2023-02-15 04:03:46 by ambuda-bot
This page has not been fully proofread.
मोमांखान्यायप्रकाशः
[नांमधेय-
ऋत्र केचित् - 'यदनये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण
होमानु वा देनाग्निप्रजापत्योर्विधानान्नाग्निहोत्रपदं देवतासमर्पकम् । न चोभ-
यविधाने वाक्यभेदः । परस्पर निरपेक्ष विधाने हि वाक्यभेदः स्यात् 'अग्नये
जुहोति' 'प्रजापतये जुहोती'ति प्रत्येकं विधिव्यापारात् । चशब्दश्रवणाचु
परस्परसापेक्षस्यैव पदवयस्याख्यातान्वयान्न वाक्यभेदः ।
अत एव "ऋत्विग्भ्यो दक्षिणां ददाती"ति वाक्यविहितदक्षिणानुवादेन
"मौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च वीयश्च यवाश्च तिलाञ्च माषाश्च
10
अस्मिन्नपि पक्षे विधित्सितस्याग्निदेवतारूपस्य गुणस्य प्रमाणान्तरेण प्राप्तिमुपपाद-
यिष्यन् तत्र प्रापकप्रमाणविषये न्यायसुधाकृतः तदनुयायिनाञ्च मतमुपपादयति-अत्र
केचिदिति । न्यायसुधाकृत्प्रभृतय इत्यर्थः । शास्त्रान्तरेऐति । 'अग्निहोत्रं जुहोति
इति वाक्यापेक्षया भिन्नेनेत्यर्थः । ननु अत्र यच्छन्दश्रवणात् यच्छन्दस्य च विधिशक्तिप्रति
बन्धकत्वस्य द्वितीये साघितत्वात् कथमस्य वाक्यस्य देवता विधायकत्वमिति चेत्-एवम् ;
यच्छब्दादेः मण्यादेर्दाहादिप्रतिबन्धकत्वमिव न स्वरूपसमवधानमात्रेण विधिशक्तिप्रति-
बन्धकत्वम्, किन्तु प्रमाणान्तरतः प्राप्तिद्योतनद्वारा । यच्छन्दादयो हि स्वस म भिव्याहृ
तपदार्थस्य पूर्वप्रसिद्धिं द्योतयन्तः प्राप्तिमवगमयन्ति, तद्यत्र विधित्सितस्य प्रमाणान्तरेण
प्राप्तिः तत्र प्राप्तस्य पुनर्विधानायोगात् विधिशक्तिप्रतिबन्धकत्वेऽपि यत्राप्राप्तिः न तत्र
विधिशक्तिः प्रतिबध्यते । अत एव "यो दीक्षितो यदग्नोषोमीयं" "योऽदाभ्यं
गृहीत्वा सोमाय जुहोति" इत्यादी सत्यपि यच्छन्दसमभिव्याहारे विधिरङ्गीक्रियत
एव । एवं प्रकृतेऽप्यप्राप्तत्वात् विधिरङ्गीकर्तव्य एवेति ।
प्राप्तकर्मोद्देशेनाग्निप्रजापतिरूपदेवताद्वयविघाने वाक्यभेदमाशङ्कते-न चेति । समा-
धत्ते-परस्परेति । अयं भावः - समासादिस्थले यत्र सुबन्तयोः परस्परान्वयो व्यु-
स्पन्नः तत्र भवत्येव विशिष्ट विधानम्, यथा- 'श्रश्वाभिधानीम्', 'यत्किञ्चित् सोम-
लिप्त'मित्यादौ । यत्र तु असमस्तस्थले तयोरुस न व्युत्पन्नः तत्र परस्परं वैशिष्टयासम्भ-
वेन पृथक् पृथगेव क्रियान्वयात् प्रत्येकं विधिव्यापाराङ्गीकारापच्या विध्यावृत्तिलक्षणो
वाक्यमेदः स्यात्, प्रकृते च चशब्दश्रवणात् तस्य च निपातत्वात् सुबन्तार्थस्य निपाता-
थन्वयव्युत्पत्तेः वाक्य भेदाभावात् नानेकविधानं दोषायेति ।
दोषाभावमेव स्थलान्तरदृष्टान्तेन द्रढयति – अत एवेति । वाक्यभेदाभावादेवे.
त्यर्थः । ऋत्विग्भ्य इति । अत्र च ददात्यन्तेन प्रथमवाक्येन कर्मकररूपवि गुद्देशेन
दक्षिणादानं विधीयते । द्वितीयेन च पूर्ववाक्यविहितदक्षिणोद्देशेन गवादिद्रव्य विधानमिति
स्थितिः । द्वादशशतम् । द्वादशोत्तरं शतम् । दक्षिणा श्रानतिसाघनीभूतं द्रव्यम् ।
तत्र गवादीनामनेकेषां प्राप्तदक्षिणानुवादेन पृथक विधानाजीकारे वाक्यभेदापत्या च
शब्दसमभिव्याहारबलेन परस्परसहितानामेव गवादीनां विधानमङ्गीक्रियते । चादीनां हि
निपातोपसर्गाणां पृथक् पदत्वेऽपि केवलानां तेषां प्रयोगाभावेन स्वातन्त्र्येण तदर्थस्य
भावनायामन्वयासम्भवात् नित्यं समभिव्याहृतपदार्थ विशेषणःवप्रतीतेः चशब्दस
मभिव्या-
Research Institute
POONA
4