2023-02-15 04:03:48 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः 31
[नामधेय-
विधानात्। एवं मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुश्चितप्रजापतिविधानेऽपि न
बाधकत्वमिति तुल्यम् ।
यत्तु-अग्नेर्मान्त्रवर्णिकत्वे "अग्निर्ज्योतिर्ज्योतिस्सूर्यस्स्वाहे" ति मिश्र-
लिङ्गमन्त्रवर्णबलात् सायं होमस्य द्विदेव(१)त्यत्वापत्तिरिति
तन्न; श्रग्निसमुच्चितप्रजापतिविधानवत् सूर्यसमुच्चितस्याविधानात् ;
प्रबल प्रमाणबाधितेन प्रजापतिना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् ।
यत- अग्नेर्मान्त्र वर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये
च प्रजापतये च सायं जुहोति, "यसूर्याय च प्रजापतये च प्रातः" इति
वाक्यद्वयं व्यर्थमिति -
-
G
तन, भवेद्यर्थं यदि प्रजापतिमात्रविधानं विवक्षितं स्यात्, सायंहोमेs-
ग्निसमुच्चितप्रजापतिविधानम्, प्रातहों मे 'सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेति
मन्त्रवर्णप्राप्तसूर्य समुच्चितप्रजापतिविधानं च विवक्षितम् । न चैतदेकन
कमन्त्रवर्णस्यापि देवताप्रापकत्वाजीकारापत्या तद्बोधितस्यानेरिव सूर्यस्यापि सायंकाले
प्राप्त्यापस्या सायंहोमस्य द्विदैवत्यत्वापत्तिरित्याशङ्कामनुवदति- यस्विति । तां निरा-
करोति - तन्नेति । अग्निसमुच्चितेति । 'यदग्नये चे' ति वाक्येन सायंदोमोद्देशे-
नाग्निसमुच्चितप्रजापतिरेव विघीयते, न तु सूर्यसमुच्चितप्रजापतिः । अतश्च मन्त्रवर्णप्राप्तखे-
ऽपि सूर्यस्य ब्राह्मणवाक्येन तत्समुच्चितप्रजापते रविधानात् प्रबलप्रमाणबोधितेन प्रजापतिना
सुर्यस्य बाघावश्यम्भावात् न सायंहोमस्य द्विदैवव्यत्वापत्तिरिति भावः । एवं प्रातहोंमे
ऽप्यनेर्बाधो वेदितव्यः । नचैवं सति प्रातर्हो मेऽग्नेः प्राप्त्यभावेनाग्निहोत्रपदस्य कथं तत्प्र-
ख्यन्यायेन नामधेयत्वमिति वाच्यम् । सायंहोमे प्राप्तिमादायैव तदुपपत्तेः; इष्यत एव
होकदेशप्रवृत्तिनिमित्तमादायापि नामधेयत्वं वैश्वदेवादिपदेषु, यथोक्तं वासुदेवदीक्षितैः
कुतूहलवृत्तौ - श्रतः 'श्रग्निहोत्रं जुहोति' इत्यग्निहोत्रपदं पूर्वाहुतेरेव नामधे-
यम्, एकस्यैवाग्निहोत्रस्य 'सायं जुहोति' 'प्रातर्जुहोति' इत्यभ्यासविधिः,
अतः प्रातहोमस्य सूर्यदेवत्यत्वेऽपि सायं होमस्याग्निदेवत्यत्वमात्रेणाग्नि-
होत्रशब्दस्योपपत्तिः कदाचिदग्निदेवत्यत्वयोगेन समाख्यानोपपत्तेरिति ।
तो न दोषः ।
-
--
C
ननु होमोद्देशेन प्रजापतिमात्र विधाने तस्य कालद्वयेऽप्यावृत्त्या प्रजापतेरपि दध्यादि-
वदावृत्तिसिद्धेः व्यर्थं वाक्यद्वयमिति पूर्वपदयुक्तं दूषण मनुवदति - यरिवति । यदि 'यद-
ग्नये चेति' प्रजापतिमात्रविधानं भवतोऽभिप्रेतं तहिं प्रजापतये जुहोतीत्येतावतैवालम्,
तस्यावृत्त्यैवोभयत्र सम्बन्धसिद्धेः । अतस्तद्वाक्यस्थं 'अग्नये' 'साय' मिति पदद्वयं
वाक्यान्तरञ्च व्यर्थमित्यर्थः ।
NSTITUTE
POONA
समाधत्ते-तन्नेति । सायंहो मेऽग्निसमुच्चितप्रजापतेरेव विधातुमिष्टत्वेन तस्य चाग्नि-
पदमन्तरा असम्भवेनाग्निपदस्यावश्यकत्वात् सायंहोम एव च तत्प्राप्तरिष्टतया तदर्थं
सायंशब्दस्याप्यावश्यकत्वेन, प्रातःकालीनहोमे सूर्यसमुच्चितप्रजापतेर प्राप्ततया तत्र तद्वि-
१. द्विदेवतत्वापान्तिः इति क ।
Institute
>
D