This page has not been fully proofread.

1 मोमांसान्यायप्रकाशः
 
[ नामधेय-
उभयविधाने
 
विधिः, न तु भज्ञानुवादेन प्राथम्यविधिरित्युक्तं तृतीये ।
मेष्यनुवादेन चित्रत्व विधाने फलपदानर्थक्यापत्तेश्च ।
(१)वाक्यभेदः स्यात् । प्रकृतस्य च यागस्य फलाकाङ्क्षाया अनिवृत्तेः ।
विश्वजिन्न्यायेन फलकल्पने गौरवम् । 'दधिमध्वि' त्याद्युत्पत्तिवाक्येनै तस्या.
धिकारवाक्यस्य (२) प्रतिपम्नैकवाक्यताबाधेन वाक्यभेदप्रसङ्गाच्च । चित्रा-
शब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्क्षस्य फलसंबन्धमात्र.
करणान्न वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोप,
पत्तेः । तत्सिद्धं वाक्य मेदभयाचित्राशब्दः कर्मनामधेयमिति ॥ 2
 
बाच्यम् । तात्पर्यग्राहकत्वाङ्गीकारेऽपि उद्देश्यबोधक सामभ्यन्तर्गंतत्वेन एकप्रसरताभङ्ग
दोषस्य दुर्वारत्वात्। भक्षानुवादेनेति । "प्रैतु होतुश्चमसः" ''ग्रावभिरभिषुत्याह-
चनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति" "यथाचमसमन्यांश्चमसांश्चम-
सिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त" इत्यादिभिर्यो विहि-
तस्सोमभक्षः तदनुवादेनेत्यर्थः । तृतीय इति । तृतीयाध्याय इत्यर्थः । पञ्चमपाद इति
शेषः । वषट्कर्ता होता । येन याज्याया अन्ते 'वौषट्' इति वषटकार उच्चार्यते ।
 
कथञ्चित तदङ्गीकारेऽपि वा फलपदानर्थक्यं तदवस्थमेवेत्याह-मेषोति । ननु मेषी-
याँगे फलस्याप्राप्तत्वात् तस्य चित्रत्वस्य चेत्युभयोर्विधानमस्तु, अत श्राह-उभयेति । 'प्राप्ते
कर्मणि नानेको विधातुं शक्यते गुणः' इति पूर्वमेवोकत्वादिति भावः । प्रकृत-
स्येति । दधि मध्विति वाक्यविहितस्येत्यर्थः । फलाकाङ्क्षाया अनिवृत्तरिति । उ
त्पत्तिवाक्ये फलाश्रवणात् यस्य कस्यचित् यागस्य च प्रकरणे पाठाभावाच्च उत्पन्नाया
आकाङ्क्षायाश्शान्ती कारणाभावादिति भावः । ननु एतादृशस्थलेषु सति विश्व जिन्न्याये
जाग्रति किमर्थं परिश्राम्यते ? तह-विश्वजिदिति । न्यायोऽयं पूर्व मूलकृतैव
निरूपितः । नन्वेतादृशं गौरवं नामधेयरवाज्ञीकरणापेक्षया नातीव दोषमावहतीत्यत श्राह-
दधोति । एवञ्च वाक्यभेदपरिहारार्थमेव नामधेयत्वाङ्गीकरणमिति भावः । नामधेयप्र.
"योजनञ्च निरूपितमधस्तात् । नामधेयत्वाङ्गीकरणे कथं वाक्यभेदपरिहार: ? श्रत ग्राह-
चित्राशब्दस्येति । तर्हि चित्रत्वस्त्रीत्वयोः कथमुपपत्तिः ? तह-प्रकृताया इति ।
'इण्टेरित्यनेन इष्टिशब्दस्य स्त्रीप्रत्ययान्तत्वात् तदादायैव चित्राशब्दगत स्त्री प्रत्ययस्या-
*प्युपपत्तिरिति ध्वनितम् । द्वितीयं नामधेयत्वकारणं यन्निरूपितं दुपसंहरति-तत्सिद्ध-
'मिति । अनेनैव 'न्यायेन "त्रिवृत् यहिष्पवमानम्" "पञ्चदशान्याज्यानि"
"सप्तदशानि पृष्ठानि" इत्यादौ आज्यपृष्ठवहिष्पवमानशब्दाः कर्मनामधेयानि । तत्र
बहिष्पबमानशब्दः सोमयागे प्रातस्सवने क्रियमाणस्तोत्र विशेषवाची । श्राज्यपृष्ठशब्दौ
तु क्रमेण प्रातर्माध्यन्दिनसवनयोः क्रियमाणयोः स्तोत्रविशेषयोर्वाचकाविति ध्येयम् ।
स्तोत्राणाममीषा मेतत्पदवाच्यत्वे प्रवृत्तिनिमित्तं मीमांसाकौस्तुभे विस्तरेणोपपादितं तत
एवावगन्तव्यम् ।
 
FOUNDED
 
जय जावधीत
 
१. वाक्यभेदात् इति ख, ग, घ । २. प्रतीयमाने ।
 
Bhandarkar Oriental
Research Institute