This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासँवलितः
 
तावदेवतास्त्वम् । तच्च संप्रदानस्वरूपान्तर्गतम्, त्यज्यमानद्रव्योद्देश्यत्वे
सति प्रतिग्रहीतृत्वस्य संप्रदानत्वात् । अतश्चतुर्थीतः संप्रदानैकदेशतया

देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णात न देवतात्वं प्रतीयते, किंत्वधिष्ठा-
नमात्रम् । अतश्च मन्त्रवर्णश्चतुर्थीतो दुर्वलः । यथाद्दुः-
तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः ।
 
देवताया विधिस्तत्र दुर्बलं तु परं परम् ॥ इति ॥
 
श्रतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः
स्यादिति चेत् -
 
सत्यम्; स्याद्वाधो यदि "प्रजापतये जुहोती"ति केवलप्रजापतिविधानं
'स्यात् । विधीयमानस्तु प्रजापतिर्मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुब्बितो होमो-
द्देशेन विधीयते । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमझिमनूध
तत्समुश्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वम्, निरपेक्ष-
विधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन विधाना-
तुल्यार्थत्वेन विकल्पे प्रसक्ते प्रजापतेर्न पाक्षिकमग्निबाधकत्वम्, समुच्चय-
मान्त्रवर्णिकमिति । देवतात्वमित्यनुषङ्गः । सास्येति । अस्य हविषः चरुपुरोडाशादेः,
सूतस्य वा मन्त्रसमुदायरूपस्य सा इन्द्रादिः देवता इत्यस्मिन्नर्थे प्रत्यया श्रणादयो
भवन्तीति सुत्रार्थः । सम्प्रदानैक देशतयेति । सम्प्रदाने शक्ताया अपि चतुर्थीविभक्तेः
तदेकदेशभूतदेवतात्वे एक देशलक्षणया प्रवृत्तिसम्भवादिति भावः । तद्धितेनेति । कारि
का गतार्था । देवताया विधिः विधेयदेवतासमर्पणमित्यर्थः ।
 

 
१३५
 
सत्यं मन्त्रवर्णापेक्षया चतुर्थी प्रबला, तथापि नात्रामे: प्रजापतिना बाघ इति समा
घत्ते - सत्यमित्यादिना । यद्यस्मिन्नपि पक्षे विधेयप्रजापतिविशेषणतया अग्निसमुच्चय-
स्यापि विधेयत्वावश्यंभावः तदा को विशेषः पूर्वस्मात् पक्षात् ? इत्यत ग्राह-समुचि.
तोभयेति । एवञ्च न समुच्चयमात्रविधाने गौरवमापाद्यतेऽस्माभिः, किन्तु तद्विशेषणत
याग्नेरपि विधाने उभयविधानकृतो वाक्यभेद अपादितः स च नास्माकं मते, इत्या-
शयवानाह- लाघवादिति । अतंश्च मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितप्रजापते विधाने
श्रग्न्यंशे विधिव्यापाराभावात् लाघवम्, तत्समुच्चितप्रजापते विधानाच नाग्नेर्बाध इत्याह-
अतश्चेति । निरपेक्ष विधानाभावादिति । इतरनैरपेक्ष्येण विधाने हि प्रबलेन दुर्ब
लक्ष्य बाधः स्यात् तुल्यबलवे वा पाक्षिको बाघः, न चैतदस्ति, अभिसापेक्षस्यैव प्रज्ञा.
पतेर्विधानात्, यथैव ह्यन्यतः प्राप्तहोमाभिषव समान कर्तृकस्वविधिना "प्रावभिरभिषु.
त्याहवनीये हुत्वा प्रत्यञ्चः परेत्य ससि भक्षयन्ति" इत्यनेन होमा भिषवयोर्भ-
क्षणाङ्गत्वं बोध्यते, तद्वत् अत्रापि मन्त्रवर्णतोऽङ्गत्वेनावघृताभिसमुचिचतत्र जापति विधाने
बाघकाभावात् । भवतामपीदमवश्यमभ्युपगन्तव्यमेव, अन्यथा
 
>
 
अभिप्रजापत्योर्विकल्पः
 
नाव प्रतिभन्तु भाई
 
• स्यात्, तदेतदाह - यथा चेत्यादिना ।
 
ननु यद्यमेमन्त्र वर्णिकत्वमङ्गीक्रियेत तर्हि केवललिज कमन्त्रवर्णवत मिश्रलिङ्ग,
 
Bhandarkar Oriental
Institute