदाचन, ।
 
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ।
 
"न लगयेत् वत्सतन्त्रीम्" इत्यादीनि तत्प्रकरणे पठितानि नञ्घटितवाक्यानि
सर्वाण्यपि गृह्यन्ते । उपसृष्टं राहुप्रस्तम् । वारिस्थं जलमध्ये प्रतिबिम्बतया दृश्यमानम् ।
अत्र चोदयादिविशिष्टमादित्यं न पश्येदिति यथाश्रुतोऽर्थः । तत्सरिग्रहे चोपक्रमभङ्गा-
पच्या निषेधमकल्पयित्वा नञो धात्वर्थेन सम्बन्धमङ्गीकृत्य ईक्षणाभावसङ्कल्पोऽनेन विधी-
यत इत्यङ्गीकार्यमिति तात्पर्यम् । एवञ्च तत्प्रकरणे यावन्ति नञ्घटितवाक्यानि तत्र
सर्वत्रापि पर्युदासमझी कृत्य तद्वर्जनसङ्कल्प एव कार्य इति सिध्यति । स च सङ्कल्पः-उद्य-
न्तमादित्यं नेक्षिष्ये-इत्येवमादिरूपो द्रष्टव्यः । यद्यप्यत्र मूलपर्यालोचनया मानवं वाक्य-
मेवोदाहरणमिति भाति, तथापि तत्र 'तस्य व्रत'मित्युपक्रमादर्शनात् "एतावता हैनसा
विमुक्तो भवती" त्यग्रे वक्ष्यमाणस्य वावयशेषस्याभावाच्च न मानवं वाक्यमुदाहरणं
भवितुमर्हति परन्तु तत्समानजातीयं तादृशवाक्यशेष विशिष्टं स्मृत्यन्तरं श्रुत्यन्तरं वोदाह
 
रणमित्यवगन्तव्यम् ।
 
( उपक्रमबलात् पर्युदासस्वीकारः )
पर्युदासाश्रयणावश्यकतामुपपादयति-तथा हीति। आकाङ्गताभिधानादिति ।
 
ANSTINUS
FOONAM
 
1917
 
Bhandarkar Oriental
 
१. अयमेब पाठस्साधीयान् शास्त्रानुगतस्सम्प्रदायागतश्च । सति चैवं अत्र निर्णयसागर मुद्रितपु
स्तके कलिकत्तामुद्रित पुस्तके च शोषयित्रा व्याख्यात्रा च स्वस्वमनीषानुसारेण पाठभेदं प्रकल्प्य तदनु-
सारेण चाथ यो वर्णितः स सर्वोऽप्य भित्तिचित्रायित इत्युपेक्षणीयं प्रेक्षावद्भिः । २. ण्यप्रसङ्गात् ।