This page has not been fully proofread.

निरूपणम् 1
 
सारविवेचिनीव्याख्यासंवलितः
 
तस्य द्वादशशतं दक्षिण।' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते।
परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणा
नुवादेनाने केषां गवादीनां विधानं नैव सङ्गच्छेतेति ।
 
अग्निप्रजापत्योश्च देवतयोः सतोः समुच्चयः, न तु समुश्चितयोंदेवता:
त्वम् ; पृथक्कारकविभक्तिश्रवणात् । चकारार्थस्य (१) विभक्त्यर्थेनान्वयात्त-
स्याप्राधान्यात् । अतश्च (२) नाग्नीषोमादिवदग्निप्रजापत्योर्देवतात्वमिति ।
अन्ये त्वाचार्या आहुः- "यदग्नये च प्रजापतये च सायं जुहोती' ति
वाक्यं नाझे: (३) प्रापकम्, होमानुवादेन प्रजापतिविधानात् । न च विनि-
गमनाविरहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव विधीयते
यत् प्रकारान्तरेणाप्राप्तम् । तत्र यथानेन वाक्येन सायंकालो न विधीयते
 
हारात् गवादिपदार्थान्तरस्यापि च चकारार्थान्वयं विना पदान्तरोपात्त भावनान्वयायोगात्
परस्परसहितानामेव तेषां भावनान्वयप्रतीतेः न वाक्यभेदः इत्युक्तं दशमाध्यायतृती.
यपादे त्रयोदशाधिकरणे, तदेतत् सर्वे मनसि निषायाह-दशमोक्तमिति । अन्यथा पर
स्परसहितानामेव गवादीनां विधानमित्यनङ्गीकारे ।
 

 
नन्वेवं परस्परसहितयोरेवाग्निप्रजापत्योर्भावनान्वयानीकारे अग्नीषोमादिवत् तयोर्व्या.
सज्यवृत्तिदेवतात्वापत्तिः । इष्टापत्तौ वा अनेः पृथक देवतात्वस्यैवाभावेन तत्प्राप्तिफलक-
स्याग्निहोत्रपदस्य गुणविधायकत्वापत्तौ तत्प्रख्यन्यायेन नामधेयत्वकथनस्थासाङ्गत्यापत्ति-
रित्यत आह - अग्निप्रजापत्योरिति । देवतयोस्सतोरिति । अयमभिसन्धिः-
तद्धित चतुर्थ्यादीनां देवतात्वबोधकत्वं वक्ष्यति ग्रन्थकारः । तयत्र पृथक् तद्धितश्रवणं चतु.,
थींश्रवणं वा तत्रेतरनिरपेक्ष एव प्रत्ययार्थे देवतात्वे प्रकृत्यर्थस्याघेयतासम्बन्धेनान्व.
यात् इतरनिरपेक्षस्यैव पृथक पृथक् देवतात्वम्, यथा-"त्वाष्ट्रं पात्नोवतम्" "अग्नये
कृतिकाभ्य'' इत्यादौ । यत्र तु एक एव प्रत्ययः श्रूयते तत्र प्रकृत्यर्थयोः समुच्चितयोरेव
प्रत्ययार्थेऽन्वयात् समुच्चितयोरेव देवतात्वम् यथा - 'मग्नीषोमीयम्' 'इन्द्राग्नि
भ्याम्' इत्यादौ । एवं पृथक् विभक्तिश्रवणेऽपि यत्र प्रकृत्यर्थयोः प्रमाणान्तरेण विशेषण..
विशेष्यभावप्रतीतिः, यथा- 'अग्नये पावकाये'त्यादौ न तत्र देवताद्वयप्रतीतिः, यत्र तु
तत् नास्ति तत्र पृथगेव देवतात्वम्, तयोरेव च पदार्थान्तरेणान्वयः, एवञ्च प्रकृते
पृथक् विभक्तिश्रवणात् विशेषण विशेष्यभावे प्रमाणाभावाच्च पृथगेवाग्निप्रजापत्यो दें वता
त्वम्, तयोरेव च चशब्दार्थे समुच्चयेऽन्वयः इति पृथगेवाग्ने: देवतास्वसिद्धेः तदादाय
तत्प्रख्यन्या येनाग्निहोत्रपदस्य कर्मनामधेयत्वे न काचित् क्षतिरिति ।
 
एवं न्यायसुधाकृदादिमतेन देवताप्राप्ति निरूप्य इदानीं पार्थसारथिमिश्रप्रभृतीनां
मतेन तत्प्राप्तिं निरूपयति-अन्ये विति । अग्नेः प्रापकम्, अग्निविषयकाज्ञातशा-
नजनकम् । प्रकारान्तरेणाप्राप्तमिति । अप्राप्ते शास्त्रमर्थवदिति न्यायस्य पूर्वमेवोक्त
 
FOUNDED
 
११. कारकार्थेनान्वयात् तस्य प्राधान्यात् इति क
३. नाग्निप्रापकम् इति क
 
२. क पुस्तके नन नास्ति ।
 
Bhandarkar Oriental
Research Institute