This page has not been fully proofread.

१५२
 
भोमसान्यायप्रकाशः
 
[ नामधेय-
प्रकृतेऽपि द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणाभावात् । अत एव वैश्वदेवा.
धिकरणे वार्तिककारैरेवमुपसंहृतम्-'तत्प्रख्यतयैव सर्वेषां नामधेयत्वम्' इति ।
यच्चोत्पत्तिशिष्टगुण बलीयस्त्वमुक्तं तत् गुणविध्यसंभवे युक्त्यभ्युच्चयमात्रम् ।
तत्सिद्धं तत्प्रख्यशास्त्रादेव (१) वैश्वदेवशब्दस्य कर्मनामधेयत्वमिति ।
 
दयोऽपि शब्दा द्रष्टव्याः। एवञ्च नेनार्थवा देनावगतं ज्योतिस्सम्बन्धमादायैव यथा ज्योति-
अष्टोमशब्दस्य कर्मनामधेयत्वमुररीकृतं एवं प्रकृते ऽप्यर्थवादावगतं विश्वदेवसम्बन्धमादा.
यैव तत्प्रख्यन्यायेन नामत्वोपपत्तौ प्रकारान्तरकल्पनं नोपपत्तिमदित्याइ- एवमिति । अत्र
वार्तिककारसम्मतिमाह-अत एवेति । तत्प्रख्यतयेति । तत्प्रख्यन्यायेनैव वैश्वदेव-
शब्दस्याग्नेयादि सर्वयागनामधेयत्वमित्यर्थः । तत्प्रख्यतयैवेत्येवकारः प्रकारान्तर.
 
व्यावर्तकः । एवञ्च यत्र यत्र नामधेयत्वं वक्तव्यं तत्र सर्वत्र एतच्चतुष्टयान्यतमेनैव केन
चित् प्रकारेण तत् वक्तव्यम्, न स्वतिरिक्त प्रकाराश्रयणं युक्तमिति वार्तिकाशय इति भावः।
यद्येवं तर्हि किमर्थमेतदधिकरणसिद्धान्तारम्भे वार्तिकका रैः "श्रग्त्यादयो ही"त्यादिना
उत्पत्तिशिष्टगुणस्य बलीयस्त्वमुपपादितम् ? तत्राह-तदिति ।
 
ननु 'वैश्वदेवेन यजेते' त्यत्र देवताविशिष्टकर्मविधानमङ्गीकृत्य तादृशकमद्दे
शेन "वैश्वदेव्यामिक्षा" इति वाक्यॆन गुणविधिरङ्गीक्रियते । तदा च न कस्याप्यान
थंक्यम् । इविष्षु च संख्यावृद्धेरभावात् ना"ष्टी हवींषो"ति लिङ्गविरोधः । श्रुतश्च
किमर्थ वैश्वदेवशब्दस्य कर्मनामधेयत्वमङ्गीक्रियत इतीमामाशङ्कां पूर्वस्मिन् पचे गूढा-
भिसन्धितो निराकृतामपि गृहीताशयो यथाश्रुतग्राही पशुसोमाधिकरणदृष्टान्तेन पुनस्ता;
सुतमिति चतुर्थम् । तान्येतानि प्रातस्सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ।
तन्निवंचनं च श्रयये – "यदाजिमीयुस्तदाज्यानामाज्यस्वमि"ति । तेष्वाज्यस्तोत्रेषु पञ्चदशनामक.
स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते-"पञ्चभ्यो हिंकरोंति स तिसृभिः स एकया स
एकया, पञ्चभ्यो ड्रिंकरोति स एकया स तिसृभिः स एकया, पञ्चभ्यो दिकरोति स एकया स एकया
स तिसृभि"रिति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचलिरभ्यासः, द्वितीयावृत्तौ
मध्यमायाः, तृतीयावृत्त वुत्तमाया: । सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तरा.
ग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वं च चत्वारि सुक्तान्याम्नातानि । तेषु "अभि त्वा
शूर नोनुम" इत्याद्यम्, "कयानश्चित्र आभुवदि" ति द्वितीयम्। "तँ वो दस्म मृतीषहमि" ति तृतीयम् ।
"तरोभिवों विदद्वसुमिति चतुर्थम् । एतानि क्रमेण रथन्तरवामदॆव्यनौध सकालेय साम मिर्माध्यन्दिन-
सवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "स्पर्शनात्पृष्ठानि" इत्येवं निरुक्तिर्दृष्टव्या । तेषु स्तोत्रेषु
सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टतिरेवमाम्नायते-"पञ्चभ्यो हिकरोति स तिसृभिः स एकया स
एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः स
विसृभिरि"ति । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः, तृतीयावृत्तौ
मध्यमोत्तमयोः । सोऽयं सप्तदशस्तोमः ॥ अग्निष्टोमे चैकविंशतिस्स्तोमः । एकविंशस्तोमस्य विष्टतिरेक-
माग्नाता - "सप्तभ्यो हिंकरोति स तिसृभिस्स तिसृमिस्स एकया, सप्तभ्यो हिंकरोति स एकया स तिसृभिः
स्त तिसृभिः, सप्तभ्यो हिंकरोति स तिसृभिस्स एकया स तिसृभिः" इति । अत्र प्रथमावृत्तौ प्रथमायास्तृ-
चः द्वितीयायाश्च । वारत्रयमावृत्तिः, तृतीयायास्सकृत् । द्वितीया वृत्तौ प्रथमायास्सकृत् द्वितीय तृतीययो स्त्रि-
स्त्रिः । तृतीयावृत्तौ प्रथमातृतीययोनिस्त्रिरावृत्तिः मध्यमायाश्च सकृत् ॥ एत एव त्रिवृदादयस्तोमा उच्यन्ते ।
१. तत्प्रख्यतयैव इति. क.
 
-
 
"
 
CES 21 TO
 
STITUPR
 
POONA
 
Bhandarkar Oriental
Research Institute
 
.