This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
बाधकद्वयेन नत्र्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् । इति,
 
प्रत्ययार्थान्वये बाघकमित्यर्थः । व्रतमित्युपलक्षणं धर्मादिपदस्थापि । उपक्रम इत्युपल-
क्षकमुपसंहारस्यापि । श्रत एव
 
'एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्मोऽयम्' इत्यत्राभोजनसङ्कल्पलक्षणा स्मर्तृभिरङ्गीकृता सङ्गच्छते ।
श्रत एव च तन्त्रवार्तिके कधिकरणे पर्युदासनिमित्तकथनावसरे-'न हि दार्शपौर्णमा.
सिके कश्चित् पर्युदास हेतुरस्ति व्रतशब्दप्रयोगो विकल्पमसक्तिर्वा' इत्युपक्रम
शब्दमनुपादाय प्रयोगपदमेव प्रयुक्तम् । परन्तु तत्रत्यं व्रतपदमपि धर्मादिपदोपलक्षकमित्यव.
गन्तव्यम् । तदभावे तादृशबाघकद्वयाभावे ।
 
विकल्पप्रसक्तौ पर्युदासाश्रयणमित्युक्त्या विकल्पदोषात् मुक्त्यर्थमेव पर्युदा-
साश्रयणमित्यवगमात् यत्र पर्युदासाश्रयणेऽपि विकल्पात् न मुच्यामहे तत्र पर्युदासे प्रयो•
जनाभावात् नञः प्रधानसम्बन्धलाभार्थ च प्रतिषेध एवाश्रीयते, यथा-"न तौ पशौ
करोती" त्यत्र । अनेन हि वाक्येन पशुयागे आज्यभागसंज्ञकेन कुर्यादित्याज्य-
भाग कर्तव्यता प्रतिषिष्यते । यद्यत्र पर्युदास आश्रीयते तदा पशुयागे श्राज्यभागभिन्नमङ्ग-
जातमनुतिष्ठेत् इत्यर्थः स्यात् । अनेन नाज्यभागयोरात्यन्तिकी निवृत्तिर्भवितुमर्हति । पशौ
"अग्नय श्राज्यस्यानुब्रूहि, सोमायाज्यस्यानुब्रूहि" इत्याज्यभागाङ्गभूतमन्त्रपाठ-
बलात् तयोरपि तत्र कर्तव्यतावगमात्, किन्तु विकल्प एवेति पर्युदासाश्रयणे प्रयोजना-
भावात् प्रतिषेध एवाश्रीयते । एतेन 'न तौ पशौ करोती' त्यत्र विकल्पभयात् पर्युदा-
साश्रयणमिति प्राभाकरोक्तिः प्रत्युक्ता । विकल्पानङ्गीकारे पशुप्रकरणे श्राज्यभागाङ्गमन्त्र-
पाठवैयर्थ्यापत्तेः । एतरसर्व निषेध एवेत्येवकारेणापि सूचितं ग्रन्थकृता ।
 
P
 
ननु कोऽसौ पर्युदासः प्रतिषेधो वा ? इत्याशङ्कायां तत्परिचयार्थं तयोर्लक्षणं प्राची
नोकमनुवदति - पर्युदास इति । अत्रोत्तरपदं क्रियावाचक प्रत्ययातिरिकपरम्, न तु
वैयाकरणमतवत् समासचरमावयवे रूढम् । श्रुतश्च यत्र नम् क्रिया भिन्नवाचकपदेन सम्ब-
ध्यते तत्र पर्युदासः । क्रिया चाख्यातार्थः । एवञ्चाख्यातार्थभिन्न प्रतियोगिता काभावबोध
कवाक्यत्वं पर्युदासस्वमिति फलितम् । उत्तरार्धं सष्टार्थम् । लक्षणवाक्यद्वयमपीदं हरिका-
रिकायां श्लोकद्वयस्यार्थार्धात्मकम् । तत्र च
 
"अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् ॥
प्रधानत्वं विधेयंत्र प्रतिषेधेऽप्रधानता ।
पर्युदासस्स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ "
 
ASTITUTE
 
POONA
 
FOUNDED
1917
 
Bhandarkar Oriental
Research Institute
 
इति श्लोकद्वयं श्रूयते । प्रन्थकारस्स्वयं प्रकृतोपयुक्तमे कैकश्लोका देकै कमर्धमुशदाय
प्रतिषेधलक्षणे किञ्चिदन्यथयित्वा व्यत्लिखदित्यवगम्यते ।
२१ मी० न्या०