This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[नामधेय-
उपमानोपमेयभावस्थ भिन्ननिष्ठत्वात् । यदा तु श्येनसँशको यागो विधीयते
तदा मर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यत इति श्येनशब्दस्य
तयपदेशाद्यागनामधेयत्वम् ।
 
तत्सिद्धं निमित्तचतुष्टयात्(१) कर्मनामधेयध्वम् । Gurbe
( नामधेयत्वे पञ्चमप्रकार निरूपणम् )
उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं के चिन्नामधेयत्वे निमित्तमाहुः ।
"वैश्वदेवेन यजेते" त्यत्र वैश्वदेवशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्ट गुणव
लोयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात् ।
 
तथा हि-न तावन्मत्वर्थलक्षणाभयान्नामधेयत्वं (२) वक्तुं युक्तम्,
र्शित । भिन्ननिष्ठत्वादिति । प्रसिद्धस्यैव पदार्थस्योपमानत्वयोग्यतया अप्रसिद्धस्योप
मेयतया, प्रसिद्धत्वाप्रसिद्धयोः परस्परविरुद्धयोरेक निष्ठत्वाभावेन भिन्ननिष्ठत्वावश्यम्भा•
वादिस्यर्थः । नात्रानन्वयालङ्कारः रामरावणयोर्युद्धमित्यादाविव शङ्कयः, तत्रोपमानान्तरा-
भावलक्षणया अनन्याचरितत्वख्यापनार्थत्वात्, प्रकृतेऽपि तथात्वे अनेकेषामर्थवादप-
दानामुपमानान्तराभावलक्षकत्वाङ्गीकारे गौरवापत्तेः । न च व्यञ्जनयैव तदुपस्थिति-
रस्विति वाच्यम् । तस्याः वृत्यन्तरत्वानङ्गीकारात् । एवञ्च श्येनपदेन यागोतावेवार्थ-
वादिकी स्तुतिराजस्येनोपपद्यत इत्याह-यदा त्विति । ननु अस्य उद्भिदादिन्यायविषयत्वं
कुतो न स्यात् येन न्यायान्तरमाधीयत इत्यत श्राह-तद्व्यपदेशादिति । नात्रोद्भिन्त्या-
योऽवतरति, तस्य यौगिकशब्दमात्रप्रवृत्तिकतया रूढेष्वप्रवृत्तेः । नापि चित्रान्यायः, वा-
क्यभेदाभावात् । न चापि तत्प्रख्यन्यायः, तत्प्रापकशास्त्राभावात् । अतः तद्व्यपदेशादेवात्र
नामत्वं वक्तव्यमिति भावः ।
 
एवमुद्भिदादिपदानां नामत्वे निमित्तचतुष्टयमुपवर्ण्य उत्पत्तिशिष्टगुणत्रलीयस्त्व-
स्यापि नामधेयत्वे निमित्तत्वं ब्रुवतां न्यायसुधाकाराणां मतम निरूपयिष्यमाणं स्वान
भिमतं सुचयन् उपसंहरति-तत्सिद्ध मिति ।
 
(नामधेयत्वे पश्चमप्रकारः )
 
एवं स्वाभिमतं निमित्तचतुष्टयमुपवर्ण्य पञ्चमं न्यायसुधाकृदभिप्रेतं प्रकारमुपवर्णयति-
उत्पत्तोति । उत्पत्तिपदेनोत्पत्तिवाक्यं लक्ष्यते । कर्मोत्पत्तिवाक्य एव कर्मणा सह शिष्टः
विहितो यो गुणः तस्य बलीयस्त्वमित्यर्थः । तदुदाहरति-वैश्वदेवेनेति । चातुर्मास्य
संज्ञके कर्मणि चरवारि पर्वाणि - वैश्वदेवः, वरुणप्रघासः, साकमेधः, शनासीरीयश्चेति ।
तत्र वैश्वदेवाख्ये प्रथमे पर्वणि "आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरु सावि-
श्रंद्वादशकपाल, सारस्वत चरुं, पौष्णं चरुं, मारुत सप्तकपालं, वैश्वदेवी-
मामिक्षां, द्यावापृथिव्य मे ककपालम्" इत्यष्टौ यागान् विषाय तत्सन्निधौ श्रुतं-वैश्य-
वेदेन यजेतेति । तत्र वैश्वदेवशब्दोऽष्टानामपि पूर्वोत्तानां कर्मणां नामधेय मित्येतत्
उत्पत्ति शिष्ट गुण बलीयस्त्वरूपात् पञ्चमप्रमाणादित्यर्थः ।
 
FOUNDED
 
191
 
कथं पूर्वोक्तनिमित्तचतुष्टयान्यतमेन नात्र नामत्वसिद्धिः ? चत आह-तथा होति ।
१. नामधेयत्वम् २. युक्तमिति वक्तुं शक्यम् ।
 
Bhandarkar Oriental
Research Institute
 
1412