This page has not been fully proofread.

निरूपणम् ]
 
सार विवेचिनीव्याख्यासंवलितः
(तत्प्रख्यशास्त्रात्कर्मनामधेयत्व निरूपणम्)
 
"मग्निहोत्रं जुहोती" त्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्य
शास्त्रात । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्नि
होत्रशब्दः कर्मनामधेयमिति यावत् । तथा हि-विधिना तावत्तदेव विधेयं यत्प्र
कारान्तरेणाप्राप्तम् । "अप्राप्ते शास्त्रमर्थवदि" ति न्यायात्। अग्निहोत्रशब्दस्य-
च गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत् -
शृणु- यदि तावदनौ होत्रमस्मिन्निति (१) सप्तमीसमासमाश्रित्य होमा-
(२) धारत्वेनाग्निर्विधेय इस्युच्येत तदा "यदाहवनीये जुहोती" त्यनेनैव
प्राप्तत्वाद्विध्यानर्थक्यम् ।
 
अथ अग्नये होत्रम स्मिन्निति (३) चतुर्थी समासमाश्रित्याग्निरूपा देवता विन
धीयते (४) इति चेत्-नःशास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत्-
(तत्प्रख्यशास्त्रात्कर्मनामधेयत्वनिरूपणम्)
 
तृतीयं नामधेयत्वहेतुं निरूपयितुमारभते - अग्निहोत्रमिति । गुणस्येति । अग्नि-
होत्रशब्देन यो गुणो विधिस्सितः पूर्वपक्षे तस्येत्यर्थः । अप्राप्ते प्रमाणान्तरेणाज्ञाते विषये
शास्त्रम् अर्थवत् प्रयोजनवदित्यर्थः । ननु अग्निहोत्रपदे गुणविधिमङ्गीकुर्वता भवता
सप्तमीबहुव्रीहिमाश्रित्य होमोद्देशेना धिकरणभूतोऽग्निविधीयत इत्युच्यते ? उत चतुर्थी बहु
ब्रीहिमाश्रित्य देवतारूपोऽग्निर्विघीयत इत्युच्यते ! न तावदाद्यः पक्षः इत्याह- यदि ताव-
दिति । सप्तमीसमासमिति। "सप्तमो विशेषणे बहुव्रीहौ" इति ज्ञापक बलेन
कण्ठेकाल इतिवत् कथञ्चित् सप्तमीबहुव्रीहिमाश्रित्यापि "यदाहवनोये जुहोति" इति
वाक्येन होमत्वावच्छिन्नोद्देशेना हवनीय रूपाधिकरणस्य विहितत्वेन तेनैव प्राप्तत्वा दित्यर्थः।
होमाधारत्वेनेति । देवतोद्देश्य कद्रव्यप्रक्षेपोऽत्र होमपदार्थः । तदाघारत्वेनेत्यर्थः
त्यागीयद्रव्यपतन प्रतिबन्धकत्वेनेति यावत् ।
 
द्वितीयं पक्षं निरस्यति- अथेति । यद्यपि सप्तमीबहुव्रीहिवत् नात्र शास्त्रानुगतस्वं
सम्भवति, तथापि "दृष्टानुविधिश्च्छन्दसी" ति स श्राश्रीयत इति भावः । चतुर्थ्या
देवतात्वबोधकत्वमनुपदमेव वक्ष्यति ग्रन्थकारः ।
 
-
 
१. अत्र।ग्निहोत्रपदे सप्तमीबहुबीहिं चतुर्थी बहुब्रीहि वाऽऽश्रित्य होत्रशब्दस्य च कर्मव्युत्पत्या द्रव्यवा-
चकत्वमङ्गीकृत्य च अधिकरणभूतस्य दैवताया अग्नेः प्राप्तिः प्राचीनैरुपपादिता । तदनुसृत्य व्याख्या
तोऽत्रत्यो ग्रन्थः पूज्यपादैः। वस्तुतस्तु होत्रशब्दस्य भावव्युत्पत्त्या क्रियापरत्वम्, तत्पुरुष समास एव
चेष्टस्तेषाम् । अत एव तैः तन्त्रसिद्धान्तरस्नावल्यां तत्प्रख्यन्यायनिरूपणावसरे अग्निहोत्रपदस्य तत्पुरुष-
समासो व्युदपादि । उपपादि च स्वाशयः - अत्र यद्यपि प्राचीनैः कर्मव्युत्पत्तिमाश्रित्य दध्यादिद्रव्यपरस्व
मङ्गीकृत्य, अग्नये होत्रम् अग्न्युद्देश्यक होमसाधनद्रव्यं यस्मिन्निति बहुव्रीया श्रयणेनाग्निहोत्र शब्दः
प्रसाधितः, तथापि भाबसाधनत्वाङ्गीकारेणैव निर्वाई कर्मसाधनत्वाङ्गीकरणे फलाभावाद्वेदे प्रायशः सर्वत्र
"अग्निहोत्रं जुहोति" "अग्निहोन्नं यज्ञानां" "तस्मादग्निहोत्रमुच्यते" इत्यादा वग्निहोत्र
शब्दस्या
न्तोदात्तत्वस्यैव श्रवणात्तस्य च स्वरस्य तत्पुरुषसमास एव सँगतेस्तत्पुरुषस्वीकारे च मात्वर्थसामानाधि-
करण्यसिध्यर्थं भावसाघनत्वस्यैवाऽङ्गीकर्तव्यस्वादष्वर मीमांसाकुतूहलवृत्तिमीमांसा कौस्तुभाष करीत्या
अस्माभिर्भावसाघनत्वमेवाऽङ्गीकृतम् इति ।
२. होमार्थवेन इति क
 
Bhandarkar Oriental
Research Institute
 
३. 'प्रस्मिन्' इति नास्ति, क. ४. अनेन समर्प्यते इति ख