This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
१५५
 
योऽष्टाकपालः सौम्यश्चर" रित्यादिवाक्यैन्वैश्वदे' यामिक्षे' (१)ति वाक्यस्य
प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक
लिपतयागविधानमन्त्र च द्रव्यमात्रविधानमिति वैरूप्यं प्रसज्येत ।
 
किञ्च 'वैश्वदेवेन यजेते'त्यत्र वैश्वदेवशब्दस्य देवतासमर्पकत्वे 'यद्वि-
श्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम्' इत्येतस्यार्थवादस्या-
त्यन्तमेव निरालम्बन (२) त्वं स्यात् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वदेव-
कर्तृकत्वेन कर्मणि प्रवृत्त इति ज्ञायते । (३) तत् देवतासमर्पकत्वे विरुध्यते ।
 
किञ्च 'वैश्वदेवेन यजेते'त्यस्य यागविधित्वे श्रामिक्षाया नोत्प-
त्तिशिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति उभ
योरपि श्रमिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथा च विकल्पः ।
 
ह्वादिपदान्तरस्यैवोद्देश्यसमर्पकत्वस्य शतशोऽङ्गीकरणवत् प्रकृतेपि श्रामिक्षापदस्यैव तद.
जीक्रियताम् । सति चैवं नैकप्रसरताविरोधः, नापि यजिकल्पना गौरवमित्यत श्राह- एव
ञ्चेति । 'आग्नेयोऽष्टाकपाल' इत्यादीनि हि वाक्यानि यागविघायकानि । तेषां
मध्ये वैश्वदेव्यामिक्षेति पठितम् । यदि स्यापि वाक्यस्य कर्मविधायकत्वमङ्गी क्रियेत
तदानीमेव तन्मध्यपाठस्सङ्गतो भवतीत्यर्थः । प्रायपाठः सहचरितपाठः । यागविधाय-
कवाक्यमध्ये पठितस्य वाक्यस्य यागविधायकत्वस्यैवोचितत्वात् । तदभावे दोषमाह -
अन्यथेति । अत्र सर्वत्रापि प्रथमान्तपदश्रवणात् यागवाचकपदाश्रवणाच्च द्रव्यदेवता-
सम्बन्धान्यथानुपपत्त्यैव यागस्य कल्पनीयत्वात् तद्शापनार्थ द्रव्यदेवतासम्बन्धेत्याद्यतम् ।
इँदं च मैत्रायणीयशाखामनुसृत्योक्तम् । तत्रैव प्रथमान्तपाठस्य श्रवणात् । यदा तु तैत्ति-
रीयशाखास्थः पाठ आद्रियते तत्र द्वितीयान्तपाठस्यैव श्रवणात् तदा पूर्वोत्तमास्मकीनं
समाधानं बोध्यम् ।
 
नन्वयं प्रायपाठोऽकिञ्चित्करः । श्रारादुपकारक प्रयाजचतुष्टयप्राये पठितस्यापि पञ्चम-
प्रयाजस्य सन्निपत्योपकारकत्वाङ्गीकरणात आहवनीया द्यग्निसम्पादकगुण कर्मभूत ब्राह्म-
दि त्रैवर्णिक कर्तृकाघानप्राये पठितस्यापि रथकाराधान स्वार्थ कर्मत्वाङ्गीकरणात् । अतो
यजिकल्पनापरिहारार्थ एकप्रसरताभङ्गपरिहारार्थं च गुणविधित्वमेवाङ्गीक्रियता
मित्यत
आह - किञ्चेति । निरालम्बनत्वमिति । निर्विषयत्वमित्यर्थः ।
 
-
 
P
 
ननु देवतानां (४) विश्रादिपञ्चकस्य नवमे निराकृतत्वात् षष्ठे तिर्यगधिकरणे
च तासौ कर्मण्यधिकाराभावस्य साधितत्वात् अर्थवादस्यास्य यथाकथञ्चित् स्तुतिमात्रपर-
त्वेनाप्युपपत्तौ न देवताविधिप्रतिबन्धकत्वं भवितुमर्हतीत्यत श्राह - किश्चेति । उत्पत्ति-
शिष्टत्वाभावे दोषमाह -तथा चेति । तया श्रमिक्षया । शक्यत इति । तुल्यबलयोः
परस्परं श्रात्यन्तिकबाघासम्भवादिति भावः । यागाङ्गत्वमिति । वैश्वदेववाक्यविहि-
तयागाङ्गत्वमित्यर्थः । अस्तु तथैव, का हानिरिति चेत् ? यथेवं तर्हि "एकार्थास्तु-
FOUNDED
1917
 
१. इत्यस्य इति क. २. निरालम्बः स्यात् इति क. ३. 'तद्देवता समर्पकत्वेन
४. विग्रहो इविषां भोग ऐश्वर्यच प्रसन्नता । फलप्रदान मिस्येतत् पञ्चकं विग्रहादिकम् ॥
 
लावधीतमस्तु
 
kar Oriental
 
Institute