This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनीव्याख्यासंवलितः
 
नुबन्धित्वम् । तथा हि-यथा विधयः प्रवर्तनामभिद्धतः स्वप्रवर्तकत्व-
निर्वाहार्थं विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति,
एवं 'न कलक्षं भक्षयेत्' इत्यादयो निषेधा अपि निवर्तनामभिद्धतः स्वनि-
वर्तकत्वनिर्वाहाथ निषेध्यस्य कलञ्जभक्षणादेर नथं हेतुत्व माक्षिपन्तः पुरुषं
ततो निवर्तयन्ति ।
 
प्रमाणान्तरानवगत मेवावबोध्य तत्र प्रवर्तयति पुरुषम्, एवं कलजभक्षणादौ दुःखजन-
कत्वं प्रमाणान्तरेणानवगतमवबोध्य पुरुषं ततो निवर्तयति निषेध इति पुरुषाभिलषित-
फलसम्पादकत्वाविशेषात् विधीनामिव निषेधानामपि पुरुषार्थानुबन्धित्वमिति भावः ।
तदेवोपपादयति — तथा होति । विधयः इति । " विधिनिमन्त्रणामन्त्रणाधीष्टस-
स्प्रश्नप्रार्थनेषु लिङ्" इति सूत्रे लिङादीनां प्रवर्तनायां शक्तिरित्यवधार्यते । प्रवर्त-
नात्वं च प्रवृत्त्यनुकूळव्यापारत्वम् । अनुकूलत्वम् चात्र प्रवृत्तिजनकीभूतेष्टसाघनताज्ञानज-
नकत्वम् । यथा हि लोके 'चैत्रः पचेत्' 'गामानये' त्यादिवाक्यश्रवणोत्तरं शाब्दबोचे जाते
लिङाद्यर्थस्य प्रवृत्त्यनुकूलव्यापारस्येच्छारूपत्वेऽवगते वचनेङ्गितादिना च प्रयोक्तृपुरुष-
स्यातत्वेऽवगते श्रयमत्र प्रवर्ततामित्याकारका सेच्छाविषयी भूत कृतिविषयत्वरूपं हेतुज्ञानं
मानसं जायते, तेन च हेतुना पाकादाविष्टसाधनत्वानुमितिर्जायते, एवं वेदेऽपि लिङादिश्रव-
गोत्तरं प्रवर्तनाविषयकशाब्दबोधे जाते तत्र च पुरुषसम्बन्धाभावात् लिङा दिनिष्ठत्वेऽव-
गते भ्रमाद्यसम्बन्धाच्चानाप्तभिन्नत्वेऽवगते यागादिविषयक कृतिसम्बन्धाच्च 'यागेऽयं प्रवर्त-
ता'मित्याकारकत्वेऽवगते यागादौ 'अयमत्र प्रवर्तता'मित्याकारकव्यापारविषयीभूतकृति-
विषयत्वज्ञानं मानसं जायते । ततश्च यागादाविष्टसावनत्वमनुमीयते । अनुमानप्रकारश्चे-
स्थम्-यागो मदिष्टसाधनम्, यमन प्रवर्ततामित्याकारकव्यापारविषयीभूतकृतिविषयध्वात्,
यथा गवानयम्, इति ।
 
एवं निषेधवाक्येष्वपि निवर्तनाभिधीयते । निवर्तनाच निवृत्त्यनुकूलो व्यापारः,
अनुकूलत्वं चात्र न पूर्ववत् निवृत्तिजनकीभूतानिष्ठसाधनताज्ञानजनकत्वरूपम्, प्रवृत्ति-
प्रागभावरूपायाः तस्याः जन्यत्वासम्भवात् । किन्तु प्रवृत्ति सामग्री विघटकत्वमेव । निषेध-
वाक्यभवणोत्तरं हि निवर्तनाविषयकशाब्दबोधे जाते तस्याः श्रयमस्मान्निवर्ततामित्याकार•
कत्वे लिंबादिनिष्ठत्वादौ च पूर्ववदेवावगते कलञ्जभक्षणं मदनिष्टसाधनं, श्रयमस्मा-
न्निवर्तता मित्याकारकव्यापारविषयाभावप्रतियोगिकृतिविषयत्वात् इत्यनुमितिर्जायते ।
तया चानुमित्या कलजभक्षणादौ पूर्वोत्पन्ना बलवदनिष्ठाननुबन्धित्वरूपा प्रवृत्तिसामग्री विध-
टथते । तद्विघटनाच्च प्रवृत्तिकारणाभावात् पुरुषो न प्रवर्तत इति । तदेतत् सर्व मनसि
निघायाह
– प्रवर्तनामधिद्धत इत्यादिना । आक्षिपन्तः अनुमापयन्तः । अनर्थहे-
तुत्वं बलवदनिष्टाननुबन्धित्वम् । ततः अनिष्टजनकात् कर्मणः ।
 
>
 
सर्वत्र हि लिङघटितवाक्यस्यैव नज्युक्तत्वे निषेधपदेन व्यवहारः। लिङध प्रवर्त-
नायामेव शक्तिरनुशासनसिद्धा, न निवर्तनायामपि । नञश्चाभावे शक्तिः । तस्य च येन
सह सम्बन्धः तदभावबोधकत्वं प्रसिद्धम् । अतश्च यदि स घात्वथन सम्बंधनीयात् तदा
तदभावं बोधयेत्, तस्य च धात्वर्थस्य लिङर्थेनान्वये घात्वर्थवर्जन कर्तव्यतैव प्रतौयेत ।
 
Irkar
Research Institute