We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
१४७
 
'वैश्वदेवेने'ति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । 'सास्य देवते'त्यस्मि
न्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धितान्तर्गतस्य यद्यपि 'सूक्त-
हविषोरिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम्, तथापि सर्वनाम्ना-
मुपस्थितवाचित्वात् सूतहविषोश्चात्रानुपस्थितत्वात् 'यजेतेत्युपस्थितं याग-
मेवास्यशब्दोऽभिधत्त इति न यागे मत्वर्थलक्षणा। विश्वदेवरूपैकदेवतावि-
धानाच्च न वाक्यभेदः ।
 
नापि तत्प्रख्यशास्त्रान्नामत्वम् । यत्र हि विधित्सितो गुणोऽन्यतः प्राप्तः,
तत्र तत्प्रख्यशास्त्रान्नामधेयत्वम्, यथा- अग्निहोत्रशब्दे । अत्र चाऽऽग्नेयादयो-
ऽष्टौ यागाः प्रकृताः । तत्राऽऽमिक्षायागे यद्यपि विश्वेदेवाः प्राप्ताः- वैश्वदेवया-
मिक्षेति, तथापि सप्तसु तेषाम प्राप्तत्वात् 'वैश्वदेवेन यजेते'त्यनेन तत्र तद्वि-
धाने न तत्प्रख्यशास्त्रमन्यत् येन तद्वशान्नामत्वं स्यात् ।
 
-
 
न चाऽऽमिक्षायागस्यैवै तन्नामेति वाच्यम् । "वैश्वदेवेन यजेते"ति वाक्य.
 
ननु देवतातद्धितस्य '" सास्य देवता" इति विहितस्य "सूकहविषो" रिति वार्तिकेन
सुक्तहविषोरेव नियमितत्वात् कथं तद्भिन्नयागवाचकत्वमित्याशङ्कामनूद्य परिहरति-तत्रेति ।
अस्य शब्दस्य 'साऽस्य देवता' इति सूत्रघटकस्य 'अस्य' इति शब्दस्य । स्मृतेरिति
स्मृतिरत्र व्याकरणमुच्यते। सूक्तम् ऋचां समूहः । हविः देवतोद्देश्येन स्यज्यमानः
चरुपुरोडाशादिः । सर्वनामार्थे विहितस्य तद्धितस्य सर्वनामवदुपस्थितपरामर्शकत्वस्यापि
सम्भवात् स्ववाक्योपात्तयजिनैव यागस्योपस्थितत्वेन उपस्थिततसरामर्शस्यैव युक्तत्वात्
"आग्नेयो वै ब्राह्मणो देवतया" "बुधन्वानाग्नेयः कार्यः पावकवान् सौम्यः"
इत्यादौ यागादावपि सूक्तहविर्भिन्नेऽयें देवतातद्धितदर्शनात्, तत्र सम्बन्धसामान्ये तद्धितः
मङ्गीकृत्य तस्य विशेषापेक्षायां देवतात्वादिरूपो विशेषलाभः इत्यङ्गीकारे वा प्रकृतेऽपि
तस्य समानत्वात् वैश्वदेवशब्देन यागप्रती तेर्जायमानत्वात् न तदर्थं मत्वर्थलक्षणेत्यर्थः ।
नापि चित्रान्यायात् नामत्वमित्याह - विश्वदेवेति । विश्वेषां देवानामनेकव्यक्तित्वेऽपि
तद्गतदेवतात्वस्यैव विधेयत्वात् तस्य चैकत्वान्नानेकविधानमिति मनसि निदधान आइ-
एकदेवतेति ।
 
अत्र वैश्यदेवे पर्वणि । तत्र अष्टानां यागानां मध्ये । प्राप्ता इति । "वैश्वदेव्या
मिक्षे"ति वाक्येन द्रव्यदेवता विशिष्टयागविधानादिति भावः । सप्तसु आमिक्षाया गव्यति-
रिक्तेषु श्राग्नेयादिषु सप्तसु । तेषां विश्वेषां देवानाम् । अन्यतः प्राप्त्यभावेऽपि अने
नैव विधिरङ्गीक्रियताम्; को दोषः ? इत्याशङ्कय यद्येवं तर्हि तत्प्रख्यशास्त्राभावात् न
नामस्वं सिभ्येत् इत्याह – वैश्वदेवेनेति ।
 
मनु मास्तु क्वचिदप्यनेन देवताविधानम्, आमिक्षायागस्यैव वैश्वदेवीवाक्य-
विहितस्येदं नामधेयमस्तु, तत्र च तेनैव विश्वेषां देवानां प्राप्तत्वात् तत्प्रख्यन्याय-
सम्भवात् इत्याशङ्कते-न चेति । कथं वैयर्थ्यम् । "प्राचीनप्रवणे वैश्वदेवेनय जेत
"वसन्ते वैश्वदेवेत यजेत" इत्यादि विधौ वैश्वदेवशब्देन श्रामिक्षायागग्रहणात् सार्थ-
Bhandarkar Oriental