This page has not been fully proofread.

१५०
 
मीमांसान्यायप्रकाशः
 
[ नामधेय-
गानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभिरेव निवृत्तेति न तत्र विश्वदेव-
विधानं युक्तम् । मतश्चोत्पत्तिशिष्ट गुणबलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनाम-
धेयत्वम् । यथाहुः—'
 
गुणान्तरावरुद्धत्वान्नाऽवकाश्यो गुणोऽपरः ।
 
विकल्पोऽपि न वैषम्यात्तस्मान्न । मैव युज्यते ॥ इति ॥
(पञ्चमप्रकारखण्डनम् )
 
अन्ये त्वाचार्या आहुः - यः शब्दो यत्र कर्मणि यद्गुण संबन्धं बोधयति स
देवता विधातुं शक्यते । यदा तु स्ववाक्य एव स्वेनैव सह देवता विधीयते तदा कर्मणः
उत्पत्तिदशायामेव आकांक्षायाश्शान्तत्वात् निराकांक्षितविधानस्यासम्भवात् पुनस्तत्र
देवताविधानस्यैवासम्भवे समुच्चयविकल्पयोर्दूरापास्तत्वादिति भावः । तत्र तेषु यागेषु ।
 
-
 
-
 
ननु "तस्मादेकदेशस्थैरपि विश्वदेवैरुपलक्षितानां छत्रिन्यायेन तत्प्र-
ख्यन्यायतयैव नामधेयत्व" मिति वार्तिकपर्यालोचनया तत्प्रख्यशास्त्रस्यैवात्र निमि-
तत्वावगमात् कथं तत् परित्यज्य निमित्तान्तरमाश्रितमित्याशङ्कां, नेदं बार्तिकमत्र तत्प्र-
ख्यन्यायस्य निमित्तत्वकथनाभिप्रायकम्, किन्तु अस्मिन्नधिकरणे उत्पत्तिशिष्टगुणबलीय-
स्त्वस्य गुणविष्यसम्भवात् नामधेयत्वं प्रति निमित्तत्वे साघिते तत्र प्रवृत्तिनिमित्तमात्र-
प्रदर्शनपरम्, अत एव वातिंककारैः एतदधिकरणसिद्धान्तारम्भे उत्पत्तिशिष्टगुणबलीय-
स्त्वस्यैवं नामधेये निमित्तत्वं श्लोकेनोक्तमिति समाधानं च मनसि निधाय तदभिव्यञ्जकं
तदयविमेव श्लोकं पठति-गुणेति । आग्नेयादीनां कर्मणां स्वस्वोत्पत्तिवाक्यविहितैः अग्न्या
दिभिर्व्याप्तत्वात् तत्र विश्वदेवदेवतारूपो गुणो नावकाशमर्हतीत्यर्थ: । नन्वत्राग्न्यादीना-
मिव विश्वेषां देवानामपि वाक्येन प्रतिपञ्चत्वेनोभयोर्देवतयोस्तुल्यबलत्वात् कथं न
विकल्पः ? इत्याशङ्कयामाह - विकल्पोऽपीति । तत्र कारणमाह – वैषम्यादिति ।
विषमशिष्टत्वादित्यर्थः । श्रग्न्यादीनां तद्धितश्रुतिबोधितत्वात् विश्वेषां देवानां तु वाक्यग-
म्यत्वादिति यावत् । इदमाकूतम्-'आग्नेयमष्टाकपाल 'मित्यादौ आग्नेयादिपदानां
ष्टकपाल पदरूपद्रव्यवाचकपदसामानाधिकरण्यदर्शनात् तद्धटकतद्धितस्य "सास्य
देवता" इत्यधिकारे विहितस्य अग्न्यादिनिष्ठदेवतात्वप्रतिपादकत्वावगतेः ससम्बन्धिनः
प्रति सम्बन्धिममपेक्ष्यैव प्रवृत्तेः यागस्य च सम्बन्धापादकत्वेन प्रतिसम्बन्धित्वाभावात् द्रव्य-
स्यैव प्रतिसम्बन्धित्वावगतेः तस्य च द्रव्यविशेषस्य तद्धितोपात्तत्वेनैकपदरूपश्रुतिगम्यत्वात्
प्रावल्यम् । "वैश्वदेवेन यजेते"त्यत्र तु द्रव्यवाचकपदाश्रवणात् यजिसामानाधिकरण्य
दर्शनाच्च तद्धटकतद्धितेन यागस्यैवोक्तत्वात् तेन च स्वसम्बन्धिद्रव्यलक्षणात् स्वलक्षित-
द्रव्यद्वारैव यागे देवतासम्बन्धस्य वक्तव्यतया वाक्यप्रमाणगस्यत्वात् ततो दौर्बल्यम्। श्रतो
न तुल्यबलत्वात् विकल्प इति । यद्येवं तर्हि किमत्र युक्तम् ? तदाह -तस्मादिति । देव-
तारूपगुणस्य पूर्वकर्मसु विकल्पेन समुच्चयेन वा निवेशासम्भवेन, वैयर्थ्यापादनस्यानुचि-
तत्वाच्चेत्यर्थः । नामैंव आग्नेयादियागाष्टकना मत्वमेव ।
 
NSTITUTE
 
( पञ्चमप्रकारखण्डनम् )
 
एवं न्यायसुषाकृदादिमतमुपपाद्य तत्प्रख्यन्यायेनैवात्रापि नामधेयत्वमभिप्रयतां पार्थ-
सारथिमिश्राणां मतमुपपादयति — अन्ये त्विति । यशशब्द इत्यनेन नामधेयत्वेनाभि-
-
 
Research Institute