This page has not been fully proofread.

१६०
 
मीमांसान्यायप्रकाशः 77
 
[ निषेध-
यन्मते इष्टसाधनत्वं लिङर्थस्तन्मतेऽपि लिङ्संसृष्टो नञ् इष्टसा.
धनत्वप्रतिपक्ष मनिष्टसाधनत्वं गमयति । सर्वथापि तु नञः प्राधान्यात्
प्रत्ययेनान्वयः ।
 
(पर्युदासनिरूपणम्)
 
यदा तु तदन्वये किंचित् बाधकं तदाऽगत्या धात्वर्थेनान्वयः । तच्च
बाधकं द्विविधम्-'तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्चेति । (१) अनेन च
 
त्तिर्निषेधफलम्। विधिश्रवणे 'हमनेनास्मिन् कर्मणि प्रवर्तितः' इति बुद्धिरुत्पद्यते, निरे-
धश्रवणे च 'अहमस्मात् कर्मणो निवर्तितः' इति धीरुदेति । यागादिगतेष्टसाघनत्वं विधेः
प्रमेयम्, कलजभक्षणा दिगतानिष्टसाधनत्वं निषेधस्य प्रमेयम् । यथोक्तविशेषणविशिष्टः
स्वर्गादिकामनावान् निमित्तवान् वा पुरुषः स्वयमप्रवृत्तः प्रमाणान्तरेणाप्रवर्त्तितो विधेये-
ध्वधिकारी, रागादिना प्रवृत्तमात्रः पुरुषो निषेधेष्वधिकरोति । नञहितो लिङादिविंधेबों-
धकः, लिङाद्यनुगृहीतो नञ् निषेधस्य बोधकः । एवं प्रकारेण पञ्चधा भिन्नत्वात् विधिनि-
षेधयोरत्यन्तभेद इत्यर्थः । एतदपि तत्रैव श्लोकैर्विवृतम् -
 
"विधिरिष्टफलोऽनिष्टपरिहारफलोऽपरः ।
प्रेरितोऽस्मीति पूर्वे धीः वारितोऽस्मीति चापरे ॥
 
भाग
 
विषयस्येष्टहेतुत्वं विधिना च प्रमीयते ।
निषेधेन निषेध्यस्य प्रत्यवाय निमित्तता ॥
विधिश्चाधिकरोत्यन्य कारणेनाप्रवर्तितम् ।
रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ pho
नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् ।
लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ इति ।
59 ननु प्रवर्तनालिङर्थवादिनां मते एवमुपपत्तावपि इष्टसाघनत्वलिङर्थवादिनां मते
कथं निवर्तनायाः प्रतीतिरित्यत आह-यन्मंत इति । एवञ्च ये इष्टसाधनत्वमेव लिधं-
मभ्युपगम्य तस्यैव प्रवर्तनास्वमभ्युपगच्छन्ति ते मण्डनमिश्रप्रभृतयः तत्प्रतिपक्षभूतमनिष्ट-
साघनत्वमेव लिडर्थे ब्रूयुः । तेन तेषामपि न कापि हानि: । पुरुषस्तु यथा इष्टसाधन-
ताज्ञानात् प्रवर्तते, एवमनिष्टसाघनताज्ञानात् निवर्तते एवेति तत्रापि निवर्तनासिद्धिर-
विहतैवेति भावः। तस्मिन्नपि मते नञर्थस्य प्रत्ययार्थेनैव साकमन्वय इत्याह सर्व-
थापीति । प्रधान्यादिति । प्रत्ययार्थस्येति शेषः । नञ इति अन्वय इत्यनेन सम्बध्यते ।
(पर्युदास निरूपणम्)
 
एवं सर्वत्र नञः प्रत्ययान्वयप्रसक्तौ क्वचित् तदपवादमाह-यदा विति । तद्-
न्वये प्रत्ययान्वये । बाघकमेवोपपादयति-तच्चेति । तस्येति । तस्य स्नातकस्य व्रतं
अनुष्ठेयपदार्थः श्रमे निरूप्यते इति शेषः । यत्रोपक्रमेऽनुष्ठेयपदार्थवाचको व्रतशब्दो दृश्य-
से, यत्र वा प्रत्ययार्थान्वयाङ्गीकारेऽष्टदोषदुष्टो विकल्पः प्रसज्यते, तदुभवमपि नञर्थस्य
 
Bhan
Research Institute
 
१. तेन ।
 
136