2023-02-15 04:03:51 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनी व्याख्यासंवलितः
चेत् संबन्धः शास्त्रान्तरप्रतिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्य-
शास्त्रात् । तच्च शास्त्रान्तरं विधिर्वा अर्थवादो वेत्यत्राऽनादरः । तत्राग्निहोत्र
शब्देऽग्निसंबन्धबोधक शास्त्रान्तरं विधिरेव । वैश्वदेवशब्दश्च विश्वदेव-
संबन्धं कर्मणि बोधयति । विश्वदेवसंबन्धश्चाऽष्टसु यागेषु "यद्विश्वेदेवा-
इसमयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्" इत्यर्थवादावगतः ।
न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किञ्चित् प्रमाणमस्ति ।
अत एव "ज्योतिष्टोमेन स्वर्गकामो यजेते" त्यत्र ज्योतिष्टोमशब्दः "एतानि
वाव तानि ज्योतींषि य एतस्य स्तोमाः" इत्यर्थवादावगतं ज्योतिस्सम्बन्धं
निमित्तीकृत्य सोमयागे प्रवर्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं
प्रेतश्शब्दो विवक्षितः । यद्गुणेति कर्मधारयः । तन्नामधेयत्वं तादृशकर्मनामधेयत्वम् ।
अनादर इति । एवञ्च प्रापकेण विधिनैव भाव्यमित्यभिमन्वानेन भवता तदर्थं प्रमाणासि-
द्धपञ्चमत्रकाराङ्गीकरणं व्यर्थमेवेति भावः । विधिरेवेति । यद्यप्येतन्मते मन्त्रवर्णस्य तत्र
देवतासमर्पकत्वं तथापि तन्मतानुसारेणेदमुक्तम् । यद्विश्वेदेवा इति । यस्मात् विश्वे
देवा यागाष्टकमिदमन्वतिष्ठन् तस्मात् विश्वदेवकृतत्वात् श्राग्नेयादियागाष्टकस्य वैश्त्र-
देवशब्दवाच्यत्वमिति वाक्यार्थः ।
अत एव अर्थवादस्य तत्प्रख्यशास्त्रत्वाभावे प्रमाणाभावादेव । ज्योतिष्टोमशब्द
इति नामधेयं भवतीत्यनेन सम्बध्यते । एतानीति । तैत्तिरीयब्राह्मणे पञ्चमप्रपाठके ज्योति-
ष्टोमनामनिर्वचनावसरे-"यदाहुः । कतमानि तानि ज्योतीvषि । य एतस्य
स्तोमा इति" इति प्रश्नमुपक्षिप्य अनन्तरं "त्रिवृत् पञ्चदशस्वप्तदश एकविंशः ।
एतानि वाव तानि ज्योंतोषि । य एतस्य स्तोमाः" इति समाहितम् । ब्रह्मवा-
दिनः एवं पृच्छन्ति - ये प्रकृतस्य यज्ञस्य स्तोमा भवन्ति कानि तानि ज्योतिः पदवाच्या नीति
प्रश्नार्थः । ये त्रिवृदादयः स्तोत्रसंख्या विशेषाः ज्योतिः पदवाच्याः त एवास्य स्तोमा इत्यु-
तरवाक्यार्थः । स्तोत्रसाघनीभूतस्तोत्रीयानवकं (१) त्रिच्छब्देनाभिधीयते । एवं पञ्चदशा-
१. त्रिवृदादिपदानामर्थनिर्णयश्चेत्थम् – ज्योतिष्टोमे सन्ति द्वादशस्तोत्राणि — बहिष्पवमानमेकम्,
चत्वार्याज्चस्तोत्राणि, माध्यन्दिनपवमानमेकम्, चत्वारि पृष्ठानि, भार्भवपवमान मेकम्, यज्ञायज्ञीय मेक-
मितिं । स्तोत्रं नाम प्रगीत मन्त्र साध्य गुणिनिष्ठगुणाभिधानम् । तदिदं स्तोत्रं सदोनाममण्डपे औदुम्ब
र्याख्यस्थूणासमीपे उपविष्टैरुद्गातृप्रस्तोतृप्रतिहर्त्राख्यैस्त्रिभिः ऋत्विग्भिः कर्तव्यत्वेन विहितम् । तत्रै-
कैकस्य स्तोत्रस्य "एक साम तृचे क्रियते स्तोत्रीय" मिति विधिबलात्तिसृषु ऋतु एकं साम गातव्यं भवति ।
तत्र च त्रिवृत्,पञ्चदशः, सप्तदशः, एक विंशः, त्रिणवः, त्रयस्त्रिंशः,
चतुर्विंशः, चतुश्चत्वारिंशः, श्रष्टाचत्वारिश
इति नव प्रकारास्सँख्या विशेषा उक्ताः । इम एव संख्याविशेषाः स्तोमशब्देनाऽभिधीयन्ते । तत्र बहिष्पव-
मानाख्यं स्तोत्रं पर "बहिष्पवमानं सर्पन्ती" ति विधिना सदसो बहिः चास्वालदेशं प्रति प्रसर्पणानन्तरं
कर्तव्यत्वेन विहितम् । अतरवास्य स्तोत्रस्य बहिस्सँबन्धात् पवमानक्रियाकर्तृप्रकाश कमन्त्रघटितत्वाचव
बहिष्पवमानमिति संज्ञा । तथा च बहिष्पवमानाख्यं स्तोत्रं त्रिवृत्स्तोमकं कर्तव्यमिति वाक्यार्थः पर्यव
-सन्नः ॥ त्रिवृत् नवसंख्योच्यते । तत्राम्नातानां नवानामृचां यथाम्नानं सकृद्वायेत् । स त्रिवृत् सोमः ।
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वं चत्वारिसूक्तान्याम्नातानि-अन्न आयाहि वीतय इत्याचं
सूक्तम्, श्र। नो मित्रावरुणेति द्वितीयम्, श्रया हि सुषुमाहिते इति तृतीयम्, इन्द्रामी भागतं
नाव
Bha