This page has not been fully proofread.

व्याख्यातुर्निवेदनम् ।
 
अथेदानीमयमापदेवकृतो न्यायप्रकाशाख्यो मीमांसा प्रकरणप्रन्थो मुद्राप्य प्रकाश्यते
सव्याख्यो मीमांसाशास्त्र प्रविविक्षणामुपकृतये । सुदृढमिदमभिधातुं शक्यते शास्त्रे •
स्मिन् नैतादृशः प्रकरणग्रन्थोऽथ यावत् प्रकाशं नीतः । किं बहुना नाद्याप्येतादृशो ग्रन्थो
विरचित इत्यपि वक्तुं शक्यते । सन्ति च कानिचन प्रकरणानि भाट्टभास्करमुखान्यय
यावदमुद्रितानि, तानि तु नानेन सह समं सोपानमारोढुं प्रभवन्ति । योऽयमिदानीमु-
पलभ्यतेऽस्माभिरर्थसंग्रहाख्यो प्रन्थः स प्रायेणास्य प्रतिकृतिरेवेति करबदरसमानमेतत् ।
ग्रन्थकृदय मतिकठिनानामपि विषयाणामनतिविस्तृतया हृदयज्ञमयैव शैल्योपपादने विष-
यस्यैकस्योपपादनावसरे विषयान्तराणामपि प्रसङ्गादानयने चानितरसाधारणीं नैपुणीमाव-
इति । यद्यप्यनेनान तिबृहत्यस्मिन् ग्रन्थे बहवो विषया विचारिताः ये सर्वत्रास्मिन् शास्त्रे
शास्त्रान्तरे चात्यन्तमुपयुक्ताः स्थानान्तरं प्रत्यतिदेशार्हाः तथापि ते प्रायशः पूर्वषट्कान्त-
गंता एव । उत्तरषट्कान्तर्गता अतिदेशोहबाधादयोऽत्यल्पमिह निरूपिताः, तेऽपि प्रस-
जादेव । पूर्वषट्केऽपि च प्रथमतृतीयपञ्चमाध्यायीया एव प्राधान्येन निरूपिताः । एव-
ञ्चात्र ग्रन्थे कियन्ति कानि चाधिकरणान्युपात्तानि केषां चाधिकरणानां निरूपिता विषया
इत्यनन्तर प्रदर्शितया सूच्या व्यक्तीभविष्यति ।
 
ग्रन्थस्यास्य मूलभूताः ग्रन्थाः
 
प्रन्थोऽयं तन्त्रवार्तिकादिकान् स्वप्राचीनान् भाट्टमतानुयायिनो ग्रन्थानवलम्ब्य प्रवृ
तोऽपि प्राघान्येन शास्त्रदीपिकां न्यायरत्नमालां न्यायसुर्धाच राजकापरनामचेयामवलम्ब्यैव
प्रवृत्तः । तेषामेव च सिद्धान्ताः प्रायेणात्र निरूपिताः । तत्रापि मिश्रपार्थसारथिसिद्धान्तेषु
प्रत्यकृतः प्रेमातिशय इत्यवगम्यते । अत एव तत्तद्विषयनिरूपणावसरे प्रथमतो न्याय-
सुधाकृन्मतमुपपादयति, अनन्तरं च सिद्धान्तरूपतया शास्त्रदीपिकाकारमतम् । अपि च
"अन्ये त्वाचार्या आहुः" (न्या. प्र. पृ. १३४ ) "अन्ये त्वाचार्या आहुः" (न्या. प्र.
पृ. १५०) इति पार्थसारथिमिश्रानेवाधिकमाचार्यपदेन व्यपदिशन् तत्रैव स्वस्य गौरवाति-
शयमाविष्करोति । न्यायरत्नमालायाः श्रीपार्थसारथिमिश्रकृतायाः न केवलं सिद्धान्तो-
ऽनुसृतोऽनेन, क्वचिच मिश्रपार्थसारथेः पक्तयोऽपि तथैवोद्धृत्य किञ्चिद्विपरिणतिपूर्वकं
ग्रन्थेऽत्र निवेशिताः ।
 
यथा-
( न्यायरत्नमाला )
तत्र विधात्री लिङाद्या । अभि-
घात्रौ व्रीह्यादिश्रुतिः। विनियोक्त्री त्रिधा-
एकाभिधानं, एकं पदं, विभक्तिरिति ।
यस्य हि शब्दस्य श्रवणादेव सम्बन्धः
प्रतीयते सा विनियोगश्रुतिः" ( न्या.
र. पृ. १२३ )
 
( न्यायप्रकाशः )
 
S
 
तत्र विधात्री लिङाद्यात्मिका । श्र
भिधानी व्रीह्यादिश्रुतिः। यस्य च शब्द-
स्य श्रवणादेव सम्बन्धः प्रतीयते सा
 
1917
 
Bhandarkar Oriental
 
विनियोक्त्री । सा च त्रिघा-विभक्तिरूपा,
समानाभिधानरूपा, चेति ।
( न्या. प्र. पृ. २६)