This page has not been fully proofread.

निरूपणम् 1
 
सार विवेचिनोव्याख्यासंवलितः
 
१५३
 
ननु पशुसोमाधिकरणे "ऐन्द्रवायवं गृह्णाती" त्यादौ न यजिकल्पनम्,
'सोमेन यजेतेति प्रत्यक्षयजिश्रुतेरित्युक्तम् । तेन न्यायेन 'वैश्वदेव्यामिक्षे'
त्यत्रापि यजिकल्पनं मास्तु, 'वैश्वदेवेन यजेते'त्यत्र प्रत्यक्षयजिश्रुतेः । एवं
चानेनैव वाक्येन देवताविशिष्टकर्मविधानमस्तु । तस्य च द्रव्याकाङ्क्षायां
'वैश्वदेव्यामिक्षे'ति द्रव्यविधानमस्तु । एवं च न वाक्यद्वयस्थाऽप्यनुवाद-
त्वम् । ना'प्यष्टौ हवींषो' त्यनन्यगतिकलिङ्गविरोधो भवेदिति चेत्-
मैवम्; "वैश्वदेव्यामिक्षे"त्यत्र यज्य कल्पने आमिक्षा किमनुवादेन विधी-
यत इति वक्तव्यम् । विश्वदेवानुवादेन द्रव्यविधाने द्रव्यस्य देवताङ्गत्वमेव
स्यात्, न यागाङ्गत्वम् ।
 
मेवाशङ्कां करोति नन्विति । न यजिकल्पनं न यागकल्पनम् । 'गृह्णाति' इत्यस्य न
यागलक्षकत्व कल्पनमिति यावत् । "अग्नीषोमीयं पशुमालभेत' इति पशुयाग विधायकं
"सोमेन यजेत" इति सोमयागविधायकं वाक्यचोदाहृत्य "द्रव्यसंयोगाच्चोदना
पशुसोमयोंः" इत्यादिभिः सूत्रैयंत्र विचारः कृतः तदधिकरणं पशुसोमाधिकरणम् । तत्र
हि "हृदयस्याग्रे ऽवद्यत्यथ जिह्वाया अथ वक्षसः" इति श्रुतेषु वाक्येषु यागवाचक-
पदाश्रवणेऽपि तरकल्पयित्वा यागविधानमङ्गीकृत्य तद्वाक्यविहितानां च यागानां "अग्नी-
षोमीयं पशुमालभेत" इत्यनेनानुवादः १ उत अग्नीषोमीयवाक्य एव यागविधानम् १
हृदयादिवाक्यैश्च तद्यागीयहवरूपहृदयाद्यद्देशेन अवदानसंस्कारमात्रविधानम् । एवं
सोमयागप्रकरणे श्रुतानां "ऐन्द्रवायवं गृह्णाति" "मैत्रावरुणं गृह्णाति" "आश्विनं
गृह्णाती"त्यादिवाक्येषु यज्यश्रवणेऽपि यागवाचकंपदं कल्पयित्वा तत्रैव यागा विघीयन्ते
तेषामेव च "सोमेन यजेते"त्यनुवादः, अथ वा 'सोमेन यजेते'त्यत्रैव यागविधानम्,
ऐन्द्रवायवादिवाक्येषु तु यागीयद्रव्य रूपसोमरसस्य ग्रहणाख्यसंस्कार विधानमिति सन्दिय
हृदयादिवाक्ये ऐन्द्रवायवादिवाक्ये च यजेरश्रवणात् सोमेन यजेतेत्यादौ च प्रत्यक्ष-
तस्तच्छ्रवणात् पशुसोमवाक्ययोरेव यागविधानम् । हृदयादिवाक्येषु तु संस्कारमात्र•
विधानमिति सिद्धान्तितम्, तन्न्यायमत्रातिदिशति-तेन न्यायेनेति । द्रव्यविधान-
मिति । वैश्वदेवीशब्देन यागमनूद्यामिक्षाशब्देन द्रव्यविधानमित्याशयः । एवञ्च वैश्व-
देववाक्ये विशिष्टकमविधानात् न तस्यानर्थक्यम् । गुणविधानाञ्च नामिक्षावाक्यस्यापीत्यु-
भयोपपत्तिरित्यर्थः । वाक्यद्वयस्य वैश्वदेववाक्यस्य, श्रमिक्षावाक्यस्य च ।
 
एवमाशङ्किते पशुसोमाधिकरणवैषम्यं प्रदर्शयन् अत्र गुण विध्य सम्भवं प्रदर्शयति-
वैश्वदेवीति । किमनुवादेनेति । किमुद्दिश्येत्यर्थः । "वैश्वदेव्यामिक्षा" इत्यत्र
पदद्वयसत्वेन वैश्वदेवीशब्देन देवतामुद्दिश्यामिक्षापदेन द्रव्यविधिरिति ययुच्येत तदानीं
दोषमाह - द्रव्यस्येति । न यागाङ्गत्वमिति । सर्वत्र विधिप्रत्ययमन्तरा नोद्देश्यविधेय-
वाचकपदद्वयश्रवणमात्रेण विधेयत्वमुद्देश्यत्वं वा सम्भवताति प्रकृताप तस्यावश्यंभावे
केवलस्य प्रत्ययस्य प्रयोगानई
वेन कस्यचित घातोरपि प्रयोगो यद्यप्यावश्यकः तथापि
प्रत्ययार्थाविरोधी यः कश्चित् घातुः प्रयुज्यताम्, नैतावता यजिकल्पनं सिध्यतीत्याशयः ।
यथा पश्वेकत्वाधिकरणपूर्वपचे एकस्वस्य पश्वङ्गत्वेन यागावस्वासम्भव उक्तः तद्वदत्रा-
२० मो० न्या०
 
1917
 
Oriental
Ins