This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनी
व्याख्यासंवलितः
 
श्रतश्च वैश्वदेवशब्दस्य नामधेयत्वे उक्तप्रकारचतुष्टय स्याऽनिमित्तत्वादुत्पत्ति-
शिष्टगुणबलीयस्त्वमेव निमित्तम् । तथा हि-
"वैश्वदेवेन यजेते"त्यत्र न तावदप्रकृतकर्मानुवादेन देवताविधानं संभ-
वति, तेषामशनुपस्थितेः ।
 
१४६
 
नापि देवताविशिष्टकर्मान्तर विधानं संभवति, गौरवापत्तेः । 'अष्टौ । हवीं-
षी'त्यनन्य गति कलिङ्गविरोधाच्च । मतोऽनेन प्रकृतकर्मानुवादेन देवता
विधीयत इति वक्तव्यम् । तत्रामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेष्वनेन
वाक्येन विश्वे देवा विधोयन्त इति वक्तव्यम् । न च तत्संभवति । तेषामुत्प-
त्तिशिष्टाग्भ्याद्यवरोधात् । आकाङ्क्षया हि संबन्धो भवति । आग्नेयादिया.
करणीयः, स चोत्पत्तिशिष्टगुण बलीयस्त्वरूप एवेत्याह- प्रतश्चेति । ननु वैश्वदेव-
शब्देन प्रकृतकर्मानुवादेन गुण विध्यसम्भवेऽपि यत्र कर्मणि देवता नोत्पत्तिशिष्टा तत्र
देवताविधिरस्तु, अथवा देवताविशिष्टकर्मान्तरविधिरेवास्तु । न च तदान हविर्नव का पत्त्या-
"श्रष्टौ हवींषी"ति लिङ्गविरोधः, अनेन वाक्येन देवताविशिष्टकर्मणि विहिते तदनुवा.
देन "वैश्वदेव्यामिक्षे"ति वाक्येन द्रव्यमात्र विधिसम्भवात्, अतः किमर्थं नामघेथत्वा-
श्रयणमित्याशङ्कच प्रथमं पक्षं निराकरोति-न तावदित । अनुपस्थितेरिति । उपस्था
पकप्रमाणानां प्रकरणादीनामभावात श्रुतस्य यजिपदस्य यागमात्र साधारण्येन यागविशे
षानुपस्थापकत्वाच्चेति भावः ।
 
अस्तु तर्हि द्वितीयः पक्षः, सोऽपि नेत्याइ-नापीति । गौरवापत्तेरिति । समु
दायानुवादमात्रेण लाघवे सम्भवति अतिदेशापादकस्य विशिष्टे विधिव्यापाराङ्गीकरणरू.
पगौरवस्य सहनं नोपपत्तिमदित्याशयः । नाप्यामिक्षावाक्येन गुणमात्रविधानं सम्भवति ।
तत्र हि यज्यश्रवणेन "आग्नेय मष्टाकपाल निर्वपति'' इत्यतो निर्वपतीत्यस्यैवानुषज-
नीयतया तत्र विशिष्टकर्मविधायकस्य तस्यात्र गुणमात्रविधायकत्वे वैरूप्यप्रसङ्गात् ।
अतश्च तत्परिहारार्थ मामिक्षावाक्येऽपि विशिष्टविध्यवश्यंभावेन वैश्वदेववाक्येऽपि विशिष्ट-
विधिस्वीकारे हविर्नवकापत्या "अष्टौ हवींषी"ति लिङ्गविरोधस्तदवस्थ एवेत्याह-श्रष्टा-
विति । वैश्वदेवपर्वप्रकरणे "नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीं-
षि । द्वावाघारौ । द्वावाज्यभागौ । त्रिशत् सम्पद्यन्ते" इत्युक्तम् । तत्र त्रिंशत्स
म्पत्तिबोधकेऽर्थवादे प्रधानहविषामष्टत्वं परिगणितम् । यदि वैश्वदेववाक्ये ऽपि प्रधानस्य
विधिः स्यात् तर्हि प्रधानविषां नवकापच्या 'अष्टौ हवींषी' स्यष्टत्वकथनं विरुध्येतेत्यर्थः ।
ननु तस्यार्थवादत्वादन्यथापि गतिर्भवितुमर्हतोत्यत श्रा- अनन्यगति केति । श्रत-
श्च वैश्वदेववाक्ये विशिष्ट कर्मविधानं, श्रामिक्षवाक्ये च गुणमात्र विधान मेत्यस्य पक्ष-
स्यासम्भवेन प्रकृतकर्मस्वामिक्षायागातिरिक्तेषु वैश्वदेववाक्येन देवताविध्यङ्गीकारे च
तत्राग्न्यादीनां विधानात् तत्रापि निवेशासम्भवेन च परिशेषात् नामस्वाङ्गीकरणमेव शरण-
मित्युपसंहरति—श्रत इत्यादिना । उत्पत्तिशिष्टदेवताकेऽपि कर्मणि पुनरानेनापि देवता-
विधानमस्तु । तस्याश्च देवतायाः अग्न्यादिभिस्सह विकल्पः समुच्चयो वा भगोरिवत्याशङ्का-
यामाह-माकांक्षयेति । सर्वत्र हि विहितस्य कर्मण देवताकांक्षायामेव वाक्यान्तरेण
 
1917
 
Resea