This page has not been fully proofread.

निरूपणम् ]
 
१५६
 
लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनस्वेनोपस्थितत्वात् । अतो लिङ्त्वांशेन नञ्
सम्बध्यते, तस्य सर्वापेक्षयां प्राधान्यात् । नञश्चैष स्वभावो यत्स्वसम्बन्धि
प्रतिपक्षबोधकत्वम् । 'नास्ती'त्यत्र ह्यस्तीति सस्वशब्देन संबध्यमानो नञ्
सत्त्वप्रतिपक्षमसत्त्वं गमयति । तदिह लिङर्थस्तावत्प्रवर्तना । अतस्तेन सम्ब-
ध्यमानो नञ् प्रवर्तनाप्रतिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणे त्र्यं
मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणे अयं मां निव यतीति
निवृत्त्यनुकूल व्यापाररूपनिवर्तनायाः प्रतीतेः (१) ।
 
अतश्च सर्वत्र निषेधेषु निवर्तनैव वाक्यार्थः । एवं च विधिनिषेधयो-
भिन्नार्थत्वं (२) सिद्धं भवति । हननादि (३) वर्जनकर्तव्यतावाक्याथँपक्षे
तु कर्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न
युक्तम् । यदाहुः-
अन्तरं यादृशं लोके ब्रह्महत्या ऽश्वमेधयोः ।
दृश्यते ताहगे(४) वेदं विधानप्रतिषेधयोः ॥ इति ।
 
तथा-
सारविवेचिनीव्याख्यासंवलितः
 
-
 
फलबुद्धिप्रमेयाधिकारिबाँधकभेदतः ।
पञ्चधात्यन्तभिन्नत्वाद्भेदो विधिनिषेधयोः ॥ इति ।
 
M
 
न्वयः, तस्याः कारकापेक्षया प्राधान्यात् प्रत्ययार्थत्वा विशेष चेत्यत आह-तत्रापीति ।
यद्यपि तस्याः कारकापेक्षया प्राधान्यम्, तथापि शाब्दभावनापेक्षयोपसर्जनत्वात् श्रन्यो-
पसर्जनीभ्रूतेऽन्यान्वयासम्भवस्यानुपद मेवोत्तत्वात् सर्वप्रधानभूतार्थी शाब्दीभावनायामेव
नञर्थस्य सम्बन्ध इत्याह - इति । अस्तु एतावता निवर्तनाबोधकत्वं कथमायातम् ?
नञो विध्यर्थेन सम्बन्धे प्रवर्तनाभावस्यैव बोधनात् इति पूर्वमेव निगूढतयोक्तामाशङ्कामि-
दानों परिहरति-नञश्चैष इति । नञो न केवलमभावमात्रबोधक त्वम्, किन्तु येन सह
सम्बध्यते तद्विरुद्धार्थबोधकत्वमित्यर्थः । तत्र दृष्टान्तमाह - नास्तीति । नञिति । एवञ्च
नञ एव निवर्तनाबोधकत्वम्, तत्र च लिङ्तासर्यप्राहक इति भावः । किं तत्र प्रमा-
मित्यत श्राह - विधिवाक्येति । उभयत्र विधिस्थले प्रतिषेधस्थले च । तयोः
विधिप्रतिषेधयोः ।
Des
विधिप्रतिषेधयोरत्यन्त विरोघे बृहट्टीकोक्तां न्यायसुधाकृदुदाहृतां कारिकामनुवदति
अन्तरमिति । ब्रह्महरयायाः अत्यन्तोत्कटपापरूपत्वेन; श्रश्वमेधस्य च 'सर्व पाप्मानं
तरति, तरति ब्रह्महत्यां योऽश्वमेघेन यजते" इत्यादिना तादृशपापनाशक स्वश्र-
वणाच्च तयोर्यावान् विरोधः परस्परमस्ति तावानेव विधिनिषेधयोर्विरोधः परस्परम-
स्तीति कारिकार्थः ।
 
-
 
FOUN
 
WOR
 
एवं फलादिना परस्परं भिन्नत्वादपि विधिनिषेधयोर्भेदोऽवश्यमङ्गीकर्तव्य इत्यत्र न्या
यसुधोक्तं पद्यमपि स्वयमनुवदति-फलेति । स्वर्गादिरूपमिष्टं फलं विधेः, अनिष्टनिव
 
१. प्रतिपत्तेः इति क. । २. सम्भवति ।
 
तजस्ति नमस्तु ॥
 
३. निवर्तन । ४. वेह ।
 
1917
 
Research Institute
 
-