2023-02-15 04:03:45 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचिनीव्याख्यासंवलितः
१२७
प्रकृते कर्मणि गुणविधानम्, किन्तु प्राणिद्रव्य के कर्मणि; तत्रास्य वाक्यस्या-
नारभ्याधीतत्वात्, मनारभ्याधीतानां च 'प्रकृतौ वाऽद्विरुक्तत्वात्' इति न्या.
येन प्रकृतिगामित्वात् प्राणिद्रव्यकाणां च (१) यागानां 'दक्षस्य चेतरेषु' इति
न्यायेनानीषोमीयप्रकृतिकत्वात्तदनुवादेना नेन वाक्येन गुणो विधीयते ।
दैक्षस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाङ्क्षाया अभावात् पशुकामपदं न
फलसमर्पकम; किंतु अग्नीषोमोयपश्वर्जनाङ्गतया प्राप्तकामनानुवादः । तथाच
न वाक्यभेद इति चेत् -
-
तथापि वैज्ञानुवादेन चित्रत्वस्त्रीत्वविधाने वाक्यभेदः । विशिष्टकारकवि-
घानेऽपि गौरवलक्षणों वाक्यभेद एव । कारकस्यापि प्राप्तत्वेन विशिष्टविधाना-
नीलादेरेवानुगतप्रतीति विषयत्वसम्भवात् न रूपत्वातिरिका नीलस्वादिजातिरङ्गीकर्तव्या
इत्येकं मतम् । अत एव वार्तिककृता शब्दनित्यत्वाधिकरणे -
-
"एतयैव दिशा वाच्या शुक्लादेरपि नित्यता । क
संसर्गमात्रभेदेन स्यात् तत्रापि हि भेदधीः
स्वरूपं तु तदेवेति को जातिं कल्पयिष्यति"
॥p feeg
इत्युक्तम् । अस्मिन् पक्षे चित्रस्वमित्यस्य चित्रगुण विशिष्टत्वमित्यर्थः । तच्च चित्रगुण
एव पर्यवस्यति । यदि तु नीलादिगुणानां भिन्नत्वमनिस्यत्वं चेति नैयायिकमत एवाग्रहः
तर्हि चित्रत्वेत्यस्य रूपत्वव्याप्यचित्रत्वजातिरेवार्थः इति बोध्यम् । अस्य वाक्यस्य
चित्रावाक्यस्य । ननु प्राणिद्रव्यकस्यापि प्रकृतिविकृत्युभयात्मकस्य कर्मणो बहुत्वात्
कुत्रास्य निवेश इत्याशङ्कायामाह-अनारभ्याधीतत्वादिति । अनारम्याघीतानां
प्रकृतिगामित्वं दैक्षस्य सर्वपशुयागप्रकृतित्वं च पूर्वमेव निरूपितम् । ननु अभीषोमीय
पश्वनुवादेन चित्रगुणसम्बन्धः पशुरूपफल सम्बन्धश्च विधेय इति पूर्वोक्तदोषतादवस्थ्यमि-
त्यत ग्राह- दैक्षस्येति । 'इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्या' दिति प्रपूर्व
सुत्रात प्रवृत्तिरित्यनुषज्यते । इतरेषु सवनीयादिषु पशुयागेषु, दैक्षस्थानीषोमीयस्य
पशोः अज्ञानां प्रवृत्तिः स्यादिति सूत्रार्थः । स्वतन्त्रफलाकाङ्क्षाया अभावादिति ।
प्रधानफलेनैवास्यापि फलवत्वलाभादिति भावः । एवं तर्हि पशुकामपदस्य वैयर्थ्यापत्ति-
रित्यत ग्राह-प्राप्तकामनेति । अर्जनाङ्गतयेति । नात्र 'उद्भिदा यजेत पशुकामः'
इत्यादिवत् पशुकामपदं फलत्वेन साध्यतापन्नपशुबोधकम् किन्तु, यागाङ्गत्वेन विहित
पशुसम्पादनाय या पशुविषयिणीच्छातद्बोधकम् । तस्याश्च पूर्वमेव प्राप्तत्त्वात् तदनुवादः
परमत्र क्रियत इति नानेकविधानकृतदोष इति भावः । RAMPE
यद्यप्यस्मिन् पक्षे न वाक्यभेदः, तथापि प्रकारान्तरेणापतन् वाक्यमैदो दुरुद्धर
एवेस्याह -तथापीति । ननु नास्मामिः पृथक् पृथक् चित्रत्वस्त्रीस्वयोर्विघिरञ्जीक्रियते,
यतो वाक्यभेद श्राशङ्कयेत, किन्तु "धेनुर्दक्षिणे" तिवत् प्राप्तकर्मानुवादेन चित्रत्व-
विशिष्टैककरणकारकस्यैव तृतीयोपात्तस्य विधानमनीक्रियते, तदा न भविष्यति वाक्य-
मैदः इत्याशङ्कयाह-विशिष्टकारकविधानेऽपीति । अस्तु गौरवलक्षणो वाक्यभेदः,
१. 'यागाना' नास्ति. क.
kar C
Research Institute