This page has not been fully proofread.

[ १० ]
 
वर्यैः" इति एड्गटन् ( Edgerton ) महाशयो वदति (१) । तन्न यथातथम् । मूल
कतणां पुत्रैरनन्तदेवैरेव खलु विभज्य व्याख्या कृता भाट्टालङ्कारका रैः । तदनुरोधेनैव
च आचार्यपादैरपि विभागः कृतः । तमनालोक्यैव (२) एड्गर्टन महोदयैर्यत्किञ्चिदुच्यते ।
श्रतस्सर्वथा तदुपेक्षाहं प्रेक्षावताम् ।
 
मन्थकर्तुंर्देश काल कुलादिविषये प्रथम संस्करणभूमिकायां यदुक्तं गुरुवर्यैः न
ततोऽधिकं किञ्चिद्वक्तव्यमवशिष्यते । इदमनेन प्रतीयते काश्यां षोडशसप्तदशशताब्योर्दा.
क्षिणात्येषु विद्वत्कुलेषु मीमांसाद्वयपारदृश्वनां कुलद्वयं सुप्रसिद्धमासीत् एकं भट्टकुलम्,
अन्यच्च देवकुलम् । तत्र भट्टकुलमलड्डर्वाणा श्रासन् नारायणभट्टप्रभृतयः, यैर्बहवो-
अनुत्तमा मीमांसाग्रन्था धर्मशास्त्रप्रन्थाश्च रचिता प्रभावलीपर्यन्ताः । देवकुलमलङ्कुर्वाणा
रुद्रदेवखण्डदेवादयः, यैर्भाट्टदीपिकाप्रभृतयः सर्वातिशायिनो ग्रन्था विरचिताः । तदु-
भयकुलीनातिरिक्कोऽयं न्यायप्रकाशकारः यापदेव इति । एतस्कुलीना अपि पूर्वोत्तरमीमां-
सयोर्धर्मशास्त्रेष्वपि नैकशो ग्रन्थान् जग्रन्थुरिति प्रमाणतोऽवगम्यते ।
 
ग्रन्थस्थास्य संशोधनकायें सज्जतो मम मध्ये मध्ये श्रादर्शान्वेषणे पुस्तकान्तराव
लोकने च साह्यमाचरितवते श्रीमते कृष्णमूर्तिशर्मणे गुरुचरणानां सुपुत्राय मदन्तेवसत्ते
च स्वाशिषः प्रयुञ्जानः, सावधानेनाऽपि कृतेऽस्मिञ्बोधनकार्ये पुरुषबुद्धिसाधारणाः तत्र
तत्र सम्भावितास्त्रुटीरशुद्धीभ कृपया परिमाटुं विबुधगणानभ्यर्थयन् अन्ततः सर्वतः श्रेयो
वहां गुरुचरणकृपामेव परमां मन्वानो मदीयं कार्यमिदं परमेश्वरस्य चरणकमलयो-
स्समर्पयन् विरमामि ।
 
संस्कृत महाविद्यालयः
काशी हिन्दू विश्वविद्यालयः
 
वाराणसी
 
२४-३-४९ (
 
Pariy
 
3. Electon
 
इति
 
विद्वज्जनवशंवदः-
Pre
 
अ० मु० रामनाथदीक्षितः
 
You muito de franz.
 
be
 
(1) Even the division into two parts, is found in neither of the other
editions and was probably made by Chinnaswami himself. P. 4. L. 20
in the Introduction of Mimansa Nyaya Prakasa, Printed in the Oxford
University Press,
 
NSTITUTE
 
1917
 
(2) He says this Anantadeva worte a commentary on this father's
Mimansa Nyaya Prakasa, called Bhattalankara, which according to Chi-
nnaswami (P5) has been edited and printed by Mahamahopadhyaya
Pandit, Lakshmeana Sastri; I regret to say that I have not had access
to it ( P. 18. ) Intro,
 
I
 
WD-D
 
T
 
ental