This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ नामधेय-
किञ्च वैश्वदेवीशब्दों देवतातद्धितत्वादामिक्षां(१) तत्वेन ब्रत इत्युक्तम् ।
तत्र विश्वदेवानुवादेन द्रव्यविधानं वैश्वदेवीशब्देनैव कर्तव्यं, पदश्रुतेः । यथा
भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः, न तूपपदेनेत्युक्तं भावार्था.
धिकरणे तद्वत् । तत्र च "वषट्कर्तुः प्रथमभक्ष" इतिवदेकप्रसरताविरोधः ।
अतो यागानुवादेनापि (२) द्रव्यविधानार्थं 'वैश्वदेव्यामिक्षे'त्यत्र यजिकल्पनं
तावदवश्यं कर्त्तव्यम् ।
 
(३) अतश्च पशुसमाधिकरणन्यायवैषम्यम्। 'ऐन्द्रवायवं गृह्णाती'त्यत्र
देवताविशिष्टग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने च 'वैश्वदेव्यामिक्षे-
त्यत्रैव द्रव्यदेवता विशिष्टकर्मविधानं युक्तम्, रूपद्वयश्रवणात् । एवञ्च "आाग्ने
 
प्यापतेत् । अतश्च यथैव तत्र द्वाभ्यां बहुभिर्वा पशुभिः यागकरणापत्तिः तद्वदत्रापि येन
केनापि द्रव्येण यागानुष्ठानापत्तिरित्यपि हृदयम् ।
 
ननु देवतोद्देशेन द्रव्यविधानेपि एतद्वाक्यबोधितस्य सम्बन्धस्य
'न क्रियागर्भसम्बन्धादृते सम्बन्धनं क्वचित्'
 

 
इति न्यायेन क्रियाघटितत्वात् तादृश्याश्च देवतासम्बन्धनघटनसमर्थायाः यागादृतेऽ..
सम्भवात् यागापेक्षायां वैश्वदेववाक्यविहितस्योपस्थितस्यान्वयात् तत्रैव द्रव्यविधानस्य
पर्यवसानात् सिध्यस्येव यागसम्बन्ध इत्यत श्राह-किञ्चेति । तत्वेनेति । देवताविशि-
ष्टद्रव्यत्वेनेत्यर्थः ।
 
0
 
1973
 
"नैव हि द्रव्यमात्रस्य तद्धितैर्देवतोच्यते ।
अस्य शब्दाभिधेयस्य विशेषस्यैव सा स्मृता"
इति न्यायेन द्रव्यविशेषस्यैव तद्धितेनोकत्वात् । अत एव च -
"श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः"
इति, पूर्वमुक्तमिति भावः । अस्तु, तावता किमायातम् १ त श्राह-तत्रेति ।
वैश्वदेवीति । प्रकृत्यंशेन देवतामनूद्य प्रत्ययांशेन द्रव्यं विधेयमिति भावः । अस्त्वेवं,
को दोषः ? श्रत ग्राह-तंत्रेति । न हि यजेतेत्यादौ प्रत्ययार्थभावनोद्देशेन प्रकृत्यर्थया-
गविधानम्, येन सत्राप्येक प्रसरताभङ्ग श्राशङ्क्येत, किन्तु प्राप्तभावनाविशिष्टयागविधा-
नमेव । प्रकृते तु देवतायाः प्राप्तत्वेन विधनासम्भवात् तदनुवादेनैव द्रव्यविध्यवश्यंभावेन
न एकप्रसरताविरोधदोषात् विमुक्तिरिति भावः । प्रतश्च वैयर्थ्यपरिहारार्थं यागोद्देशेनैव
द्रव्यविधेरवश्याङ्गीकरणीयत्वेन तदर्थे यजिकल्पनमावश्यक मेवेत्याह-अत इति । यागा.
नुवादेनापीत्य पिशब्दः एवकारार्थकः । यागानुवादेनैव द्रव्यं विधातव्यम् । तदर्थं च यजि
कल्पनमावश्यकमेवेत्यर्थः । अथवा अपिशब्दो भिन्नक्रमः । द्रव्यविधानार्थमित्यत्रान्वेति ।
 
कल्पिते च यजिपदे तत्रैव यागविधिरङ्गीक्रियताम् । किमर्थं वैश्वदेववाक्ये विशिष्ट
विध्यङ्गीकरणरूपं गौरवमाश्रीयते इत्याह - यजिकल्पने चेति । रूपद्वयश्रवणादिति ।
द्रव्यस्य देवतायाश्च श्रवणादित्यर्थः । ननु "यस्य पर्णमयी जुहूर्भवती" त्यादौ तद्धि-
तस्य द्रव्यविशेषवाचित्वेऽपि एकप्रसरताभङ्गपरिहारार्थ विशेषसमर्पकस्य समभिव्याहृतजु-
१. 'आमिक्षान्तर्गतत्वेन बू०; अमिक्षान्तर्गतार्थः । २. क़पुस्तके अपिर्नास्ति
 
1917
 
। ततः ।

 
Bhandarkar Oriental,
Research
 
6