This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
यातोऽम्येन संबध्यते-कारकस मुच्चयः करणसमुच्चय इति । विभक्तयभिहितं
तु क्रिययैव, कारकाणां तयैवान्त्रयात् । अंतश्चकारेणोच्यमानः स कारकोप-
सर्जनत्वेनैवोच्यते । कारकद्वयं च प्रधानम् । एकोद्देशेन च प्रधानद्वयविधाने
वाक्यभेद एव । ययाहुः -
 
अनेकपदसंबद्धं यद्येकमपि कारकम् ।
 
तथापि तद्नावृत्तैः प्रत्ययैर्न विधीयते ॥ इति ॥
यच्च-यथा दक्षिणानुवादेन गवादोनामनेकेषां विधाने न वाक्भेदः तथा
कारकद्वय विधानेऽपीति । तन्न; नहि 'गौश्चाश्वश्वे' त्यस्मिन् वाक्ये दक्षिणा-
दिति । कारकादिशब्दैरभिहितस्यापि कारकस्य नामार्थत्वेन तस्य च समस्तस्थले स्वोत्त-
रपदार्थान्वमस्यैवौचित्येन तत्र तथाङ्गीकारेऽपि विभक्त्य भिहितस्य तस्य क्रियातोऽन्ये-
नान्वयस्थाव्युत्पन्नत्वादिति भावः । कुत्र क्रियातोऽन्येनापि सम्बन्धः कारकस्याङ्गीक्रियते १
तदुदाहरति-कारकसमुच्चय इति । उक्तमर्थं प्रकृते सङ्गमयति-अत इति । एवञ्च
गुण भूतेन चकारार्थसमुच्चयेन प्रधानभूतयोरभिप्रजापत्योः वशीकांरासम्भवात् परस्परनि•
रपेक्षयोरेव तयोः विध्यन्वयेन तदर्थं विध्यावृत्तेरवश्यंभावे वाक्यभेदो दुष्परिहर एवेत्याह-
एकोद्देशेनेति । न च विभिन्न विभक्तिभवणेऽपि कारकस्य सम्प्रदानरूपस्यैकत्वात् कथम-
नेकविधानमिति वाच्यम् । यत्र विभक्तिद्वयश्रवणं तत्र द्वयोरपि कारकयोः परस्परनैरपेक्ष्थे•
णैव प्रथमतो भावनान्वये जाते अनन्तरं विशेषण विशेष्यभावादिना परस्परसम्बन्धयोग्यत्वे
सतिरुणैकहायनीन्यायेन तथा सम्बन्धः । यत्र तु न तादृशी योग्यता तत्र प्रत्येकमेव
विधिव्यापार इति तत्र विध्यावृत्तेरवश्यंभावात् ।
 
अत्राघारामिहोत्राधिकरण वार्तिकं प्रमाणयति- अनेकेति । विभिन्नार्थबोधक विभिन्न-
प्रातिपदिकसम्बद्धं यद्यप्येकं कारकं भवेत् तथापि अनावृत्तैरावृत्तिरहितैः प्रत्ययैः तत् कारकं
न विधातुं शक्यते । वस्तुतस्तुत्र कारकमप्येने कमे वेति विधायकप्रत्ययावृत्तिरवश्यंभावि•
न्येवेत्यर्थः । अयं भावः - यद्यपि प्रजापतिशब्दस्य प्रजानां पतिरिति व्युत्पस्या अग्निविशे-
षणत्वाङ्गीकारेण प्रजापतित्वगुण विशिष्ठस्याग्नेः 'अग्नये दात्रे' इत्यादिवत् एकमेव देवता-
त्वमुच्येत तथापि क्रियान्वयात् पूर्व विशेषणविशेष्यभावाप्रतीतेः प्रत्येकं विधिव्यापारात्
विधिप्रत्ययावृत्तिरवश्यंभाविनी किमुत यदा प्रजापतिशब्दस्यान्यत्र रूढत्वेनाग्निविशेषण-
त्वासम्भवेन प्रत्येकं विभक्तिश्रवणाच्च पृथगेव कारकत्वमिति ।
 
-
 
यदुक्तं]पूर्वं गवादीनामनेकेषां विधानवत् वाक्यभेदो न भविष्यतीति तदनूद्य खण्ड-
यति- यच्चेति । भवेदेवं यदि दक्षिणानुवादेन गवादयो विधीयेरन्, न त्वेतदस्ति,
तथात्वे वाक्यभेदस्य पूर्वमेवोकत्वात् । किंन्तु द्रव्य संख्योभयविशिष्टा दक्षिणैव विधीयत
इत्याह नहीति । ननु चशब्दबलात् साहित्यप्रतीतेः परस्परसहितानामेव गवादीनां
विधेयत्वमभ्युपगन्तव्यम् । अत एव भूनाग्न्येकाहे दक्षिणा त्वेन विधीयमानायाः धेन्वाः
प्राकृतगवादिसर्वद्रव्य निवर्तकत्वं दशमोक्तं सङ्गच्छते । अन्यथा पृथक् पृथक् गवादीनां
विधेयत्वे पृथगेवानतिसाघनत्वापस्या धेन्वा गोमात्र निवृत्तिः स्यादिति दाशमिकाधिकरण-
विरोध आपद्येत । अतश्च चशब्दबलात् इतरेतरसहितानामेव विधेयत्वप्रतीतेः कथं वाक्य
 
STITUT
 
Oriental