This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[ नामघैय-
वैयर्थ्यापत्तेः । वैश्वदेवेशब्दस्थामिक्षायागमात्रनामत्वे स एव यागोऽनेनानू-
द्यते इति वाच्यम् । न च तदनुवादेनाऽस्ति किंचित् कृत्यम् । "प्राचीनप्रवणे
वैश्वदेवेन यजेते"ति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्वाक्य-
मामिक्षायाग एव संबन्धोपपत्तः, विश्वदेवसम्बन्धात्तस्य ।
 
आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न 'वैश्वदेवेन यजेते ति वाक्यानर्थक्य-
म् । तदा ह्यनेनाष्टौ यागा मनूद्यन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात् समु
दितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति । एवं च 'प्राचीनप्रवणे
वैश्वदेवेन यजेते' त्यत्र वैश्वदेवशब्देनाष्टौ यागाननूद्य प्राचीनप्रवणविधानं तत्र
सिद्धं भवति । तद्वाक्यस्याऽसत्त्वे तु अनेन वाक्येनामिक्षायाग एव प्राचीन-
प्रवणदेशसंबन्धः स्यात् । मतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसंबन्ध एव
तद्वाक्य प्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नामधेयम् । न च तत्र तत्प्र-
ख्यशास्त्रं निमित्तं संभवति । सप्तसु विश्वदेवाप्राप्तेः । अतो न वैश्वदेवशब्दस्य
तरप्रख्यशास्त्रान्नामधेयत्वमिति ।
 
नापि (१) तद्व्यपदेशात् ।तादृशस्य व्यपदेशस्यानुपलम्भात् ।
क्यसम्भवात्,
अत ग्राह-वैश्वदेवशब्दस्येति । अनेन वैश्वदेवेन यजेते'ति वाक्येन
प्राचीनप्रवण इति । यत्र भूमौ प्राचीनो देशः प्रतीचीनापेक्षया निम्नो वर्तते तन वैश्व-
देवपर्वणा यजेतेत्यर्थः । विश्वदेवसम्बन्धादिति । उत्पत्तिवाक्य एवामिक्षायागस्य
विश्वदेवसम्बन्धावगतेः तमादायापि तत्र कालादिविध्युपपत्तेः नास्य विधेः किञ्चित्
प्रयोजनमस्तीति भावः ।
 
• सर्वेषां नामत्वे वा कथमानर्थंक्यपरिहारः १ तदाह - तदा होति । अनेन वैश्वदेवेन
यजेत इति वाक्येन । सिद्धं भवतीति । यथा विद्वद्वाक्याभ्यामनन्यप्रयोजनाभ्यां दर्श•
पूर्णमाससमुदायद्वयानुवादात् फलवाक्यगतेन दर्शपूर्णमासपदेन षण्णां यागानां ग्रहणं
तद्वत् श्रष्टानामप्यनन्यप्रयोजनेना नेनानुवादात् तेषां सर्वेषामेव देशविधौ ग्रहणं कालविधौ
च। तद्वारा "अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवती"ति वाक्येन सर्वे
षामाग्नेयादीनां फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव फलसम्बन्धापच्या आग्ने.
यादीनां तदङ्गता स्यात् । तदा च "अष्टौ हवींषी" त्यष्टानामपि प्रधानत्वेन सङ्कीर्तन-
मनुपनं स्थादिति भावः । अत्र च देशसम्बन्ध इत्युपलक्षणं वसन्तादिकाल सम्बन्धस्यापि ।
अतथ्य वैयर्थ्यपरिहारार्थ प्रकृतसंर्वयागना मत्वमेव युक्तं वैश्वदेवशब्दस्येत्याह-एव श्चेति ।
सर्वयागना मत्वे च श्रामिक्षायागातिरिक्तेषु प्रापकप्रमाणाभावात् न तत्प्रख्यन्यायस्सम्भ-
वतीत्युपसंहरति-श्रत इति । प्राचीनप्रवण इति । यस्य देशस्य प्राग्भागः निम्नतरः
पश्चिमभागापेक्षया स देशः प्राचीनप्रवणः इति पूर्वमुक्तम् । श्रष्टानां आग्नेयादिद्यावा.
पृथिव्यान्तानाम् । तत्र यागाष्टकनामत्वे ।
 

 
INSTITUT
 
POONA
 
चतुर्थप्रकारस्याप्यसम्भवमाह-नापीति । तादृशस्य विश्वदेवगतोपमानबोधकस्य ।
एवञ्च पूर्वोकप्रकार चतुष्टयस्यात्र निमित्तत्वानुपपत्तेः अगत्या पञ्चमप्रकार एवं कश्चिदशी-
१. श्ये नवन्नामत्वम् ।
 
1917
 
Research Institute